"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८४:
वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
 
तेषां॑ पाहि श्रु॒धी हव॑म्हवं॑ ॥१
 
वायो॒ इति॑ । आ । या॒हि॒ । द॒र्श॒त॒ । इ॒मे । सोमाः॑ । अर॑म्ऽकृताः ।
वायो इति। आ। याहि । दर्शत। इमे। सोमाः । अरंऽकृताः।
 
तेषा॑म् । पा॒हि॒ । श्रु॒धि । हव॑म् ॥
तेषाम् । पाहि। श्रुधि । हवम्॥१॥
 
वायो इति । आ । याहि । दर्शत । इमे । सोमाः । अरम्ऽकृताः ।
 
तेषाम् । पाहि।पाहि । श्रुधि । हवम्॥१॥हवम् ॥
 
"दर्शत हे दर्शनीय "वायो कर्मण्येतस्मिन् आ "याहि आगच्छ । त्वदर्थम् "इमे "सोमा "अरंकृताः अलंकृताः । अभिषवादिसंस्कारोऽलंकारः। "तेषां तान् सोमान् । यद्वा। तेषामेकदेशमित्यध्याहारः। "पाहि स्वकीयं भागं पिबेत्यर्थः। तत्पानार्थं "हवम् अस्मदीयमाह्वानं “श्रुधि शृणु। अत्र यास्कः-’वायवा याहि दर्शनीयेमे सोमा अरंकृता अलंकृतास्तेषां पिब शृणु नो ह्वानम् ' ( निरु. १०. २ ) इति ॥ दर्शतेत्यत्र ‘भृमृदृशि° ' ( उ. सू. ३. ३९० ) इत्यादिसूत्रेण अतच्प्रत्यय औणादिकः । चित्त्वादन्तोदात्तस्य आमन्त्रितानुदात्तत्वम् । अर्तिस्तुसु ' (उ. सू. १. १३७ ) इत्यादिना मन्प्रत्ययान्तस्य सोमशब्दस्य नित्स्वरः । अलमित्यत्र छान्दसो रेफादेशः । अरंकृतशब्दे समासान्तोदात्तत्वम् (पा. सू. ६. १. २२३) बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरप्राप्तौ (पा. सू. ६. २. २) भूषणेऽलम्' (पा. सू. १. ४. ६४ ) इत्यलंशब्दस्य गतिसंज्ञायां ' गतिकारक° ' ( पा. सू. ६. २. १३९ ) इत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते तदपवादत्वेन ‘ गतिरनन्तरः ' ( पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरत्वम् । निपातत्वादलंशब्द आद्युदात्तः । पाहीत्यत्र पिबादेशाभावश्छन्दसः । श्रुधीत्यत्र ‘श्रुशृणु° । (पा. सू. ६. ४. १०२) इत्यादिना हेर्धिभावः । तिङन्तादुत्तरस्य निघातो नास्ति । सेर्ह्यपिञ्च' (पा. सू. ३. ४. ८७ ) इति पित्वनिषेधानुदात्ते निवारिते प्रत्ययस्वरः । हवमित्यत्र ह्वयतिधातोः ‘बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणे सति उकारान्तत्वात् ‘ऋदोरप् ' ( पा. सू. ३. ३. ५७) इति अप्प्रत्ययः । तस्य पित्त्वादनुदात्ते सति धातुस्वरः शिष्यते। संहितायां श्रुधीत्यस्य ‘अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः ।
 
 
वाय॑ उ॒क्थेभि॑र्जरन्ते॒उ॒क्थेभि॑र्जरंते॒ त्वामच्छा॑ जरि॒तारः॑ ।
 
सु॒तसो॑मा अह॒र्विदः॑ ॥२
 
वायो॒ इति॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ । त्वाम् । अच्छ॑ । ज॒रि॒तारः॑ ।
 
