"ऋग्वेदः सूक्तं १.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः ।
 
स॒म्राज॑न्तमध्व॒राणा॑म् ॥१
 
अश्व॑म् । न । त्वा॒ । वार॑ऽवन्तम् । व॒न्दध्यै॑ । अ॒ग्निम् । नमः॑ऽभिः ।
 
स॒म्ऽराज॑न्तम् । अ॒ध्व॒राणा॑म् ॥
 
अश्वम् । न । त्वा । वारऽवन्तम् । वन्दध्यै । अग्निम् । नमःऽभिः ।
 
सम्ऽराजन्तम् । अध्वराणाम् ॥
 
 
स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेव॑ः ।
 
मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥२
 
सः । घ॒ । नः॒ । सू॒नुः । शव॑सा । पृ॒थुऽप्र॑गामा । सु॒ऽशेवः॑ ।
 
मी॒ढ्वान् । अ॒स्माक॑म् । ब॒भू॒या॒त् ॥
 
सः । घ । नः । सूनुः । शवसा । पृथुऽप्रगामा । सुऽशेवः ।
 
मीढ्वान् । अस्माकम् । बभूयात् ॥
 
 
स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः ।
 
पा॒हि सद॒मिद्वि॒श्वायु॑ः ॥३
 
सः । नः॒ । दू॒रात् । च॒ । आ॒सात् । च॒ । नि । मर्त्या॑त् । अ॒घ॒ऽयोः ।
 
पा॒हि । सद॑म् । इत् । वि॒श्वऽआ॑युः ॥
 
सः । नः । दूरात् । च । आसात् । च । नि । मर्त्यात् । अघऽयोः ।
 
पाहि । सदम् । इत् । विश्वऽआयुः ॥
 
 
इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् ।
 
अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥४
 
इ॒मम् । ऊं॒ इति॑ । सु । त्वम् । अ॒स्माक॑म् । स॒निम् । गा॒य॒त्रम् । नव्यां॑सम् ।
 
अग्ने॑ । दे॒वेषु॑ । प्र । वो॒चः॒ ॥
 
इमम् । ऊं इति । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्यांसम् ।
 
अग्ने । देवेषु । प्र । वोचः ॥
 
 
आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ ।
 
शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥५
 
आ । नः॒ । भ॒ज॒ । प॒र॒मेषु॑ । आ । वाजे॑षु । म॒ध्य॒मेषु॑ ।
 
शिक्ष॑ । वस्वः॑ । अन्त॑मस्य ॥
 
आ । नः । भज । परमेषु । आ । वाजेषु । मध्यमेषु ।
 
शिक्ष । वस्वः । अन्तमस्य ॥
 
 
वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ ।
 
स॒द्यो दा॒शुषे॑ क्षरसि ॥६
 
वि॒ऽभ॒क्ता । अ॒सि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सिन्धोः॑ । ऊ॒र्मौ । उ॒पा॒के । आ ।
 
स॒द्यः । दा॒शुषे॑ । क्ष॒र॒सि॒ ॥
 
विऽभक्ता । असि । चित्रभानो इति चित्रऽभानो । सिन्धोः । ऊर्मौ । उपाके । आ ।
 
सद्यः । दाशुषे । क्षरसि ॥
 
 
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः ।
 
स यन्ता॒ शश्व॑ती॒रिष॑ः ॥७
 
यम् । अ॒ग्ने॒ । पृ॒त्ऽसु । मर्त्य॑म् । अवाः॑ । वाजे॑षु । यम् । जु॒नाः ।
 
सः । यन्ता॑ । शश्व॑तीः । इषः॑ ॥
 
यम् । अग्ने । पृत्ऽसु । मर्त्यम् । अवाः । वाजेषु । यम् । जुनाः ।
 
सः । यन्ता । शश्वतीः । इषः ॥
 
 
नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् ।
 
वाजो॑ अस्ति श्र॒वाय्य॑ः ॥८
 
नकिः॑ । अ॒स्य॒ । स॒ह॒न्त्य॒ । प॒रि॒ऽए॒ता । कय॑स्य । चि॒त् ।
 
वाजः॑ । अ॒स्ति॒ । श्र॒वाय्यः॑ ॥
 
नकिः । अस्य । सहन्त्य । परिऽएता । कयस्य । चित् ।
 
वाजः । अस्ति । श्रवाय्यः ॥
 
 
स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता ।
 
विप्रे॑भिरस्तु॒ सनि॑ता ॥९
 
सः । वाज॑म् । वि॒श्वऽच॑र्षणिः । अर्व॑त्ऽभिः । अ॒स्तु॒ । तरु॑ता ।
 
विप्रे॑भिः । अ॒स्तु॒ । सनि॑ता ॥
 
सः । वाजम् । विश्वऽचर्षणिः । अर्वत्ऽभिः । अस्तु । तरुता ।
 
विप्रेभिः । अस्तु । सनिता ॥
 
 
जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य ।
 
स्तोमं॑ रु॒द्राय॒ दृशी॑कम् ॥१०
 
जरा॑ऽबोध । तत् । वि॒वि॒ड्ढि॒ । वि॒शेऽवि॑शे । य॒ज्ञिया॑य ।
 
स्तोम॑म् । रु॒द्राय॑ । दृशी॑कम् ॥
 
जराऽबोध । तत् । विविड्ढि । विशेऽविशे । यज्ञियाय ।
 
स्तोमम् । रुद्राय । दृशीकम् ॥
 
 
स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः ।
 
धि॒ये वाजा॑य हिन्वतु ॥११
 
सः । नः॒ । म॒हान् । अ॒नि॒ऽमा॒नः । धू॒मऽके॑तुः । पु॒रु॒ऽच॒न्द्रः ।
 
धि॒ये । वाजा॑य । हि॒न्व॒तु॒ ॥
 
सः । नः । महान् । अनिऽमानः । धूमऽकेतुः । पुरुऽचन्द्रः ।
 
धिये । वाजाय । हिन्वतु ॥
 
 
स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्य॑ः के॒तुः शृ॑णोतु नः ।
 
उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥१२
 
सः । रे॒वान्ऽइ॑व । वि॒श्पतिः॑ । दैव्यः॑ । के॒तुः । शृ॒णो॒तु॒ । नः॒ ।
 
उ॒क्थैः । अ॒ग्निः । बृ॒हत्ऽभा॑नुः ॥
 
सः । रेवान्ऽइव । विश्पतिः । दैव्यः । केतुः । शृणोतु । नः ।
 
उक्थैः । अग्निः । बृहत्ऽभानुः ॥
 
 
नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्य॑ः ।
 
यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑स॒ः शंस॒मा वृ॑क्षि देवाः ॥१३
 
नमः॑ । म॒हत्ऽभ्यः॑ । नमः॑ । अ॒र्भ॒केभ्यः॑ । नमः॑ । युव॑भ्यः । नमः॑ । आ॒शि॒नेभ्यः॑ ।
 
यजा॑म । दे॒वान् । यदि॑ । श॒क्नवा॑म । मा । ज्याय॑सः॒ । शंस॑म् । आ । वृ॒क्षि॒ । दे॒वाः॒ ॥
 
नमः । महत्ऽभ्यः । नमः । अर्भकेभ्यः । नमः । युवभ्यः । नमः । आशिनेभ्यः ।
 
यजाम । देवान् । यदि । शक्नवाम । मा । ज्यायसः । शंसम् । आ । वृक्षि । देवाः ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२७" इत्यस्माद् प्रतिप्राप्तम्