"ऋग्वेदः सूक्तं १०.१३६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
के॒श्य१॒॑ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी ।
 
के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥१
 
के॒शी । अ॒ग्निम् । के॒शी । वि॒षम् । के॒शी । बि॒भ॒र्ति॒ । रोद॑सी॒ इति॑ ।
 
के॒शी । विश्व॑म् । स्वः॑ । दृ॒शे । के॒शी । इ॒दम् । ज्योतिः॑ । उ॒च्य॒ते॒ ॥
 
केशी । अग्निम् । केशी । विषम् । केशी । बिभर्ति । रोदसी इति ।
Line ४३ ⟶ ४७:
मुन॑यो॒ वात॑रशनाः पि॒शङ्गा॑ वसते॒ मला॑ ।
 
वात॒स्यानु॒ ध्राजिं॑ यन्ति॒ यद्दे॒वासो॒ अवि॑क्षत ॥२
 
मुन॑यः । वात॑ऽरशनाः । पि॒शङ्गा॑ । व॒स॒ते॒ । मला॑ ।
 
वात॑स्य । अनु॑ । ध्राजि॑म् । य॒न्ति॒ । यत् । दे॒वासः॑ । अवि॑क्षत ॥
 
मुनयः । वातऽरशनाः । पिशङ्ग । वसते । मला ।।
Line ४९ ⟶ ५७:
वातस्य । अनु । ध्राजिम् । यन्ति । यत् । देवासः । अविक्षत ॥ २ ॥
 
"वातरशनाः वातरशनस्य पुत्राः "मुनयः अतीन्द्रियार्थदर्शिनो जूतिवातजूतिप्रभृतयः “पिशङ्गा पिशङ्गानि कपिलवणनिकपिलवर्णानि "मला मलिनानि वल्कलरूपाणि वासांसि “वसते आच्छादयन्ति । ‘वस आच्छादने । आदादिकः । ईदृशास्ते यत् यदा “देवासः देवाः तपसो महिम्ना दीप्यमानाः सन्तः "अविक्षत देवतास्वरूपं प्राविशन् । विशेर्लुङि शल इगुपधादनिटः क्सः । व्यत्ययेनात्मनेपदम् । तदा ते वातस्य वायोः “ध्राजिं गतिम् "अनु “यन्ति अनुगच्छन्ति । प्राणोपासनया प्राणरूपिणो वायुभावं प्रपन्ना इत्यर्थः ॥
 
 
उन्म॑दिता॒ मौने॑येन॒ वाताँ॒ आ त॑स्थिमा व॒यम् ।
 
शरी॒रेद॒स्माकं॑ यू॒यं मर्ता॑सो अ॒भि प॑श्यथ ॥३
 
उत्ऽम॑दिताः । मौने॑येन । वाता॑न् । आ । त॒स्थि॒म॒ । व॒यम् ।
 
शरी॑रा । इत् । अ॒स्माक॑म् । यू॒यम् । मर्ता॑सः । अ॒भि । प॒श्य॒थ॒ ॥
 
उत्ऽमदिताः । मौनेयेन । वातान् । आ । तस्थिम । वयम् ।
Line ६६ ⟶ ७८:
 
मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा॑ हि॒तः ॥
 
अ॒न्तरि॑क्षेण । प॒त॒ति॒ । विश्वा॑ । रू॒पा । अ॒व॒ऽचाक॑शत् ।
 
मुनिः॑ । दे॒वस्य॑ऽदेवस्य । सौकृ॑त्याय । सखा॑ । हि॒तः ॥
 
अन्तरिक्षेण । पतति । विश्व । रूपा । अवऽचाकशत् ।
Line ७६ ⟶ ९२:
वात॒स्याश्वो॑ वा॒योः सखाथो॑ दे॒वेषि॑तो॒ मुनिः॑ ।
 
उ॒भौ स॑मु॒द्रावा क्षे॑ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥५
 
वात॑स्य । अश्वः॑ । वा॒योः । सखा॑ । अथो॒ इति॑ । दे॒वऽइ॑षितः । मुनिः॑ ।
 
उ॒भौ । स॒मु॒द्रौ । आ । क्षे॒ति॒ । यः । च॒ । पूर्वः॑ । उ॒त । अप॑रः ॥
 
वातस्य । अश्वः । वायोः । सखा । अथो इति । देवऽइषितः । मुनिः ।
Line ८७ ⟶ १०७:
अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् ।
 
के॒शी केत॑स्य वि॒द्वान्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥६
 
अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् ।
 
के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥
 
अप्सरसाम् । गन्धर्वाणाम् । मृगाणाम् । चरणे । चरन् ।।
Line ९८ ⟶ १२२:
वा॒युर॑स्मा॒ उपा॑मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा ।
 
के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥७
 
वा॒युः । अ॒स्मै॒ । उप॑ । अ॒म॒न्थ॒त् । पि॒नष्टि॑ । स्म॒ । कु॒न॒न्न॒मा ।
 
के॒शी । वि॒षस्य॑ । पात्रे॑ण । यत् । रु॒द्रेण॑ । अपि॑बत् । स॒ह ॥
 
वायुः । अस्मै । उप । अमन्यत् । पिनष्टि । स्म । कुनंनमा ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३६" इत्यस्माद् प्रतिप्राप्तम्