"ऋग्वेदः सूक्तं १.१४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८७:
 
हे अग्ने "नः "उक्थं शस्त्रम् "अभि "जुगुर्याः आभिमुख्येन स्तुहि प्रोत्साहय सम्यक् शस्तमित्यङ्गीकुरु॥ ‘गॄ शब्दे'। लिङि ‘बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘बहुलं छन्दसि' इति उत्वम् ॥ तथा “द्यावाक्षामा द्यावापृथिव्यावपि यज्ञसाधनसंपादनेन प्रोत्साहयताम् । तथा “सिन्धवः स्यन्दनशीला नद्यः च "स्वगूर्ताः स्वयमेव गामिन्यः “गव्यं गोसंभवं क्षीरादिकं गवां तृणाद्युत्पादनद्वारा "यव्यम् । उपलक्षणमेतत् । यवव्रीह्यादिजन्यं पुरोडाशादिकं "यन्तः प्रापयन्तः प्रोत्साहयन्तु । तथा "अरुण्यः अरूणवर्णगोयुक्ताः ॥ मत्वर्थीयो लुप्यते ॥ अरुण्यसाधनभूताः उषसः । तद्धेतुत्वात् ताच्छब्द्यम् । "दीर्घाहा सर्वाण्यहानि सर्वकालम् "इषम् इष्यमाणमन्नरसादिकं "वरं वरणीयं श्रेष्ठम् अन्यदपि यागसाधनं वरन्त प्रापयन्तु ।। ‘वृङ् संभक्तौ ' । अन्तर्भावितण्यर्थात् छान्दसो लङ् । व्यत्ययेन शप् ॥ साधयन्तु । एतत्सर्वमग्नेः प्रसादात् इत्यग्नेरेव स्तुतित्वात् आग्नेयत्वमविरुद्धम् ॥ ॥७॥
 
 
 
}}
 
== ==
{{टिप्पणी|
 
अभि द्विजन्मा --(१)त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृद्भवति। माश [[शतपथब्राह्मणम्/काण्डम् ३/अध्यायः २/कृष्णाजिनदीक्षा|३,२,१,१२]] ।
 
(२)त्रिवृता परिव्ययति । त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृता परिव्ययति - माश. [[शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ७/ब्राह्मण १|३,७,१,२०]]
 
(२) त्रिवृद्वाऽअन्नं कृषिर्वृष्टिर्बीजम् । माश [[शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ६/ब्राह्मणम् २|८,६,२,२]]
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४०" इत्यस्माद् प्रतिप्राप्तम्