सु॒तऽसो॑माः । अ॒हः॒ऽविदः॑ ॥
 
वायो इति।इति । उक्थेभिः । जरन्ते । त्वाम्।त्वाम् अच्छ। जरितारः।अच्छ । जरितारः ।
सु॒तसो॑मा अह॒र्विदः॑ ॥
 
सुतऽसोमाः । अहःऽविदः ॥ २
वायो इति। उक्थेभिः । जरन्ते । त्वाम्। अच्छ। जरितारः।
 
सुतऽसोमाः । अहःऽविदः ॥ २ ॥
 
हे "वायो "जरितारः स्तोतार ऋविग्यजमानाः “त्वामच्छ त्वामभिलक्ष्य “उक्थेभिः आज्यप्रउगादिशस्त्रैः "जरन्ते स्तुवन्ति। कीदृशाः। 'सुतसोमाः अभिषुतेन सोमेनोपेताः। "अहर्विदः । अहःशब्द एकेनाह्ना निष्पाद्येऽग्निष्टोमादिक्रतौ वैदिकव्यवहारेण प्रसिद्धः । ऋत्वभिज्ञा इत्यर्थः । ‘अर्चति गायति' इत्यादिषु चतुश्चत्वारिंशत्स्वर्चतिकर्मसु धातुषु “जरते ह्वयति' (नि. ३. १४, ८) इति पठितम् । स्तुतेरपि अर्चनाविशेषत्वात् औचित्येनात्र स्तुत्यर्थों जरतिधातुः । अच्छशब्दस्य संहितायां ‘निपातस्य च' ( पा. सू. ६. ३. १३६ ) इति दीर्घः । सुतसोमा इत्यत्र बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरः ( पा. सू. ६. २. १ )। अहर्विद इत्यत्र समासस्वरं ( पा. सू. ६. १. २२३ ) बाधित्वा ‘तत्पुरुषे तुल्यार्थ° ( पा. सू. ६. २. २) इत्यादिना द्वितीयापूर्वपदप्रकृतिस्वरे प्राप्ते तदपवादत्वेन ‘गतिकारकोपपदात्कृत (पा. सू. ६. २. १३९ ) इति कृदुत्तरपदप्रकृतिस्वरः ।।
 
 
वायो॒ तव॑ प्रपृञ्च॒तीप्रपृंच॒ती धेना॑ जिगाति दा॒शुषे॑ ।
 
उ॒रू॒ची सोम॑पीतये ॥३
वायो इति । तव । प्रऽपृञ्चती । धेना । जिगाति । दाशुषे ।
 
वायो॒ इति॑ । तव॑ । प्र॒ऽपृ॒ञ्च॒ती । धेना॑ । जि॒गा॒ति॒ । दा॒शुषे॑ ।
उरूची। सोमऽपीतये ॥ ३ ॥
 
उ॒रू॒ची । सोम॑ऽपीतये ॥
 
वायो इति । तव । प्रऽपृञ्चती । धेना । जिगाति । दाशुषे ।
 
उरूची।उरूची । सोमऽपीतये ॥ ३
 
हे "वायो तव "धेना वाक् सोमपीतये सोमपानार्थं दाशुषे दाश्वांसं दत्तवन्तं यजमानं जिगाति गच्छति । हे यजमान त्वया दत्तं सोमं पास्यामीत्येवं वायुर्ब्रूते इत्यर्थः। कीदृशी धेना । "प्रपृञ्चती प्रकर्षेण सोमसंपर्क कुर्वती सोमगुणं वर्णयन्तीत्यर्थः । उरूची उरून् बहून् यजमानान् गच्छन्ती । ये ये सोमयाजिनस्तान् सर्वान् वर्णयन्तीत्यर्थः ॥ प्रपृञ्चतीत्यत्र ‘शतुरनुमः' ( पा. सू. ६. १. १७३ ) इति ङीप् उदात्तः । ‘श्लोकः धारा ' इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ' गणः धेना ग्नाः' ( नि. १. ११. ३९ ) इति पठितम् । वर्तते अयते' इत्यादिषु द्वाविंशाधिकशतसंख्येषु गतिकर्मसु “ गाति जिगाति' (नि. २. १४. ११३) इति पठितम् । दाशुषे इत्यत्र ‘गत्यर्थकर्मणि' (पा. सू. २. ३. १२ ) इति चतुर्थी । उरूचीत्यत्र गौरादित्वेन ( पा. सू. ४. १. ४१ ) ङीषि कृते प्रत्ययस्वरः । सोमपीतये इत्यत्र बहुव्रीहित्वाभावेऽपि व्यत्ययेन पूर्वपदप्रकृतिस्वरः ॥
 
