"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
सवनेऽच्छावाकस्य ' गायन्ति ' इति स्तोत्रियस्तृचः । ' एह्यू षु ' इति खण्डे ' गायन्ति त्वा गायत्रिण
आ त्वा गिरो रथीरिव ' ( आश्व श्रौ. ७.८) इति सूत्रितम् ।
 
 
गायं॑ति त्वा गाय॒त्रिणोऽर्चं॑त्य॒र्कम॒र्किणः॑ ।
Line ५७ ⟶ ५८:
 
ब्रह्माणः । त्वा । शतक्रतो इति शतऽक्रतो । उत् । वंशम्ऽइव । येमिरे ॥
 
हे "शतक्रतो बहुकर्मन् बहुप्रज्ञ वा इन्द्र त्वां गायत्रिणः उद्गातारः "गायन्ति स्तुवन्ति । "अर्किणः अर्चनहेतुमन्त्रयुक्ता होतारः "अर्कम् अर्चनीयमिन्द्रम् "अर्चन्ति शस्त्रगतैर्मन्त्रैः प्रशंसन्ति । "ब्रह्माणः ब्रह्मप्रभृतय इतरे ब्राह्मणाः त्वाम् "उत् "येमिरे उन्नतिं प्रापयन्ति । तत्र दृष्टान्तः। "वंशमिव । यथा वंशाग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशमुन्नतं कुर्वन्ति । यथा वा सन्मार्गवर्तिनः स्वकीयं कुलमुन्नतं कुर्वन्ति तद्वत् । एतामृचं यास्क एवं व्याचष्ट-’गायन्ति त्वा गायत्रिणः प्रार्चन्ति तेऽर्कमर्किणो ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव । वंशो वनशयो भवति वननाच्छ्रूयत इति वा ' (निरु. ५. ५) इति । अर्कशब्दं च बहुधा व्याचष्टे- अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदेनेनार्चन्त्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति स वृतः कटुकिम्ना' (निरु. ५. ४ ) इति ॥ गायन्ति । शप्तिङौ पित्त्वात् लसार्वधातुकत्वाच्च अनुदात्तौ । धातुरुदात्तः । गायत्रिणः । गायत्रं साम येषामुद्गातॄणामस्ति ते । ‘अत इनिठनौ'। प्रत्ययस्वरेण इकार उदात्तः । अर्चन्ति । ‘अर्च पूजायाम्' । भौवादिकः । शप्तिङौ अनुदात्तौ । धातुस्वर एव । पादादित्वात् न निघातः । अर्कम् । अर्चन्त्येभिरिति अर्का मन्त्राः । तैरर्चनीयतया तदात्मक इन्द्रोऽपि लक्षणया अर्कः । ‘पुसि संज्ञायां घः प्रायेण ' ( पा. सू. ३. ३. ११८ ) इति करणे घः । 'चजोः कु घिण्ण्यतोः' ( पा. सू. ७. ३. ५२ ) इति चकारस्य कुत्वं ककारः । प्रत्ययस्वरेणान्तोदात्तः । अर्का मन्त्रा एषां सन्तीत्यर्किणो होतारः । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ' ( पा. म. ५. २. ११५. १ ) इति कृदन्तात् इनिठनौ यद्यपि प्रतिषिद्धौ तथाप्यत्र व्यत्ययात् इनिः । प्रत्ययस्वरेण इकार उदात्तः । ब्रह्माणः । प्रातिपदिकस्वरेणान्तोदात्तः । शतक्रतो । निघातः । संहितायाम् अवादेशे ‘लोपः शाकल्यस्य' (पा. सू. ८. ३. १९) इति वकारलोपः । वंशशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘इवेन विभवत्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति स एव शिष्यते । येमिरे । यम उपरमे'। तिङ्ङतिङः' इति निघातः ॥
 
 
Line ७० ⟶ ७३:
 
