"शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ४/ब्राह्मण १" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[शुक्लयजुर्वेदः/शतपथ ब्राह्मणम्/काण्ड १३/अध्यायः ४/ब्राह्मण... |
No edit summary |
||
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">१३.४.१
प्रजापतिरकामयत सर्वान्कामानाप्नुयां सर्वा व्यष्टीर्व्यश्नुवीयेति स एतमश्वमेधं त्रिरात्रं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत तेनेष्ट्वा सर्वान्कामानाप्नोत्सर्वा व्यष्टीर्व्याश्नुत सर्वान्ह वै कामानाप्नोति सर्वा व्यष्टीर्व्यश्नुते योऽश्वमेधेन यजते - १३.४.१.[१]
Line ३२ ⟶ ३१:
तस्यै सप्तदश सामिधेन्यो भवन्ति सप्तदशो वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै वृधन्वन्तावाज्यभागौ यजमानस्यैव वृद्ध्यै पूषंस्तव व्रते वयं पथस्पथः परिपतिं वचस्येत्युपांशु हविषो याज्यानुवाक्ये व्रतवत्यन्या भवति पथन्वत्यन्या वीर्यं वै व्रतं वीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या अथ यत्पथन्वत्यश्वायैवैतत्स्वस्त्ययनं करोत्यनुष्टुभौ संयाज्ये वाग्वा अनुष्टुब्वाग्वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै वासःशतं दक्षिणा रूपं वा एतत्पुरुषस्य यद्वासस्तस्माद्यमेव कं च सुवाससमाहुः को न्वयमिति रूपसमृद्धो हि भवति रूपेणैवैनं समर्धयति शतं भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते - १३.४.१.[१५]
</span></poem>
|