"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम् ।
अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् ॥१॥
Line ६० ⟶ ५९:
आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥२४॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १०}}
== ==
{{सायणभाष्यम्|
अस॒त्सु मे॑ जरितः॒ साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्षं॑ ।
 
अना॑शीर्दाम॒हम॑स्मि प्रहं॒ता स॑त्य॒ध्वृतं॑ वृजिना॒यंत॑मा॒भुं ॥१
 
अस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् ।
 
अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥
 
असत् । सु । मे । जरितरिति । सः । अभिऽवेगः । यत् । सुन्वते । यजमानाय । शिक्षम् ।
 
अनाशीःऽदाम् । अहम् । अस्मि । प्रऽहन्ता । सत्यऽध्वृतम् । वृजिनऽयन्तम् । आभुम् ॥
 
 
 
यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयूंत॒न्वा॒३॒॑ शूशु॑जानान् ।
 
अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं पं॑चद॒शं नि षिं॑चं ॥२
 
यदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् ।
 
अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥
 
यदि । इत् । अहम् । युधये । सम्ऽनयानि । अदेवऽयून् । तन्वा । शूशुजानान् ।
 
अमा । ते । तुम्रम् । वृषभम् । पचानि । तीव्रम् । सुतम् । पञ्चऽदशम् । नि । सिञ्चम् ॥
 
 
 
नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् ।
 
य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वंति ॥३
 
न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् ।
 
य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥
 
न । अहम् । तम् । वेद । यः । इति । ब्रवीति । अदेवऽयून् । सम्ऽअरणे । जघन्वान् ।
 
यदा । अवऽअख्यत् । सम्ऽअरणम् । ऋघावत् । आत् । इत् । ह । मे । वृषभा । प्र । ब्रुवन्ति ॥
 
 
 
यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् ।
 
जि॒नामि॒ वेत्क्षेम॒ आ संत॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥४
 
यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् ।
 
जि॒नामि॑ । वा॒ । इत् । क्षेमे॑ । आ । सन्त॑म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व॑ते । पा॒द॒ऽगृह्य॑ ॥
 
यत् । अज्ञातेषु । वृजनेषु । आसम् । विश्वे । सतः । मघऽवानः । मे । आसन् ।
 
जिनामि । वा । इत् । क्षेमे । आ । सन्तम् । आभुम् । प्र । तम् । क्षिणाम् । पर्वते । पादऽगृह्य ॥
 
 
 
न वा उ॒ मां वृ॒जने॑ वारयंते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये ।
 
मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रणः॒ समे॑जात् ॥५
 
न । वै । ऊं॒ इति॑ । माम् । वृ॒जने॑ । वा॒र॒य॒न्ते॒ । न । पर्व॑तासः । यत् । अ॒हम् । म॒न॒स्ये ।
 
मम॑ । स्व॒नात् । कृ॒धु॒ऽकर्णः॑ । भ॒या॒ते॒ । ए॒व । इत् । अनु॑ । द्यून् । कि॒रणः॑ । सम् । ए॒जा॒त् ॥
 
न । वै । ऊं इति । माम् । वृजने । वारयन्ते । न । पर्वतासः । यत् । अहम् । मनस्ये ।
 
मम । स्वनात् । कृधुऽकर्णः । भयाते । एव । इत् । अनु । द्यून् । किरणः । सम् । एजात् ॥
 
 
 
दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑निं॒द्रान्बा॑हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् ।
 
घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥६
 
दर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् ।
 
घृषु॑म् । वा॒ । ये । नि॒नि॒दुः । सखा॑यम् । अधि॑ । ऊं॒ इति॑ । नु । ए॒षु॒ । प॒वयः॑ । व॒वृ॒त्युः॒ ॥
 
दर्शन् । नु । अत्र । शृतऽपान् । अनिन्द्रान् । बाहुऽक्षदः । शरवे । पत्यमानान् ।
 
घृषुम् । वा । ये । निनिदुः । सखायम् । अधि । ऊं इति । नु । एषु । पवयः । ववृत्युः ॥
 
 
 
अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् ।
 
द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥७
 
अभूः॑ । ऊं॒ इति॑ । औक्षीः॑ । वि । ऊं॒ इति॑ । आयुः॑ । आ॒न॒ट् । दर्ष॑त् । नु । पूर्वः॑ । अप॑रः । नु । द॒र्ष॒त् ।
 
द्वे इति॑ । प॒वस्ते॒ इति॑ । परि॑ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज॑सः । वि॒वेष॑ ॥
 
अभूः । ऊं इति । औक्षीः । वि । ऊं इति । आयुः । आनट् । दर्षत् । नु । पूर्वः । अपरः । नु । दर्षत् ।
 
द्वे इति । पवस्ते इति । परि । तम् । न । भूतः । यः । अस्य । पारे । रजसः । विवेष ॥
 
 
 
गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्षं॒ता अ॑पश्यं स॒हगो॑पा॒श्चरं॑तीः ।
 
हवा॒ इद॒र्यो अ॒भितः॒ समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छंदयाते ॥८
 