तत् । इन्द्रः । अर्थम् । चेतति । यूथेन । वृष्णिः । एजति ॥
 
"यत् यदा "सानोः "सानुम् "आरुहत् यजमानः सोमवल्लीसमिदाद्याहरणाय एकस्मात् पर्वतभागात् अपरं पर्वतभागम् आरूढवान् तथा "भूरि प्रभूतं "कर्त्वं कर्म सोमयागरूपम् "अस्पष्ट स्पृष्टवान् । उपक्रान्तवानित्यर्थः। "तत् तदानीम् "इन्द्रः "अर्थं यजमानस्य प्रयोजनं "चेतति जानाति । ज्ञात्वा च "वृष्णिः कामानां वर्षिता सन् "यूथेन मरुद्रणेन सह "एजति कम्पते। स्वस्थानात् यज्ञभूमिमागन्तुमुद्युङ्क्ते इत्यर्थः॥ सानोः। ‘षणु दाने' । सनोति ददाति निवसतामवकाशमिति सानुः । ‘दॄसनिजनिचरिचटिरहिभ्यो ञुण्' (उ. सू. १.३)। णित्त्वात् उपधाया वृद्धिः; ञित्त्वादाद्युदात्तत्वं च । अरुहत्। रुहेर्लङि तिपि शपि ‘संज्ञापूर्वको विधिरनित्यः' (परिभा. ९३.१) इति लघूपधगुणो न भवति । ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः'। सति शिष्टत्वात् स एव शिष्यते। निपातैर्यद्यदिहन्त०' (पा. सू. ८. १. ३०) इति निषेधात् निघातो न भवति । भूरि । 'अदिशदिभूशुभिभ्यः क्रिन' ( उ. सू. ४. ५०५)। कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । अस्पष्ट। ‘स्पश बाधनस्पर्शनयोः । ‘स्वरितञितः°' (पा. सू. १. ३. ७२ ) इत्यात्मनेपदम् । लङः प्रथमपुरुषैकवचनं त । ‘बहुलं छन्दसि' इति शपो लुक् । व्रश्चादिषत्वष्टुत्वे (पा. सू. ८. २. ३६; ८. ४. ४१ )। ‘लुङ्लङ्लुङ्क्ष्वडुदात्तः' इति अडागम उदात्तः। स एव शिष्यते । अनुषङ्गेण यच्छब्दयोगात् निधाताभावः । कर्त्वम्। ‘डुकृञ् करणे'। अन्येभ्योऽपि दृश्यन्ते'
पा. सू. ३. २. ७५ ) इति विच् । गुणो रपरत्वम् । विचः सर्वापहारी लोपः । करो भावः कर्त्वम् । अर्थम् । अर्तेः ‘उषिकुषिगार्तिभ्यस्थन् ' (उ. सू. २. १६१)। नित्त्वादाद्युदात्तः । यूथेन।' तिथपृष्ठगूथयूथप्रोथाः' ( उ. सू. २. १६९) इति थक्प्रत्ययान्तो निपातितः । वृष्णिः। ‘निः' इत्यनुवृत्तौ ‘सृवृषिभ्यां कित्' (उ. सू. ४. ४८९) इति निप्रत्ययान्तः । कित्वा. द्गुणाभावः। प्रत्ययस्वरेणान्तोदात्तः । एजति । ‘एजृ कम्पने'। ' तिङ्ङतिङः' इति निघातः ॥
 
 
Line ८४ ⟶ ९०:
अथ । नः । इन्द्र । सोमऽपाः । गिराम् । उपऽश्रुतिम् । चर ॥
 
हे "सोमपाः सोमपानयुक्त "इन्द्र हरी त्वदीयावश्वौ "युक्ष्वा "हि सर्वथा संयोजय । "अथ अनन्तरं "नः अस्मदीयानां "गिरां स्तुतीनाम् "उपश्रुतिं समीपे श्रवणमुद्दिश्य "चर तत्प्रदेशं गच्छ । कीदृशौ हरी । "केशिनी स्कन्धप्रदेशे लम्बमानकेशयुक्तौ "वृषणा सेचनसमर्थौ युवानौ ।"कक्ष्यप्रा । अश्वस्योदरबन्धनरज्जुः कक्ष्या तस्याः पूरकौ पुष्टाङ्गावित्यर्थः ॥ युक्ष्व । श्नमो लोपश्छान्दसः । सति शिष्टत्वेन प्रत्ययस्वरः शिष्यते ।' द्व्यचोऽतस्तिङः ' ( पा. सू. ६. ३. १३५) इति संहितायां दीर्घत्वम्। केशिना । प्रशस्ताः केशा अनयोः सन्तीति मत्वर्थीय इनिः । प्रत्ययस्वरः । ‘सुपां सुलुक्' (पा. सू. ७. १. ३९ ) इत्यादिना द्विवचनस्य आकारादेशः । वृषणा। ‘पृषु वृषु मृषु सेचने '।' कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः' ( उ. सू. १. १५४ ) इति कनिन् । ' नित्यादिर्नित्यम्' इत्याद्युदात्तः । ‘वा षपूर्वस्य निगमे ' ( पा. सू. ६. ४. ९) इति उपधायाः पक्षे दीर्घाभावः । पूर्ववदाकारः । कक्ष्यप्रा । कक्षयोर्भवं कक्ष्यं सूत्रम् । तत् प्रातः पूरयतः पुष्टत्वादिति कक्ष्यप्रौ। ‘प्रा पूरणे'। ‘आतोऽनुपसर्गे कः ( पा. सू. ३, २. ३ ) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । आकारः पूर्ववत् । अथ। ' निपातस्य ' ( पा. सू. ६. ३. १३६ ) इति संहितायां दीर्घः । नः । ‘अनुदात्तं सर्वमपादादौ ' ( पा. सू. ८. १. १८) इत्यनुवृत्तौ ‘बहुवचनस्य वरनसौ ' (पा. सू. ८. १. २१) इति नसादेशोऽनुदात्तः । इन्द्र सोमपाः । उभौ ' आमन्त्रितस्य च ' ( पा. सू. ८. १. १९) इति सर्वानुदात्तौ । गिराम् । 'सावेकाचस्तृतीयादिर्विभक्तिः ' ( पा. सू. ६. १. १६८ ) इति विभक्तिरुदात्ता। उपशब्दो निपातत्वादाद्युदात्तः । श्रुतिशब्देन प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ तादौ च निति कृत्यतौ ' ( पा. सू. ६. २. ५०) इति तुवर्जिततादिपरत्वात् गतेः प्रकृतिस्वरः । चर । निघातः ॥
 
