"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३६:
हे "गिर्वणः अस्मदीयस्तुतिभागिन्द्र "विश्वतः सर्वेषु कर्मसु प्रयुज्यमानाः "इमाः "गिरः अस्मदीयाः स्तुतयः "त्वा त्वां "परि "भवन्तु सर्वतः प्राप्नुवन्तु । कीदृश्यो गिरः । "वृद्धायुमनु प्रवृद्धेनायुष्येणोपेतं त्वामनुसृत्व "वृद्धयः वर्धमानाः । किं च एता गिरः "जुष्टाः त्वया सेविताः सत्यः "जुष्टयः अस्माकं प्रीतिहेतवः "भवन्तु ॥ गिर्वणः । गीर्भिर्वन्यत इति गिर्वणः । वन षण संभक्तौ । ‘सर्वधातुभ्योऽसुन्' । गिरः। उपधाया दीर्घाभावश्छन्दसः । आमन्त्रितनिघातः । विश्वतः । ‘लिति' (पा. सू. ६. १. १९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम् । वृद्धायुम् । वृधु वृद्धौ' । क्तप्रत्ययः । ‘उदितो वा ' ( पा. सु. ७. २. ५६ ) इति इटः क्त्वाप्रत्यये विकल्पितत्वात् ' यस्य विभाषा' (पा. सू. ७. २. १५) इति निष्ठायाम् इडभावः । प्रत्ययस्वरः।' इण् गतौ । ‘छन्दसीणः ' ( उ. सू. १. २) इति उण् । णित्वात् वृद्धिः आयादेशश्च। वृद्धमायुर्यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृद्धयः । वृधेः क्तिनि ‘ तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति इडभावः । नित्त्वादाद्युदात्तत्वम् । जुष्टाः । श्वीदितो निष्ठायाम् ' ( पा. सू. ७. २. १४) इति इडभावः। ‘जुष्टार्पिते इत्यनुवृत्तौ ‘ नित्यं मन्त्रे' ( पा. सू. ६. १. २१०) इत्याद्युदात्तत्वम् । जुष्टयः । ‘जुषी प्रीतिसेवनयोः '। क्तिन् । 'तितुत्र' इति इडभावः । नित्त्वादाद्युदात्तः ॥ ॥ २० ॥
 
 
 
}}
 
== ==
{{टिप्पणी|
गायन्ति त्वा इति ऋचातः साम संख्या [[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.6 षष्ठी दशतिः|३४२]] निर्मितं अस्ति। निर्मितानां सामानां ऋषयः - शैखण्डिने द्वे, औद्वंशीयम।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्