"ऋग्वेदः सूक्तं ३.४८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘सद्यो ह' इति पञ्चर्चं दशमं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । “सद्यो ह' इत्यनुक्रमणिका । अग्निष्टोमे माध्यंदिनसवने मैत्रावरुणशस्त्रे ‘सद्यो ह जातः' इत्येतत्सूक्तम् । सूत्रितं च- सद्यो ह जात एवा त्वामिन्द्रः' (आश्व.श्रौ. ५. १६ ) इति । चातुर्विशिकेऽप्यहनि मैत्रावरुणशस्त्रेऽहरहःशस्यसंज्ञकमेतत्सूक्तम् । सूत्रितं च- सद्यो ह जात इत्यहरहःशस्यं मैत्रावरुणः ' (आश्व. श्रौ. ७. ४) इति । अहर्गणे द्वितीयादिष्वहःसु माध्यंदिनसवनेऽस्मिन् शस्त्र एतत्सूक्तम् । “ अहरहःशस्यानीति होत्रका द्वितीयादिष्वेव ' ( आश्व. श्रौ. ७. १) इति सूत्रितम् । साद्यस्क्रे एकाहे मरुत्वतीये शस्त्रे ‘सद्यो ह जातः ' इत्याद्या सूक्तमुखीया । सूत्रितं च--- सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपिबो जात इन्द्र' ( आश्व.श्रौ. ९. ५) इति ॥
 
 
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दंध॑सः सु॒तस्य॑ ।
 
सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥
 
सद्यः । ह । जातः । वृषभः । कनीनः । प्रऽभर्तुम् । आवत् । अन्धसः । सुतस्य ।
 
साधोः । पिब । प्रतिऽकामम् । यथा । ते । रसऽआशिरः । प्रथमम् । सोम्यस्य ॥ १ ॥
 
“वृषभः वृष्टिद्वारा अपां वर्षिता सद्यः तदानीमेव "जातः उत्पन्नः "कनीनः कमनीयः इन्द्रः “सुतस्य अभिषुतस्य अन्धसः हविर्लक्षणस्य अन्नस्य सोमस्य "प्रभर्तुं प्रकर्षेण भर्तारं संग्रहीतारं यजमानम् "आवत् रक्षतु । "ह प्रसिद्धौ । किंच तादृशस्त्वं “प्रतिकामं कामे कामे सोमपानेच्छायां सत्यां “ते तव "यथा कामस्य पूर्तिर्भवति तथा “साधोः रसात्मना संसिद्धं "रसाशिरः गोपयोमिश्रणोपेतं “सोम्यस्य सोममयं रसं "प्रथमं सर्वेभ्यो देवेभ्यः पुरस्तात् पिब ।। प्रतिकामम् । कामं कामं प्रति । वीप्सायामव्ययीभावः । समासस्वरः । यथा । अपादान्तत्वादेव लित्स्वरः । रसाशिरः । आङ्पूर्वात् श्रीणातेः क्विपि ‘अपस्पृधेथाम्' इत्यादिना आशिर” इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । सोम्यस्य । सोमशब्दात् मयडर्थे ' मये च ' इति यप्रत्ययः ।।
 
 
यज्जाय॑था॒स्तदह॑रस्य॒ कामे॒ऽंशोः पी॒यूष॑मपिबो गिरि॒ष्ठां ।
 
तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसिं॑च॒दग्रे॑ ॥
 
यत् । जायथाः । तत् । अहः । अस्य । कामे । अंशोः । पीयूषम् । अपिबः । गिरिऽस्थाम् ।
 
तम् । ते। माता । परि । योषा । जनित्री । महः। पितुः । दमे। आ। असिञ्चत् । अग्रे ॥२॥
 
हे इन्द्र त्वं "यत् यस्मिन्नहनि "जायथाः अजायथाः "तदहः तस्मिन्नेवाहनि "अस्य सोमरस्य “कामे पिपासायां सत्यां "गिरिष्ठां गिरिस्थां पर्वतस्य उच्चस्थाने वर्तमानम् "अंशोः सोमलताखण्डविशिष्टस्य ऋजीषस्य पीयूषम् अभिनवं रसम् "अपिबः पीतवानसि । उत्पत्तिक्षणे एव सोमपाने कारणं दर्शयति । "ते तव "जनित्री "माता "योषा युवतिरदितिः "महः महतः "पितुः जनकस्य कश्यपस्य "दमे सूतिकागृहे "अग्रे स्तन्यदानात् प्राक् "तं तादृशं सोमं "परि "आसिञ्चत् तवास्ये परितोऽक्षारयत् ॥ जायथाः । ‘जनी प्रादुर्भावे ' इत्यस्य लडि बहुलं छन्दसि ' इत्यडभावः । यद्वृत्तयोगादनिघातः । जनित्री । ‘जनिता मन्त्रे' इति निपातनात् णेर्लोपः ॥ ।
 