गावः॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः ।
 
हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥
 
गावः । यवम् । प्रऽयुताः । अर्यः । अक्षन् । ताः । अपश्यम् । सहऽगोपाः । चरन्तीः ।
 
हवाः । इत् । अर्यः । अभितः । सम् । आयन् । कियत् । आसु । स्वऽपतिः । छन्दयाते ॥
 
 
 
सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अं॒तः ।
 
अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥९
 
सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ ।
 
अत्र॑ । यु॒क्तः । अ॒व॒ऽसा॒तार॑म् । इ॒च्छा॒त् । अथो॒ इति॑ । अयु॑क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥
 
सम् । यत् । वयम् । यवसऽअदः । जनानाम् । अहम् । यवऽअदः । उरुऽअज्रे । अन्तरिति ।
 
अत्र । युक्तः । अवऽसातारम् । इच्छात् । अथो इति । अयुक्तम् । युनजत् । ववन्वान् ॥
 
 
 
अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ ।
 
स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेदः॑ ॥१०
 
अत्र॑ । इत् । ऊं॒ इति॑ । मे॒ । मं॒स॒से॒ । स॒त्यम् । उ॒क्तम् । द्वि॒ऽपात् । च॒ । यत् । चतुः॑ऽपात् । स॒म्ऽसृ॒जानि॑ ।
 
स्त्री॒भिः । यः । अत्र॑ । वृष॑णम् । पृ॒त॒न्यात् । अयु॑द्धः । अ॒स्य॒ । वि । भ॒जा॒नि॒ । वेदः॑ ॥
 
अत्र । इत् । ऊं इति । मे । मंससे । सत्यम् । उक्तम् । द्विऽपात् । च । यत् । चतुःऽपात् । सम्ऽसृजानि ।
 
स्त्रीभिः । यः । अत्र । वृषणम् । पृतन्यात् । अयुद्धः । अस्य । वि । भजानि । वेदः ॥
 
 
 
यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अं॒धां ।
 
क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥११
 
यस्य॑ । अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् ।
 
क॒त॒रः । मे॒निम् । प्रति॑ । तम् । मु॒चा॒ते॒ । यः । ई॒म् । वहा॑ते । यः । ई॒म् । वा॒ । व॒रे॒ऽयात् ॥
 
यस्य । अनक्षा । दुहिता । जातु । आस । कः । ताम् । विद्वान् । अभि । मन्याते । अन्धाम् ।
 
कतरः । मेनिम् । प्रति । तम् । मुचाते । यः । ईम् । वहाते । यः । ईम् । वा । वरेऽयात् ॥
 
 
 
किय॑ती॒ योषा॑ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये॑ण ।
 
भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः॑ स्व॒यं सा मि॒त्रं व॑नुते॒ जने॑ चित् ॥१२
 
किय॑ती । योषा॑ । म॒र्य॒तः । व॒धू॒ऽयोः । परि॑ऽप्रीता । पन्य॑सा । वार्ये॑ण ।
 
भ॒द्रा । व॒धूः । भ॒व॒ति॒ । यत् । सु॒ऽपेशाः॑ । स्व॒यम् । सा । मि॒त्रम् । व॒नु॒ते॒ । जने॑ । चि॒त् ॥
 
कियती । योषा । मर्यतः । वधूऽयोः । परिऽप्रीता । पन्यसा । वार्येण ।
 
भद्रा । वधूः । भवति । यत् । सुऽपेशाः । स्वयम् । सा । मित्रम् । वनुते । जने । चित् ॥
 
 
 
प॒त्तो ज॑गार प्र॒त्यंच॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू॑थं ।
 
आसी॑न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य॑ङ्ङुत्ता॒नामन्वे॑ति॒ भूमिं॑ ॥१३
 
प॒त्तः । ज॒गा॒र॒ । प्र॒त्यञ्च॑म् । अ॒त्ति॒ । शी॒र्ष्णा । शिरः॑ । प्रति॑ । द॒धौ॒ । वरू॑थम् ।
 
आसी॑नः । ऊ॒र्ध्वाम् । उ॒पसि॑ । क्षि॒णा॒ति॒ । न्य॑ङ् । उ॒त्ता॒नाम् । अनु॑ । ए॒ति॒ । भूमि॑म् ॥
 
पत्तः । जगार । प्रत्यञ्चम् । अत्ति । शीर्ष्णा । शिरः । प्रति । दधौ । वरूथम् ।
 
आसीनः । ऊर्ध्वाम् । उपसि । क्षिणाति । न्यङ् । उत्तानाम् । अनु । एति । भूमिम् ॥
 
 
 
बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भः॑ ।
 
अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ॥१४
 
बृ॒हन् । अ॒च्छा॒यः । अ॒प॒ला॒शः । अर्वा॑ । त॒स्थौ । मा॒ता । विऽसि॑तः । अ॒त्ति॒ । गर्भः॑ ।
 
अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ॥
 
बृहन् । अच्छायः । अपलाशः । अर्वा । तस्थौ । माता । विऽसितः । अत्ति । गर्भः ।
 
अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ॥
 
 
 