 
इन्द्र॑वायूइंद्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम्ग॑तं
 
इंद॑वो वामु॒शंति॒ हि ॥४
इन्द॑वो वामु॒शन्ति॒ हि ॥
 
इन्द्र॑वायू॒ इति॑ । इ॒मे । सु॒ताः । उप॑ । प्रयः॑ऽभिः । आ । ग॒त॒म् ।
इन्द्रवायू इति । इमे । सुताः। उप । प्रयःऽभिः। आ। गतम्।
 
इन्द॑वः । वा॒म् । उ॒शन्ति॑ । हि ॥
 
इन्द्रवायू इति । इमे । सुताः।सुताः । उप । प्रयःऽभिः।प्रयःऽभिः आ। गतम्। । गतम् ।
 
इन्दवः । वाम् । उशन्ति।उशन्ति । हि ॥४॥
 
इन्दवः । वाम् । उशन्ति। हि ॥४॥
 
एतस्या ऋच ऐन्द्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे "इन्द्रवायू भवदर्थम् “इमे सोमाः सुताः अभिषुताः। तस्मात् युवां प्रयोभिः अन्नैरस्मभ्यं दातव्यैः सह “उप “आ “गतम्, अस्मत्समीपं प्रति आगच्छतम्। "हि यस्मात् इन्दवः सोमाः “वां युवाम् "उशन्ति कामयन्ते तस्मात् आगमनमुचितम् ॥ इन्द्रवायूशब्दस्यामन्त्रिताद्युदात्तत्वम् । प्रीणयन्ति भोक्तॄनिति प्रयांस्यन्नानि । प्रीञ्धातोरन्तर्भावितण्यर्थात् (पा. सू. ३. १. २६ ) असुन्प्रत्यये सति नित्स्वरः । गमिधातोर्लोण्मध्यमपुरुषद्विवचने ‘बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘अनुदात्तोपदेश' ( पा. सू. ६. ४. ३७) इत्यादिना मकालोपः । ततो गतमिति भवति । ‘उन्दी क्लेदने ! इति धातोः ‘ उन्देरच्चादेः' (उ. सू. १. १२) इति उन्प्रत्ययः। आद्यक्षरस्य इकारादेशः । तत इन्दुशब्दस्य नित्स्वरः। सोमरसस्य द्रवत्वात् क्लेदनं संभवति। युष्मच्छब्दादेशस्य वामित्येतस्य ‘अनुदात्तं सर्वमपादादौ (पा. सू. ८. १. १८) इत्यनुदात्तः । उशन्तीत्यस्य निघाते ' हि च ' ( पा. सू. ८, १, ३४ ) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हिशब्दस्य निपातस्वरः ॥
 
 
वाय॒विन्द्र॑श्चवाय॒विंद्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
 
तावा या॑त॒मुप॑ द्र॒वत् ॥५
 
वायोवायो॒ इतिइति॑इन्द्रःइन्द्रः॑च॒चेतथःचे॒त॒थः॒सुतानाम्सु॒ताना॑म्वाजिनीवसूवा॒जि॒नी॒व॒सू॒ इतिइति॑ वाजिनीऽवसू ।
 
