"जैमिनीयं ब्राह्मणम्/काण्डम् ३/३४१-३५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">एका ह वाव देवता स्वयंभूः प्रजापतिर् एव। सो ऽकामयत बहु स्यां प्रजायेयेति। सो ऽस्मिन् लोके त्रिवृता स्तोमेन देवान् असृजत वसून्। तम् अभि समपतन्। स्वादु स्वादुर् इति तम् आदन्। तम् अधयन् यथा वत्सो जातो मातरं धयेद् एवम्। स ऐक्षत यदि वा इह भविष्यामि क्षेष्यन्ति मा, हन्तोर्ध्व उत्क्रामाणीति। स उ वा ऐक्षत हन्तो नु संसृजेय यं मां मन्यमाना यं पश्यन्तीर् इमा इहोपरमेरन्न् इति। सो ऽग्निम् असृजत॥3.341॥
 
तम् अस्मिन् लोके प्रतिनिधाय पञ्चदशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष वायुः। तत् तद् व् असृजतो एव रुद्रान्। अन्व् इमे समगच्छन्न् अभ्य् अभी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। स वायुम् एवैतस्मिन् लोके प्रतिनिधाय सप्दशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष चन्द्रमाः। तत् तद् व् असृजतो एवादित्यान्। अन्व् इमे समगच्छन्न् अभ्य् अभी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति॥3.342॥
पङ्क्तिः १८:
 
-- अन्धे तमसि जल्पन्तीः। सो ऽस्यै वाच एकम् अक्षरम् अवच्छिद्य वाग् इति व्यसृजत। तम् पतित्वैषां लोकानां मध्ये व्यरमत। तद् एतन् मण्डलम् अभवत्। तद् अन्वानैत्। स प्राणो ऽभवत्। ताभ्यो व्यौच्छत्। अशनायंस् त्व् एव स आसाम् अपाम् एकं स्तोकं प्राश्च्योतयत् कियत् स्विद् आभ्यो ऽलं भविष्तीति। स दशधाभवच् छतधा सहस्रधा यावतीयं पृथिवी तावान् अभवत्। तद् अभिसंपद्य व्यमथ्नत। स मन्थो ऽभवत्। तन् मन्थस्य मन्थत्वम्। तम् अशित्वोदानन्। स उदनो ऽभवत्। तद् उदनस्योदनत्वम्। तद् एतद् द्वयम् एवान्नस्य रूपं यच् चैव पिबति यच् चाश्नाति। यत् पिबति मन्थस्य तद् रूपं यद् अश्नात्य् ओदनस्य तत्। उभयं हास्यैतद् गृहे ऽधिगम्यते यच् चैव पिबति यच् चाश्नाति य एवं वेद। तद् आहुस् - त्रय स्तोका आगच्छन्तीत्य् उदस्तोको घृतस्तोको मधुस्तोकः। ततो य उदस्तोक इमां स प्रविशत्य्, ओषधीर् घृतस्तोको, वनस्पतीन् मधुस्तोकः। तद् धैतं मीमांसांचक्रुर् आमलक अकूवयेयो ऽहीना आश्वत्थिः केशी दार्भ्यः - किं स्तोकं त्वम् आगच्छन्तं मन्यसे, किं स्तोकं त्वं, किं स्तोकं त्वम् इति। स होवाच केशी - घृतस्तोकम् अहं मन्य इति। अथ होवाचाहीना - मधुस्तोकम् अहं मन्य इति। अथ होवाचामलक - उदस्तोकम् अहं मन्य इति। तस्मिन्न् उ हैव संपादयांचक्रुः। उदकाध्य् एवेदं सर्वं जायते। तद् यां तां वाचं व्यसृजत सो ऽग्निः। अथ यं तं प्राणम् अन्वानैत् स इन्द्रः। अथ यस् स प्रजानां जनयित ऋषभे ऽन्न्लोके ऽप्स्व् अन्तः - ॥3.350॥
</span></poem>