"ऋग्वेदः सूक्तं ३.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
== ==
{{सायणभाष्यम्|
‘इन्द्र सोमं सोमपते ' इति सप्तदशर्चं तृतीयं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च-- ‘इन्द्र सोमं त्र्यूना' इति । पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनि मरुत्वतीये ‘इन्द्र सोमम्' इतीदं सूक्तं निविद्धानीयम् । द्वितीयस्य' इति खण्डे सूत्रितम्- इन्द्र सोमं या त ऊतिरवमेति मध्यंदिनः ' ( आश्व. श्रौ. ७. ६ ) इति । गोसवविवधयोरपि मरुत्वतीयशस्त्र एतत्सूक्तम् । सूत्रितं च– इन्द्र सोममेतयामेति मध्यंदिनः' ( आश्व. श्रौ. ९.८) इति । उद्भिद्वलभिदोरपि मरुत्वतीय एतत्सूक्तम् । सूत्रितं च -- इन्द्र सोममिन्द्रः पूर्भिदिति मध्यंदिनः ' ( आश्व. श्रौ. ९.८) इति ॥
 
 
इंद्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ ।
Line ६५ ⟶ ६७:
प्रऽप्रुथ्य । शिप्रे इति । मघऽवन् । ऋजीषिन् । विऽमुच्य । हरी इति । इह । मादयस्व ॥
 
विश्वामित्रो ब्रूते । "सोमपते सोमस्याधिपते हे “इन्द्र "इमम् अस्माभिर्माध्यंदिने सवने क्रियमाणं “सोमं सोमरसं “पिब । "यत् यस्मात् "ते त्वदर्थं क्रियमाणं "माध्यंदिनं मध्यंदिनसंबन्धि "सवनं निष्केवल्याख्यं शस्त्रं “चारु रमणीयं वर्तते । "मघवन् धनवन् "ऋजीषिन् । ऋजीषशब्देन गतसारं सोमद्रव्यमुच्यते । तद्वन हे इन्द्र "हरी रथे योजित।वश्वौ रथात् विमुच्य “शिप्रे हनू “प्रप्रुथ्य अत्रत्येन ग्रासेन पूरयित्वा “इह देवयजनदेशे "मादयस्व तावश्वौ हर्षय ॥ प्रप्रुथ्य। प्रोथृ पर्याप्तौ' इत्यस्य ल्यपि रूपम् । ह्रस्वछन्दसः । लित्स्वरः । ऋजीषिन् । अर्ज षर्ज अर्जने इत्यस्मात् ‘अर्जेश्च ऋजि च ' ( उ. सू. ४.४६८) इतीषन्प्रत्ययः ऋजि इत्यादेशश्च धातोः । अर्ज्यत इत्यृजीषम् । तदस्यास्ति इति इनिप्रत्ययः । आमन्त्रितत्वान्निघातः । मादयस्व । मदि स्तुत्यादिषु । हेतुमण्णिच् । निघातः ॥
 
 
Line ७९ ⟶ ८२:
ब्रह्मऽकृता । मारुतेन । गणेन । सऽजोषाः । रुद्रैः । तृपत् । आ । वृषस्व ॥
 
हे "इन्द्र "गवाशिरं गव्यस्य पयस आशीर्मिश्रणं यस्मिन् तं "सोमम् । अपि च "मन्थिनं मन्थसंयुक्तं "शुक्रम् अभिनवं यद्वा शुक्रामन्थिग्रहे वर्तमानम् । एवं त्रिषु सवनेषु वर्तमानमिमं सोमं "पिब । “ते तव "मदाय हर्षाय “ररिम तं सोमं वयं प्रयच्छामः । "मारुतेन । मरुतां गणो मारुतः । स च ब्रह्मकृत् । ब्रह्म स्तोत्रं करोतीति ब्रह्मकृत् । इन्द्रस्तोत्रं कुर्वाणेन मारुतेन "गणेन "रुद्रैः एकादशसंख्याकैः रुद्रैश्च "सजोषाः संगतस्त्वं तृपत् सोमपानेन तृप्यन् “आ “वृषस्व । तमिमं सर्वतो जठरे सिञ्च धारय ॥ गवाशिरं । श्रीणातेः आङ्पूर्वात् क्विपि 'अपस्पृधेथामानृचुः' इत्यादिना निपातनात् आशिरादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । पिबा" । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३२" इत्यस्माद् प्रतिप्राप्तम्