तौ । आ । या॒त॒म् । उप॑ । द्र॒वत् ॥
 
वायो इति । इन्द्रः । च । चेतथः । सुतानाम् । वाजिनीवसू इति वाजिनीऽवसू ।
 
तौ।तौ । आ । यातम् । उप । द्रवत् ॥ ५॥
 
तौ। आ । यातम् । उप । द्रवत् ॥ ५॥
 
अत्र चकारेणान्यः समुच्चीयते । संनिहितत्वाद्वायुरेव। हे "वायो त्वम् इन्द्रश्च युवामुभौ "सुतानाम् अभिषुतान् सोमान् "चेतथः जानीथः । यद्वा। अभिषुतानां सोमानां विशेषमित्यध्याहारः। कीदृशौ युवाम्। “वाजिनीवसू । वाजिनीशब्दो यद्यप्युषोनामसु पठितस्तथाप्यत्रासंभवान्न गृह्यते । वाजोऽन्नम् । तद्यस्यां हविः संततावस्ति सा वाजिनी । तस्यां वसत इति तौ वाजिनीवसू । आमन्त्रितत्वादनुदात्तः। “तौ तथाविधौ युवां "द्रवत् क्षिप्रम् “उप समीपे "आ "यातम् आगच्छतम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसु ‘नु क्षिप्रं मधु द्रवत्' (नि. २. १५. ३ ) इति पठितम् । तत्र फिट्स्वरः ॥ ॥ ३ ॥
 
 
वाय॒विन्द्र॑श्चवाय॒विंद्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम्निष्कृ॒तं
 
म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥६
 
वायोवायो॒ इतिइति॑इन्द्रःइन्द्रः॑च॒सुन्व॒तःसु॒न्व॒तः । आ । यातम्या॒त॒म्उपउप॑निःऽकृतम्निः॒ऽकृ॒तम्
 
मक्षुम॒क्षुइत्थाइ॒त्थाधियाधि॒यानरान॒रा॒ ६॥
 
वायो इति । इन्द्रः । च । सुन्वतः । आ । यातम् । उप । निःऽकृतम् ।
 
मक्षु । इत्था । धिया । नरा ॥
 
हे "वायो त्वम् इन्द्रश्च सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य "निष्कृतं संस्कृतं संस्कर्तारं वा सोमम् "उप आ "यातम् आगच्छतम् । "नरा हे नरौ पुरुषौ पौरुषेण सामर्थ्येनोपेतौ युवयोरागतयोश्च सतोः "धिया अमुना कर्मणा "मक्षु त्वरया संस्कारः संपत्स्यते। "इत्था सत्यम्॥ वायो इत्यस्य ‘आमन्त्रितस्य (पा. सू. ६. १. १९८) इति षाष्ठिकमाद्युदात्तत्वम् । इन्द्रशब्दः ‘ ऋजेन्द्रा ' ( उ. सू. २. १८६ ) इत्यादिना रन्प्रत्ययान्तत्वेन निपातितो नित्यादिर्नित्यम् ' ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तः । चशब्दः ‘चादयोऽनुदात्ताः' ( फि. सू. ८४ ) इत्यनुदात्तः । सुन्वत इत्यत्र ‘शतुरनुमो नद्यजादी' (पा. सू. ६. १. १७३) इति विभक्तेरुदात्तत्वम् । ‘ निरित्येष समित्येतस्य स्थाने ' ( निरु. १२. ७) इति यास्कः । कृतशब्द आदिकर्मणि कर्तरि क्तः ( पा, सू. ३. ४. ७१ ) । संस्कर्तुं प्रवृत्त इत्यर्थः । “कुगतिप्रादयः' ( पा. सू. २. २. १८) इति समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते ' थाथघञ्ताादजबित्रकाणाम् ' ( पा. सू. ६. २. १४४ ) इत्यन्तोदात्तः । ‘गतिरनन्तरः ' ( पा. सू. ६. २. ४९ )। इति तु निसः उदात्तत्वं न भवति । तद्धि कर्मणि क्े विहितम् (पा. सू. ६. २. ४८ )। निष्करोतीति निष्कृदिति क्विबन्तव्याख्याने तु ‘गतिकारकोपपदात्कृत्' (पा. सू. ६. २. १३९ ) इति ऋकार उदात्तः स्यात् । धिया । सावेकाचस्तृतीयादिः° '( पा. सू. ६. १. १६८ ) इति विभक्तिरुदात्ता । नरा । ‘सुपां सुलुक्' ' ( पा. सू. ७. १. ३९ ) इत्यादिना संबोधनद्विवचनस्य डादेशः । पदापरत्वात् ' आमन्त्रितस्य' (पा. सू. ८. १. १९ ) इत्याष्टमिको निघातः ॥
Line १५० ⟶ १७८:
 
