"ऋग्वेदः सूक्तं १.२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥१
 
यत्र॑ । ग्रावा॑ । पृ॒थुऽबु॑ध्नः । ऊ॒र्ध्वः । भव॑ति । सोत॑वे ।
 
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
 
यत्र । ग्रावा । पृथुऽबुध्नः । ऊर्ध्वः । भवति । सोतवे ।
Line ४७ ⟶ ५१:
यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥२
 
यत्र॑ । द्वौऽइ॑व । ज॒घना॑ । अ॒धि॒ऽस॒व॒न्या॑ । कृ॒ता ।
 
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
 
यत्र । द्वौऽइव । जघना । अधिऽसवन्या । कृता ।
Line ५८ ⟶ ६६:
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥३
 
यत्र॑ । नारी॑ । अ॒प॒ऽच्य॒वम् । उ॒प॒ऽच्य॒वम् । च॒ । शिक्ष॑ते ।
 
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
 
यत्र । नारी । अपऽच्यवम् । उपऽच्यवम् । च । शिक्षते ।
Line ६९ ⟶ ८१:
यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥४
 
यत्र॑ । मन्था॑म् । वि॒ऽब॒ध्नते॑ । र॒श्मीन् । यमि॑त॒वैऽइ॑व ।
 
उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊं॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
 
यत्र । मन्थाम् । विऽबध्नते। रश्मीन् । यमितवैऽइव ।
Line ८० ⟶ ९६:
यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ ।
 
इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ॥५
 
यत् । चि॒त् । हि । त्वम् । गृ॒हेऽगृ॑हे । उलू॑खलक । यु॒ज्यसे॑ ।
 
इ॒ह । द्यु॒मत्ऽत॑मम् । व॒द॒ । जय॑ताम्ऽइव । दु॒न्दु॒भिः ॥
 
यत् । चित् । हि । त्वम् । गृहेऽगृहे । उलूखलक । युज्यसे ।
Line ९१ ⟶ १११:
उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् ।
 
अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल ॥६
 
उ॒त । स्म॒ । ते॒ । व॒न॒स्प॒ते॒ । वातः॑ । वि । वा॒ति॒ । अग्र॑म् । इत् ।
 
अथो॒ इति॑ । इन्द्रा॑य । पात॑वे । सु॒नु । सोम॑म् । उ॒लू॒ख॒ल॒ ॥
 
उत । स्म । ते । वनस्पते । वातः । वि । वाति । अग्रम् । इत् ।
Line १०२ ⟶ १२६:
आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः ।
 
हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता ॥७
 
आ॒य॒जी इत्या॑ऽय॒जी । वा॒ज॒ऽसात॑मा । ता । हि । उ॒च्चा । वि॒ऽज॒र्भृ॒तः ।
 
हरी॑ इ॒वेति॒ हरी॑ऽइव । अन्धां॑सि । बप्स॑ता ॥
 
आयजी इत्याऽयजी । वाजऽसातमा । ता । हि । उच्चा । विऽजर्भृतः ।
Line १०८ ⟶ १३६:
हरी इवेति हरीऽइव । अन्धांसि । बप्सता ॥ ७ ॥
 