विशेषविनियोगस्तु यत्र श्रौतो न सूत्रितः । स्मार्तं तत्र विजानीयादृग्विधानादिसूत्रतः ॥ ‘एहि स्तोमान्' इति ऋगेषा सूत्रे विशेषकारेण न विनियुक्ता। साधारणविनियोगस्तु ब्रह्मयज्ञादौ सर्वत्रानुसंधेयः ।।
 
एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व ।
Line ९७ ⟶ १०६:
ब्रह्म । च । नः । वसो इति । सचा । इन्द्र । यज्ञम् । च । वर्धय ॥
 
हे "वसो निवासकारणभूत "इन्द्र "एहि अस्मिन् कर्मण्यागच्छ । आगत्य च "स्तोमान् उद्गातृप्रयुक्तानि स्तोत्राणि "अभि स्वर अभिलक्ष्य प्रशंसारूपं शब्दं कुरु। तथा आध्वर्यवमभिलक्ष्य "गृणीहि शब्दं कुरु । तथा होतृप्रयुक्तानि शस्त्राण्यालक्ष्य "रुव शब्दं कुरु । परितोषेण सर्वानृत्विजः प्रशंसेत्यर्थः । तत ऊर्ध्वं "नः अस्माकं "ब्रह्म "च अन्नं च "यज्ञ च अनुष्ठीयमानं कर्म च "सचा सह "वर्धय । साङ्गत्वसंपादनेन यज्ञ वर्धयित्वा तत्फलमन्नं च प्रवृद्धं कुरु ।' अन्धः' इत्यादिष्वष्टाविंशत्यन्ननामसु ' ब्रह्म वर्चः ' (नि. २. ७. २५) इति पठितम् ॥ इहि । ‘इण् गतौ । सेर्हिः । हेरपित्त्वेन ङित्त्वात् गुणाभावः । निघातः । आङा सह गुणः ‘एकादेश उदात्तेनोदात्तः' इत्युदात्तः । स्तोमान् ।' अर्तिस्तुसु° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । उत्तरपदेन संहितायां नकारस्य दीर्घदटि समानपादे' ( पा. सू. ८. ३. ९) इति रुत्वम् । ‘आतोऽटि नित्यम् ' (पा. सू. ८. ३. ३ ) इति आकारस्यानुनासिकः । ‘भोभगोअघोअपूर्वस्य योऽशि' (पा. सू. ८. ३. १७ ) इति यत्वम् । तस्य लोपः शाकल्यस्य ' ( पा. सू. ८. ३. १९ ) इति लोपः। तस्यासिद्धत्वात् स्वरसंधिर्न भवति । अभि । एवमादीनामन्तः ' ( फि. सू. ८२ ) इत्यन्तोदात्तः । स्वर ।' स्वृ शब्दोपतापयोः '। निघातः । अभि । गतम् । गृणीहि । ‘गॄ शब्दे । ‘सेर्ह्यपिच्च' (पा. सू. ३. ४. ८७ ) इति हिः । ‘क्र्यादिभ्यः श्ना'। ‘ई हल्यघोः' (पा. सू. ६. ४. ११३ ) इति ईत्वम् ।' प्वादीनां ह्रस्वः' ( पा. सू. ७. ३. ८०) इति ऋकारस्य ऋकारः । ‘ऋवर्णाच्चेति वक्तव्यम् ' ( का. ८. ४. १. १) इति णत्वम् । ‘तिङ्ङतिङः' इति निघातः । रुव । ‘रु शब्दे । सेर्ह्यपिच्च । शपि प्राप्ते व्यत्ययेन शः। तस्य ङित्त्वेन गुणाभावात् उवङादेशः । ‘अतो हेः ' ( पा. सू. ६. ४. १०५) इति हेर्लुक् ।' तिङ्ङतिङः' इति निघातः । ब्रह्म । तृहि बृहि वृद्धौ'। ‘मनिन् ' इत्यनुवृत्तौ ‘बृहेरम् नलोपश्च' ? ( उ. सू. ४.५८५) इति मनिन् । तत्संनियोगेन नलोपः अमागमश्च । ‘मिदचोऽन्त्यात्परः ' ( पा. सू. १. १. ४७ ) इति ऋकारात्परः । यणादेशः । मनिनो नित्त्वादाद्युदात्तत्वम् । वसो । आमन्त्रितनिघातः । यज्ञम् ।' यजयाच° ! ( पा. सू. ३. ३. ९० ) इत्यादिना नङ् । प्रत्ययस्वरः । वर्धय । निघातः । अत्र चकारद्वयश्रवणात् इयमेव तिङ्विभक्तिः पूर्ववाक्येष्वनुषज्यते । अतोऽनुषक्तैव प्रथमा न श्रुता इति अश्रुतायाः ‘चवायोगे प्रथमा ' ( पा. सू. ८. १. ५९ ) इति निघातनिषेधो न भवति ॥
 
