"ऋग्वेदः सूक्तं १.१८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१३:
== ==
{{टिप्पणी|
 
अस्मिन् सूक्ते पितुः शब्दस्य प्राकट्यं एकादशवारेण भवति। सामान्यतः सायणादि भाष्येषु पितुः शब्दस्य अर्थं सोम इति कृतं भवति। अस्य सू्क्तस्य ऋषिः अगस्त्यः अस्ति। अगस्त्यस्य ळक्ष्यं दक्षता प्राप्तिरस्ति। डा. फतहसिंहः कथयति स्म यत् वैदिकवाङ्मये शब्दस्य अर्घताह्रासस्य प्रदर्शनाय तस्य अभिव्यक्तिः द्विवचने एवं बहुवचने भवति। अनेन प्रकारेण, पितुः शब्दस्य बहुवचनं पितरः भविष्यति। देहमध्ये ये प्राणाः अव्यक्तरूपेण देहस्य पालनं कुर्वन्ति, तेषां संज्ञा पितरः अस्ति। आधुनिक चिन्तनानुसारेण तेषां संज्ञा अचेतनमनः कर्तुं शक्यन्ते। पितृषु दोषमस्ति यत् तेषां संगमनं, एकीकरणं अतिकठिनं अस्ति। अतएव, तेषां सर्वोच्चस्तरस्य संज्ञा विश्वेदेवाः अस्ति। आधुनिकविज्ञानस्य भाषायां विश्वेदेवाः समूहः अस्ति, न व्यूहः। किन्तु अगस्त्यः यस्मिन् रूपे पितॄणां दर्शनं करोति, तत् पितुः अस्ति।
 
सा ततः प्राच्युदक्रामत् । तत्प्रजापतिः पर्यगृह्णात् । अथर्व पितुं मे गोपायेति । तै.ब्रा. [[तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०१|१.१.१०.४]]
 
अथर्व पितुं मे गोपाय । रसमन्नमिहायुषे । अदब्धायोऽशीततनो । अविषं नः पितुं कृणु । तै.ब्रा. [[तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०२|१.२.१.२५]]
 
पितुषणिरित्यन्नं वै पितु दक्षिणा वै पितु तामेनेन सनोत्यन्नसनिमेवैनं तत्करोति - ऐ.ब्रा. [[ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)|१.१३]]
 
अविषं नः पितुं कृण्वित्यन्नं वै पितुरनमीवं न इदमकिल्बिषमन्नं कुर्वित्येवैतदाह - माश. [[शतपथब्राह्मणम्/काण्डम् १/अध्यायः ९/ब्राह्मण २|१.९.२.२०]]
 
अथैतं पितुमद्धि प्रसूत इत्यन्नं वै पितुरथैतदन्नमद्धि प्रमुक्त इति - माश. [[शतपथब्राह्मणम्/काण्डम् ७/अध्यायः २/प्रथमं ब्राह्मणम्|७.२.१.१५]]
 
प्रथमायां ऋचायां उल्लेखमस्ति - यस्य त्रितो वि ओजसा वृत्रं विपर्वमर्दयत्। विपर्वस्य वृत्रस्य किमर्थं भवति। एकमर्थमस्ति - संवत्सरो वै पर्ववान् अस्ति। संवत्सरे कालस्य विभाजनं कला, कला, मुहूर्त्तादिषु कर्तुं शक्यन्ते। संवत्सरस्य निर्माणं सूर्य, पृथिवी एवं चन्द्रमसः अन्योन्याश्रिताभिः गतिभिः भवति। आध्यात्मिक स्तरे एषः योगः प्राण, वाक् एवं मनसि भवति। शतपथब्राह्मणे [[शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ६/ब्राह्मण ३|१.६.३.१७]] कथनमस्ति यत् यदा वृत्रस्य हननम् अभवत्, तदा तस्य यः सौम्यं भागमासीत्, तत् चन्द्रमा अभवत्। यः असुर्यम् आसीत्, तत् उदरे क्षुधारूपेण प्रतिष्ठितो अभवत्। शतपथ ब्राह्मणं [[शतपथब्राह्मणम्/काण्डम् १/अध्यायः २/ब्राह्मण ३|१.२.३.२]] अनुसृत्वा इदं कथितुं शक्यन्ते यत् यः वृत्रः अस्ति, तस्य साम्यं त्वष्टा विश्वरूपेण सह अस्ति। विश्वरूपः त्रिशीर्षः अस्ति। सः एकेन मुखेन सोमस्य पानं करोति, द्वितीयेन सुरायाः, तृतीयेन अन्नस्य। त्रितेन, यः इन्द्रस्य सहायकः अस्ति, तस्य त्रिशीर्षाणां कर्तनं अभवत्।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८७" इत्यस्माद् प्रतिप्राप्तम्