ये उलूखलमुसले "आयजी सर्वतो यज्ञसाधने "वाजसातमा अतिशयेन अन्नप्रदे “ता “हि ते खलु "उच्चा प्रौढध्वनिर्यथा भवति तथा “विजर्भृतः विशेषेण पुनःपुनर्विहारं कुरुतः । तत्र दृष्टान्तः । "अन्धांसि अन्नानि चणकादीनि खाद्यानि “बप्सता भक्षयन्तौ "हरीइव इन्द्रस्याश्वाविव । अत्र यास्क एवं व्याचख्यौ-आयजी आयष्टव्ये अन्नानां संभक्तृतमे ते ह्युच्चैर्विह्रियेते हरी इवान्नानि भुञ्जाने' (निरु. ९. ३६) इति ॥ आयजी। यजेः औणादिकः करणे इप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वाजसातमा । वाजं सनोतीति वाजसाः ।' षणु दाने '। जनसन' इत्यादिना विट्प्रत्ययः । ‘विड्वनोरनुनासिक स्यात्' इति आत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आतिशायनिकस्तमप् । ‘सुपां सुलुक्' इति पूर्वसवर्णदीर्घः । विजर्भृतः । “हृञ् हरणे' । अस्मात् यङ्लुकि अभ्यासहलादिशेषोरत्जश्त्वेषु कृतेषु ‘रुग्रिकौ च लुकि' ( पा. सू. ७. ४. ९१ ) इति रुगागमः । ततः प्रत्ययलक्षणेन धातुसंज्ञायां लिटि द्विवचनं तस् ।' अदादिवच्च' इति वचनात् शपो लुक् । गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । ‘हृग्रहोर्भश्छन्दसि ' इति भत्वम् । प्रत्ययस्वरः । ‘हि च ' इति निघातप्रतिषेधः । बप्सता । ‘भस भक्षणदीप्त्योः '। लटः शतृ । ‘जुहोत्यादिभ्यः श्लुः ' । 'घसिभसोर्हलि च' (पा. सू. ६. ४. १००) इति उपधालोपः । नाभ्यस्ताच्छतुः ' ( पा. सू. ७. १. ७८ ) इति नुम्प्रतिषेधः ।“ अभ्यस्तानामादिः ' इत्याद्युदात्तत्वम् ।
स्यात्' इति आत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आतिशायनिकस्तमप् । ‘सुपां सुलुक्' इति पूर्वसवर्णदीर्घः । विजर्भृतः । “हृञ् हरणे' । अस्मात् यङ्लुकि अभ्यासहलादिशेषोरत्जश्त्वेषु कृतेषु ‘रुग्रिकौ च लुकि' ( पा. सू. ७. ४. ९१ ) इति रुगागमः । ततः प्रत्ययलक्षणेन धातुसंज्ञायां लिटि द्विवचनं तस् ।' अदादिवच्च' इति वचनात् शपो लुक् । गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । ‘हृग्रहोर्भश्छन्दसि ' इति भत्वम् । प्रत्ययस्वरः । ‘हि च ' इति निघातप्रतिषेधः । बप्सता । ‘भस भक्षणदीप्त्योः '। लटः शतृ । ‘जुहोत्यादिभ्यः श्लुः ' । 'घसिभसोर्हलि च' (पा. सू. ६. ४. १००) इति उपधालोपः । नाभ्यस्ताच्छतुः ' ( पा. सू. ७. १. ७८ ) इति नुम्प्रतिषेधः ।“ अभ्यस्तानामादिः ' इत्याद्युदात्तत्वम् ।
 
 
ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑ः सो॒तृभि॑ः ।
 
इन्द्रा॑य॒ मधु॑मत्सुतम् ॥८
 
ता । नः॒ । अ॒द्य । व॒न॒स्प॒ती॒ इति॑ । ऋ॒ष्वौ । ऋ॒ष्वेभिः॑ । सो॒तृऽभिः॑ ।
 
इन्द्रा॑य । मधु॑ऽमत् । सु॒त॒म् ॥
 
ता। नः । अद्य । वनस्पती इति । ऋष्वौ । ऋष्वेभिः । सोतृऽभिः ।
Line १२५ ⟶ १५६:
उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
 
नि धे॑हि॒ गोरधि॑ त्व॒चि ॥९
 
उत् । शि॒ष्टम् । च॒म्वोः॑ । भ॒र॒ । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ ।
 
नि । धे॒हि॒ । गोः । अधि॑ । त्व॒चि ॥
 
उत्। शिष्टम् । चम्वोः । भर। सोमम् । पवित्रे। आ । सृज ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२८" इत्यस्माद् प्रतिप्राप्तम्