 
अभिप्लवषडहगतोक्थ्येषु अच्छावाकस्य तृतीयसवने ‘ उक्थमिन्द्राय शंस्यम्' इत्यनुरूपस्तृचः । ‘एह्यू षु' इति खण्डे ‘इन्द्रं विश्वा अवीवृधन्नुक्थमिन्द्राय शंस्यम्' (आश्व. श्रौ. ७. ८) इति सूत्रितम्॥
 
उ॒क्थमिंद्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ ।
Line १०९ ⟶ १२२:
 
शक्रः । यथा । सुतेषु । नः । ररणत् । सख्येषु । च ॥
 
"इन्द्राय इन्द्रार्थं "वर्धनं वृद्धिसाधनम् "उक्थं शस्त्रं "शंस्यम् अस्माभिः शंसनीयम्। कीदृशायेन्द्राय। "पुरुनिष्षिधे बहूनां शत्रूणां निषेधकारिणे । "शक्रः इन्द्रः "नः अस्मदीयेषु "सुतेषु पुत्रेषु "सख्येषु "च सखित्वेष्वपि "यथा येन प्रकारेण "रारणत् अतिशयेन शब्दं कुर्यात् तथा शंस्यमिति पूर्वत्रान्वयः । अस्मदीयेन शस्त्रेण परितुष्ट इन्द्रोऽस्माकं पुत्रान् अस्मत्सख्यानि च बहुधा प्रशंसत्वित्यर्थः ॥ उक्थम् । वचेस्थक्प्रत्यय उक्तः ( उ. सू. २. १६४) । प्रत्ययस्वरः । शंस्यम् । ‘शंसु स्तुतौ' । ण्यन्तात् ‘अचो यत्' । ‘णेरनिटि ' (पा. सू. ६. ४. ५१ ) इति णिलोपः। तित्स्वरिते प्राप्ते ' यतोऽनावः' इत्याद्युदात्तत्वम् । वधनम् । ‘करणाधिकरणयोश्च ' (पा. सू. ३. ३. ११७ ) इति करणे ल्युट् । ‘लिति' इति प्रत्ययपूर्वस्य उदात्तत्वम् । पुरुनिष्षिधे बहूनां शत्रूणां निषेधकाय । 'षिध गत्याम् । ‘धात्वादेः षः सः'। अत्र निरित्युपसर्गस्य निशब्द समानार्थस्य प्राक्प्रयोगः। ‘क्विप् च ' इति क्विप् । क्विपः सर्वापहारी लोपः । ‘कुगतिप्रादयः' ( पा. सू. २. २. १८) इति समासः । निसः सकारेण इणो व्यवधानं छान्दसत्वादनादृत्य उपसर्गात्सुनोति° ' ( पा. सू. ८. ३.६५) इत्यादिना धातुसकारस्य षत्वम् । निसः सकारस्य ‘ष्टुना ष्टुः ' ( पा. सू. ८. ४. ४१ ) इति षत्वम् । पुरुशब्देन कर्मणि षष्ठ्यन्तेन समासः । षिधो धातुस्वरेणोदात्तत्वम् । निष्धिधे इति प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम्। कृद्ब्रहणे गतिकारकपूर्वस्यापि ग्रहणात् पुनः कारकसमासेऽपि स एव स्वरः । शक्नोतीति शक्रः । ‘स्फायितञ्चिवञ्चिशकि° ' ( उ. सु. २. १७० ) इत्यादिना रक् । प्रत्ययस्वरः । यथा । ‘प्रकारवचने थाल् ' ( पा. सू. ५. ३. २३ ) । लित्स्वरेण प्रत्ययात् पूर्वोऽकार उदात्तः । सुप्तेषु । क्तः प्रत्ययस्वरेणोदात्तः । नसो नकारस्य ‘नश्च धातुस्थोरुषुभ्यः' (पा. सू. ८. ४. २७ ) इति संहितायां णत्वम् । रारणत् ।' रण शब्दार्थः । ‘धातोरेकाचः ' ( पा. सू. ३. १. २२) इति यङ् । ‘यङोऽचि च' (पा. सू. २. ४. ७४ ) इति लुक् । प्रत्ययलक्षणेन द्विर्भावः (पा. सू. ६. १. ९) । हलादिशेषः । दीर्घोऽकितः ' (पा. सू. ७.