"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१७:
नव्यम् । आयुः । प्र । सु । तिर । कृधि । सहस्रऽसाम् । ऋषिम् ॥
 
हे "इन्द्र "तु क्षिप्रं "नः अस्मान् प्रति "आ गच्छतिशेषः । हे "कौशिक कुशिकस्य पुत्र इन्द्र "मन्दसानः हृष्टो भूत्वा "सुतम् अभिषुतं सोमं "पिब । यद्यपि विश्वामित्रः कुशिकस्य पुत्रस्तथापि तद्रूपेणेन्द्रस्यैवोत्पन्नत्वात् कुशिकपुत्रत्वमविरुद्धम् । अयं वृत्तान्तोऽनुक्रमणिकायामुक्तः-‘कुशिकस्त्वैषीरथिरिन्द्रतुल्यं पुत्रमिच्छन् ब्रह्मचर्यं चचार। तस्येन्द्र एव गाथी पुत्रो जज्ञे ' ( अनु. ऋ. सं. ३. १) इति । हे इन्द्र "नव्यं सर्वैर्देवैः स्तुत्यं कर्मानुष्ठानपरम् "आयुः जीवितं "प्र "सू "तिर प्रकर्षेण सुष्ठु वर्धय । ततो मां "सहस्रसां सहस्रसंख्याकलाभोपेतम् "ऋषिम् अतीन्द्रियद्रष्टारं "कृधि कुरु ॥ तु । संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्' (पा. सू. ६. ३. १३३ ) इति दीर्घः। नः। संहितायाम् ‘उदात्तादनुदात्तस्य स्वरितः'। इन्द्र । आमन्त्रितनिघातः । कौशिक । निघातः । मन्दसानः हृष्यन् । “मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । ' असानच्' (उ. सू. २. २४३) इत्यनुवृत्तौ ‘ऋञ्जिवृधिमन्दिसहिभ्यः कित्' ( उ. सू. २. २४४ ) इति असानच् प्रत्ययः । चित्त्वादन्तोदात्तः । सुतम् । प्रत्ययस्वरः । नव्यम्। ‘णु स्तुतौ ।' अचो यत्' (पा. सू. ३. १. ९७ )। गुणः । ‘वान्तो यि प्रत्यये' (पा.सू. ६. १. ७९) इति अवादेशः । यतोऽनावः' इत्याद्युदातत्वम् । आयुः। ‘उसि, नित्' इत्यनुवृत्तौ ‘एतेर्णिच्च' (उ. सू. २. २७५) इति उसिप्रत्ययः । णित्त्वात् वृद्ध्यायादेशौ। नित्त्वादाद्युदात्तत्वम् । सु।' निपातस्य च ' इति संहितायां दीर्घत्वम् । तिर। तरतेर्व्यत्ययेन शः । ‘ऋत इद्धातोः' (पा. सू. ७. १. १००) इति इत्वम् । अतो हेः' (पा. सू. ६. ४. १०५) इति हेर्लुक्। कृधि ।' डुकृञ् करणे'। ‘बहुलं छन्दसि' इति शपो लुक् । “ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । सहस्रताम् । उक्तम् । ऋषिम् । 'ऋषी गतौ'। ‘इन्' इत्यनुवृत्तौ ‘इगुपधात्किञ्च' ( उ. सू.४. ५५९)। कित्त्वद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् ॥
 
 
प्रवग्ये ‘परि त्वा' इत्यभिष्टुयात् । ‘स्पृष्ट्वोदकम् ' इति खण्डे ‘परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थ्यं वचः ' ( आश्व. श्रौ. ४. ६) इति सूत्रितम् । तथा हविर्धानप्रवर्तने सेयं परिधानीया ।' हविर्धाने प्रवर्तयन्ति' इति खण्डे ‘परि त्वा गिर्वणो गिर इति परिदध्यात्' ( आश्व. श्रौ. ४. ९) इति सूत्रितम् । तथा ब्राह्मणं च--’परि त्वा गिर्वणो गिर इत्युत्तमया परिदधाति' (ऐ. ब्रा. १. २९ ) इति ॥
 
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वंतु वि॒श्वतः॑ ।
Line २३१ ⟶ २३३:
 
वृद्धऽआयुम् । अनु । वृद्धयः । जुष्टाः । भवन्तु । जुष्टयः ॥
 
हे "गिर्वणः अस्मदीयस्तुतिभागिन्द्र "विश्वतः सर्वेषु कर्मसु प्रयुज्यमानाः "इमाः "गिरः अस्मदीयाः स्तुतयः "त्वा त्वां "परि "भवन्तु सर्वतः प्राप्नुवन्तु । कीदृश्यो गिरः । "वृद्धायुमनु प्रवृद्धेनायुष्येणोपेतं त्वामनुसृत्व "वृद्धयः वर्धमानाः । किं च एता गिरः "जुष्टाः त्वया सेविताः सत्यः "जुष्टयः अस्माकं प्रीतिहेतवः "भवन्तु ॥ गिर्वणः । गीर्भिर्वन्यत इति गिर्वणः । वन षण संभक्तौ । ‘सर्वधातुभ्योऽसुन्' । गिरः। उपधाया दीर्घाभावश्छन्दसः । आमन्त्रितनिघातः । विश्वतः । ‘लिति' (पा. सू. ६. १. १९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम् । वृद्धायुम् । वृधु वृद्धौ' । क्तप्रत्ययः । ‘उदितो वा ' ( पा. सु. ७. २. ५६ ) इति इटः क्त्वाप्रत्यये विकल्पितत्वात् ' यस्य विभाषा' (पा. सू. ७. २. १५) इति निष्ठायाम् इडभावः । प्रत्ययस्वरः।' इण् गतौ । ‘छन्दसीणः ' ( उ. सू. १. २) इति उण् । णित्वात् वृद्धिः आयादेशश्च। वृद्धमायुर्यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृद्धयः । वृधेः क्तिनि ‘ तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति इडभावः । नित्त्वादाद्युदात्तत्वम् । जुष्टाः । श्वीदितो निष्ठायाम् ' ( पा. सू. ७. २. १४) इति इडभावः। ‘जुष्टार्पिते इत्यनुवृत्तौ ‘ नित्यं मन्त्रे' ( पा. सू. ६. १. २१०) इत्याद्युदात्तत्वम् । जुष्टयः । ‘जुषी प्रीतिसेवनयोः '। क्तिन् । 'तितुत्र' इति इडभावः । नित्त्वादाद्युदात्तः ॥ ॥ २० ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्