 
उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।
 
प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥
 
उपऽस्थाय । मातरम् । अन्नम् । ऐट्ट । तिग्मम् । अपश्यत् । अभि । सोमम् । ऊधः ।।
 
प्रऽयवयन् । अचरत् । गृत्सः । अन्यान् । महानि । चक्रे । पुरुधऽप्रतीकः ॥ ३ ॥
 
स इन्द्रः "मातरम् "उपस्थाय प्रार्थयित्वा "अन्नमैट्ट तामन्नमयाचत । ‘ईळिरध्येषणाकर्मा : ( निरु. ७. १५) इति यास्कः । ततस्तस्याः “ऊधः ऊधसि क्षीररूपेण स्थितं तिग्मं दीप्तं “सोमम् अभि “अपश्यत् सर्वतोऽदर्शत्। "गृत्सः । अभिकाङ्क्ष्यते सर्वैर्देवैः शत्रुहननार्थमिति गृत्स इन्द्रः। "अन्यान् सपत्नान् "प्रयवयन” स्वस्वस्थानात् प्रकर्षेणोच्चालयन् "अचरत् सर्वत्र चरति । किंच “पुरुधप्रतीकः तेजोयोगात् बहुधा विक्षिप्ताङ्ग सन् “महानि महान्ति वृत्रहननादीनि कर्माणि “चक्रे ॥ उपस्थाय । तिष्ठतेर्ल्यपि ' घुमास्था" ' इतीत्वे प्राप्ते न ल्यपि ' इति प्रतिषेधः । लित्स्वरः । ऐट्ट । ईळिर्याञ्चार्थः । तस्माल्लङि रूपम् । ‘आडजादीनाम् ' इत्याडागमः । ष्टुत्वम् । निघातः । तिग्मम् । तिज निशाने ' अस्मात् ‘युजिरुचितिजां कुश्च ' इति मक्प्रत्ययः कवर्गादेशश्च । प्रयवयन्।' यु मिश्रणामिश्रणयोः ' इत्यस्य ण्यन्तस्य शतरि रूपम् । लित्स्वरः । गृत्सः । ‘गृधु अभिकाङ्क्षायाम्'। ‘गृधिपण्योर्दकौ च ' इति सप्रत्ययो दकारश्चान्तादेशः । वृषादित्वात् आद्युदात्तः । पुरुधप्रतीकः । पुरुशब्दः' इह संख्यावाची । ‘संख्याया विधार्थे धा' इति धाप्रत्ययः । ह्रस्वछान्दसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥
 
 
उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
 
त्वष्टा॑र॒मिंद्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥
 
उग्रः । तुराषाट् । अभिभूतिऽओजाः । यथाऽवशम् । तन्वम् । चक्रे । एषः ।
 
त्वष्टारम् । इन्द्रः । जनुषा । अभिऽभूय । आऽमुष्य । सोमम् । अपिबत् । चमूषु ॥ ४ ॥
 
यः "एषः इन्द्रः "उग्रः शत्रूणां भयंकरः “तुराषाट् त्वरया शत्रूणामभिभविता अत एव “अभिभूत्योजाः शत्रूणामभिभवनपराक्रमोपेतः सन् "तन्वम् आत्मीयं शरीरं "यथावशं यथाकामं नानाविधरूपोपेतं "चक्रे । तथा च मन्त्रवर्णः- रूपंरूपं मघवा बोभवति' ( ऋ. सं. ३. ५३, ८) इति । सः "इन्द्रः "जनुषा जन्मना सामर्थ्येन "त्वष्टारं त्वष्टृनामकमसुरम् "अभिभूय "चमूषु चमसेषु स्थितम् "आमुष्य चोरयित्वा "सोममपिबत् ।' त्वष्टा हतपुत्रो वीन्द्रम्' इत्यादि ‘प्रासहा सोममपिबत् ' ( तै. सं. २. ४. १२. १ ) इति तैत्तिरीयकम् ॥ तुराषाट् । ‘ञित्वरा संभ्रमे ' । क्विप् । ‘ज्वरत्वर' ' इत्यादिना ऊठ् । सहेः “ छन्दसि सहः' इति ण्विः । ‘कर्तृकरणे कृता बहुलम्' इति समासः । तत्पुरुषे कृति बहुलम्' इति तृतीयायाः अलुक् । ‘सहेः साडः सः ' इति षत्वम् । कृदुत्तरपदस्वरः। यथावशम् । वशं काममनतिक्रम्य इत्यव्ययीभावसमासः । समासस्वरः । आमुष्य । ‘मुष स्तेये ' । ल्यप् । चमूषु ।' चमु अदने '। ‘कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' इत्यूप्रत्ययः । प्रत्ययस्वरः ॥
 
 
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
 
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥
 
शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
 
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥५॥
 
सिद्धैषा ॥ ॥ १२ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४८" इत्यस्माद् प्रतिप्राप्तम्