 
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम्रि॒शाद॑सं
 
धियं॑ घृ॒ताचीं॒ साध॑न्तासाधं॑ता ॥७
 
मि॒त्रम् । हु॒वे॒ । पू॒तऽद॑क्षम् । वरु॑णम् । च॒ । रि॒शाद॑सम् ।
मित्रम् । हुवे । पूतऽदक्षम् । वरुणम् । च । रिशादसम् ।
 
धिय॑म् । घृ॒ताची॑म् । साध॑न्ता ॥
धियम् । घृताचीम् । साधन्ता ॥७॥
 
मित्रम् । हुवे । पूतऽदक्षम् । वरुणम् । च । रिशादसम् ।
 
धियम् । घृताचीम् । साधन्ता ॥७॥
 
अहमस्मिन् कर्मणि हविष्प्रदानाय "पूतदक्षं पवित्रबलं "मित्रं हुवे। तथा “रिशादसं रिशानां हिंसकानाम् अदसम् अत्तारं वरुणं च हुवे आह्वयामि । कीदृशौ मित्रावरुणौ । घृतमुदकमञ्चति भूमिं प्रापयति या धीर्वर्षणकर्म तां घृताचीं "धियं साधन्ता साधयन्तौ कुर्वन्तौ ॥ मित्रशब्दः पुँल्लिङ्गः प्रातिपदिकस्वरेणान्तोदात्तः । हुवे इति हूयतेः ‘बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘ह्वः संप्रसारणम्' (पा. सू. ६. १. ३२) इत्यनुवृत्तौ ‘बहुलं छन्दसि’ ( पा. सू. ६.१. ३४ ) इति संप्रसारणे उवङादेशः । तिङ्ङतिङः' (पा. सू ८. १. २८) इति निघातः। पूतशब्दः प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वरुणशब्दः ‘कॄवृदारिभ्य उनन्’ (उ. सू.३. ३३३) इति उनन्प्रत्ययान्तो नित्त्वादाद्युदात्तः । रिशन्ति हिंसन्तीति रिशाः शत्रवः। ‘इगुपधज्ञाप्रीकिरः कः' (पा. सू. ३. १. १३५ ) इति कः । प्रत्ययस्वरेणोदात्तः । तानत्तीति रिशादाः, तम् । ‘सर्वधातुभ्योऽसुन् ' ( उ. सू. ४, ६२८) इत्यसुन्प्रत्यये नित्स्वरेणोत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एवावशिष्यते। शेषनिघाते सति ‘एकादेश उदात्तेनोदात्तः' (पा. सू.८.२.५) इति सवर्णदीर्घोऽप्युदात्त एव। ‘धीः' इति ‘अपः' इत्यादिषड्विंशतौ कर्मनामसु (नि. २.१.२१)पठितः। प्रातिपदिकस्वरेणान्तोदात्तः । घृतमञ्चतीति घृताची । 'ऋविग्दधृक् ' (पा. सू. ३. २. ५९ ) इत्यादिना क्विनि “ अनिदिताम्' (पा. सू. ६. ४. २४) इति नकारलोपः । ‘अञ्चतेश्चोपसंख्यानम्' (पा. सू. ४. १. ६. २) इति ङीप् ! ‘अचः' (पा. सू. ६. ४. १३८ ) इत्यकारलोपे ‘चौ ' (पा. सू. ६. ३. १३८ ) इति दीर्घत्वम् । घृतशब्दः ‘नब्विषयस्यानिसन्तस्य' (फि. सू. २६ ) इत्याद्युदात्तं बाधित्वा 'घृतादीनां च ' (फि. सू. २१ ) इत्यन्तोदात्तः। 'समासस्य' ( पा. सू. ६. १. २२३ ) इत्यन्तोदात्तस्यापवादकं तत्पुरुषे तुल्यार्थं° ' (पा. सू. ६. २. २) इतिपूर्वपदप्रकृतिस्वरं बाधित्वा ‘गतिकारकोपपदात् ' ( पा. सू. ६. २. १३९ ) इति उत्तरपदप्रकृतिस्वरेणोदात्तस्य धात्वकारस्य लोपे सति ‘अनुदात्तस्य च यत्रोदात्तलोपः' ( पा. सू. ६. १. १६१ ) इति ङीप उदात्तत्वे प्राप्ते ‘चौ ' ( पा. सू. ६. १. २२२) इति पूर्वपदान्तोदात्तत्वम् । साधन्ता । ‘राध साध संसिद्धौ ' इत्यस्मादन्तर्भावितण्यर्थात् लटः शत्रादेशे ( पा. सू. ३. २. १२४) क्षुं बाधित्वा व्यत्ययेन शप् । अदुपदेशत्वादुपरि शतृप्रत्ययस्य लसार्वधातुकानुदात्तत्वम् (पा. सू. ६. १. १८६) । द्वितीयाद्विवचनस्य शपश्च ‘अनुदात्तौ सुप्पितौ ' ( पा. सू. ३. १, ४) इत्यनुदात्तत्वे ‘धातोः ' (पा. सू. ६. १. १६२) इति धातुस्वर एव शिष्यते । ‘सुपां सुलुक्' (पा. सू. ७. १, ३९) इत्यादिना विभक्तेराकारादेशः ॥
Line १६३ ⟶ १९५:
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।
 
