"जैमिनीयं ब्राह्मणम्/काण्डम् १/२११-२२०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">अहोरात्रयोर् वै देवासुरा अध... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">अहोरात्रयोर् वै देवासुरा अधिसंयत्ता आसन्। ते देवा अहर् अभ्यजयन्। अथासुरा ऋचं च रात्रिं च प्राविशन्। ते देवा अब्रुवन्न् अर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिम् अभिजयेम रत्नैर् अन्वभ्यवायमिति। तव छन्दसेत्य् अग्निम् अब्रुवन्। तव स्तोमेनेतीन्द्रम्। तव संपदेति प्रजापतिम्। युष्माकम् आयतननेति विश्वान् देवान्। यद् अग्निम् अब्रुवंस् तव छन्दसेति तस्माद् गायत्रीषु स्तुवन्ति। यद् इन्द्रम् अब्रुवंस् तव स्तोमेनेति तस्मात् पञ्चदशस्तोमो रात्रेः। यत् प्रजापतिम् अब्रुवंस् तव संपदेति तस्माद् अनुष्टुभं संपद्यते। यद् विश्वान् देवान् अब्रुवन् युष्माकम् आयतनेनेति तस्माज् जगत्यो ऽनुशंस्यन्ते। तान् संधिनाभिपलायन्त। आश्विनेनासंहेयम् अगमयन्। असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद॥1.211॥
 
 
पङ्क्तिः ६८:
 
 
</span></poem>