४.८३) इति दीर्घः । प्रत्ययलक्षणेन ‘सनाद्यन्ता धातवः' ( पा. सू. ३. १. ३२ ) इति धातुसंज्ञायां • लिङर्थे लेट् ' ( पा. सू. ३. ४. ७ ) इति हेतुहेतुमद्भावलक्षणे लिङर्थे ( पा. सू. ३. ३. १५६ ) लेट् । अत्र हि इन्द्रकर्तृकं रारणनम् उक्थशंसनस्य कर्तव्यत्वे हेतुः । लेटस्तिप् । इतश्च लोपः परस्मैपदेषु ' ( पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘लेटोऽङाटौ' (. सू. ३. ४. ९४ ) इति अडागमः । कर्तरि शप् । तस्य चर्करीतं परस्मैपदम् अदादिवच्च द्रष्टव्यम् इति अदादिवद्भावात् ‘अदिप्रभृतिभ्यः शपः' इति प्राप्तो लुक् ‘बहुलं छन्दसि' इति निषिध्यते । शपोऽनुदात्तत्वात् धातोः अन्तोदात्त एव शिष्यते । शपा लसार्वधातुकस्य व्यवधानात् तत्र परतो विधीयमानम् ‘अभ्यस्तानामादिः' ( पा. सू. ६. १. १८९) इत्याद्युदात्तत्वं न भवति । न च ' तिङ्ङतिङः' इति निघातः । अत्र यथाशब्दयोगेन ‘यावद्यथाभ्याम् ' (पा. सू. ८. १. ३६) इति निषेधात् । ‘चवायोगे प्रथमा' इति वात्र निघातो न भविष्यति । अत्र ह्युत्तरवाक्ये सख्येषु च इति चानुकृष्टविभक्त्यपेक्षया इयं प्रथमा तिङ्विभक्तिः। सख्येषु । सख्युः कर्माणि सख्यानि तेषु । ‘कर्मणि च' (पा. सू. ५. १. १२४ ) इत्यनुवृत्तौ ‘सख्युर्थः ' ( पा. सू. ५. १. १२६ ) इति सखिशब्दात् यप्रत्ययः । तत्र भसंज्ञायां ‘ यस्येति च ' (पा. सू. ६. ४. १४८) इति इकारलोपः । प्रत्ययस्वरः ॥
 
 
Line १२३ ⟶ १३८:
सः । शक्रः । उत । नः । शकत् । इन्द्रः । वसु । दयमानः ॥
 
"सखित्वे निमित्तभूते सति "तमित् तमेवेन्द्रम् "ईमहे प्राप्नुमः । तथा "राये धनार्थं "तम् ईमहे । तथा "सुवीर्ये शोभनसामर्थ्यनिमित्तं "तम् ईमहे । "उत अपि च "शक्रः शक्तिमान् "सः इन्द्रः "नः अस्मभ्यं "वसु धनं "दयमानः प्रयच्छन् "शकत् अस्मदीयरक्षणे शक्तोऽभूत् । सप्तदश
 
सु॒वि॒वृतं॑ सुनि॒रज॒मिंद्र॒ त्वादा॑त॒मिद्यशः॑ ।
 
 
गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥७
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्