क्रतुं॑ बृ॒हन्त॑माशाथेबृ॒हंत॑माशाथे ॥८
 
ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽवृ॒धौ॒ । ऋ॒त॒ऽस्पृ॒शा॒ ।
ऋतेन । मित्रावरुणौ । ऋतऽवृधौ । ऋतऽस्पृशा ।
 
क्रतु॑म् । बृ॒हन्त॑म् । आ॒शा॒थे॒ इति॑ ॥
क्रतुम् । बृहन्तम् । आशाथे इति ॥ ८ ॥
 
ऋतेन । मित्रावरुणौ । ऋतऽवृधौ । ऋतऽस्पृशा ।
 
क्रतुम् । बृहन्तम् । आशाथे इति ॥ ८
 
हे “मित्रावरुणौ युवां “क्रतुं प्रवर्तमानमिमं सोमयागम् “आशाथे आनशाथे व्याप्तवन्तौ । केन निमित्तेन । “ऋतेन अवश्यंभावितया सत्येन फलेन । अस्मभ्यं फलं दातुमित्यर्थः । कीदृशौ युवाम् । “ऋतावृधौ । 'ऋतमित्युदकनाम' (निरु. २. २५), ‘सत्यं वा यज्ञं वा ' ( निरु. ४. १९) इति यास्कः । उदकादीनामन्यतमस्य वर्धयितारौ । अत एव “ऋतस्पृशा उदकादीन् स्पृशन्तौ । कीदृशं क्रतुम् । “बृहन्तम् अङ्गैरुपाङ्गैश्च अतिप्रौढम् ॥ ऋतशब्दो घृतादित्वादन्तोदात्तः । मित्रावरुणावित्यत्र मित्रश्च वरुणश्चेति मित्रावरुणौ । “ देवताद्वन्द्वे च ' ( पा. सू. ६. ३. २६ ) इति पूर्वपदस्य आनङादेशः । ऋतस्य वर्धयितारौ इत्यर्थेऽन्तर्भावितण्यर्थात् वृधेः क्विप् । ‘अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घः । ऋतस्पृशा । ‘सुपां सुलुक् ' ( पा. सू. ७. १. ३९ ) इति डादेशः । मित्रावरुणावित्याद्यामन्त्रितत्रयस्य स्वस्वपूर्वपदात् परत्वात् ' आमन्त्रितस्य ' ( पा.
Line १७५ ⟶ २११:
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
 
दक्षं॑ दधाते अ॒पस॑म्अ॒पसं॑ ॥९
 
क॒वी इति॑ । नः॒ । मि॒त्रावरु॑णा । तु॒वि॒ऽजा॒तौ । उ॒रु॒ऽक्षया॑ ।
 
दक्ष॑म् । द॒धा॒ते॒ इति॑ । अ॒पस॑म् ॥
 
कवी इति । नः । मित्रावरुणा । तुविऽजातौ । उरुऽक्षया ।
 
दक्षम् । दधाते इति । अपसम् ॥९॥
 
मित्रावरुणावेतौ देवौ "नः अस्माकं “दक्षं बलम् “अपसं कर्म च “दधाते पोषयतः। कीदृशौ। "कवी मेधाविनौ। “तुविजातौ बहूनामुपकारकतया समुत्पन्नौ । “उरुक्षया बहुनिवासौ । ‘विप्रः धीरः' इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु ' कविः मनीषी' ( नि. ३. १५. १०) इति पठितम् । ‘उरु तुवि ' (नि. ३. १. १, २) इत्येतौ शब्दौ द्वादशसु बहुनामसु पठितौ । ‘ओजः पाजः' इत्यादिषु अष्टाविंशति संख्याकेषु बलनामसु ‘दक्षः वीळु' (नि. २. ९. १३) इति पठितम् । अपःशब्दः षड्विंशतिसंख्याकेषु कर्मनामसु पठितः (नि. २. १. १) ॥ मित्रावरुणा । मित्रशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। वरुणशब्दो नित्स्वरेणाद्युदात्तः । द्वन्द्वे देवताद्वन्द्वे च' ( पा. सू. ६. २. १४१ ) इत्युभौ अवशिष्येते । तुविजातौ । बहूनामुपकारकतया तत्संबन्धित्वेन जाताविति षष्ठीसमासे समासान्तोदात्तत्वम् । चतुर्थी समासे हि क्ते च' (पा. सू. ६. २. ४५) इति पूर्वपदप्रकृतिस्वरः स्यात् । उरूणां बहूनां क्षयौ उरुक्षयौ । ‘क्षि निवासगत्यो-' इति धातोः क्षियन्त्यस्मिन्निति क्षयः । अधिकरणे ‘एरच् ' ( पा. सू. ३. ३. ५६ ) इत्यच्प्रत्ययान्तस्य ‘चितः' ( पा. सू. ६. १, १६३) इत्यन्तोदात्तत्वे प्राप्ते 'क्षयो निवासे' (पा. सू. ६. १. २०१ ) इत्याद्युदात्तत्वं विहितम् । समासे तु ‘समासस्य' (पा. सू. ६. १. २२३ ) इत्यन्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण प्राप्तमुत्तरपदाद्य़ुदात्तत्वं यद्यपि थाथादिस्वरेणान्तोदात्तेन बाध्यते, तथापि ‘परादिश्छन्दसि बहुलम् । (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वं द्रष्टव्यम् । दक्षो दक्षतेरुत्साहकर्मणो घञ् । ञित्वादाद्युदात्तः । आप्यते फलमनेन इति अपः कर्म । ‘आपः कर्माख्यायां ह्रस्वो नुट्च वा' (उ. सू. ४. ६४७ ) इत्यसुनन्तस्य ‘अपसस्पारे' ( ऋ. सं. ६. ६९. १) इत्यादौ नित्त्वादाद्युदात्तस्यापि अपःशब्दस्य अत्र व्यत्ययेन प्रत्ययाद्युदात्तत्वम् ॥ ॥ ४ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२" इत्यस्माद् प्रतिप्राप्तम्