स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिरं॒ते ।
 
नव॑ प॒श्चाता॑त्स्थिवि॒मंत॑ आयं॒दश॒ प्राक्सानु॒ वि ति॑रं॒त्यश्नः॑ ॥१५
 
स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते ।
 
नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥
 
सप्त । वीरासः । अधरात् । उत् । आयन् । अष्ट । उत्तरात्तात् । सम् । अजग्मिरन् । ते ।
 
नव । पश्चातात् । स्थिविऽमन्तः । आयन् । दश । प्राक् । सानु । वि । तिरन्ति । अश्नः ॥
 
 
 
द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वंति॒ क्रत॑वे॒ पार्या॑य ।
 
गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नंतं तु॒षयं॑ती बिभर्ति ॥१६
 
द॒शा॒नाम् । एक॑म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत॑वे । पार्या॑य ।
 
गर्भ॑म् । मा॒ता । सुऽधि॑तम् । व॒क्षणा॑सु । अवे॑नन्तम् । तु॒षय॑न्ती । बि॒भ॒र्ति॒ ॥
 
दशानाम् । एकम् । कपिलम् । समानम् । तम् । हिन्वन्ति । क्रतवे । पार्याय ।
 
गर्भम् । माता । सुऽधितम् । वक्षणासु । अवेनन्तम् । तुषयन्ती । बिभर्ति ॥
 
 
 
पीवा॑नं मे॒षम॑पचंत वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् ।
 
द्वा धनुं॑ बृह॒तीम॒प्स्वं१॒॑तः प॒वित्र॑वंता चरतः पु॒नंता॑ ॥१७
 
पीवा॑नम् । मे॒षम् । अ॒प॒च॒न्त॒ । वी॒राः । निऽउ॑प्ताः । अ॒क्षाः । अनु॑ । दी॒वे । आ॒स॒न् ।
 
द्वा । धनु॑म् । बृ॒ह॒तीम् । अ॒प्ऽसु । अ॒न्तरिति॑ । प॒वित्र॑ऽवन्ता । च॒र॒तः॒ । पु॒नन्ता॑ ॥
 
पीवानम् । मेषम् । अपचन्त । वीराः । निऽउप्ताः । अक्षाः । अनु । दीवे । आसन् ।
 
द्वा । धनुम् । बृहतीम् । अप्ऽसु । अन्तरिति । पवित्रऽवन्ता । चरतः । पुनन्ता ॥
 
 
 
वि क्रो॑श॒नासो॒ विष्वं॑च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः ।
 
अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥१८
 
वि । क्रो॒श॒नासः॑ । विष्व॑ञ्चः । आ॒य॒न् । पचा॑ति । नेमः॑ । न॒हि । पक्ष॑त् । अ॒र्धः ।
 
अ॒यम् । मे॒ । दे॒वः । स॒वि॒ता । तत् । आ॒ह॒ । द्रुऽअ॑न्नः । इत् । व॒न॒व॒त् । स॒र्पिःऽअ॑न्नः ॥
 
वि । क्रोशनासः । विष्वञ्चः । आयन् । पचाति । नेमः । नहि । पक्षत् । अर्धः ।
 
अयम् । मे । देवः । सविता । तत् । आह । द्रुऽअन्नः । इत् । वनवत् । सर्पिःऽअन्नः ॥
 
 
 
अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानं ।
 
सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥१९
 
अप॑श्यम् । ग्राम॑म् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् ।
 
सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥
 
अपश्यम् । ग्रामम् । वहमानम् । आरात् । अचक्रया । स्वधया । वर्तमानम् ।
 
सिसक्ति । अर्यः । प्र । युगा । जनानाम् । सद्यः । शिश्ना । प्रऽमिनानः । नवीयान् ॥
 
 
 
ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मंधि ।
 
आप॑श्चिदस्य॒ वि न॑शं॒त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥२०
 
ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ ।
 
आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥
 
एतौ । मे । गावौ । प्रऽमरस्य । युक्तौ । मो इति । सु । प्र । सेधीः । मुहुः । इत् । ममन्धि ।
 
आपः । चित् । अस्य । वि । नशन्ति । अर्थम् । सूरः । च । मर्कः । उपरः । बभूवान् ॥
 
 
 
अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् ।
 
श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरंति ॥२१
 
अ॒यम् । यः । वज्रः॑ । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृ॒ह॒तः । पुरी॑षात् ।
 
श्रवः॑ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माणः॑ । त॒र॒न्ति॒ ॥
 
अयम् । यः । वज्रः । पुरुधा । विऽवृत्तः । अवः । सूर्यस्य । बृहतः । पुरीषात् ।
 
श्रवः । इत् । एना । परः । अन्यत् । अस्ति । तत् । अव्यथी । जरिमाणः । तरन्ति ॥
 
 
 
वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्पूरु॒षादः॑ ।
 
अथे॒दं विश्वं॒ भुव॑नं भयात॒ इंद्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥२२
 
वृ॒क्षेऽवृ॑क्षे । निऽय॑ता । मी॒म॒य॒त् । गौः । ततः॑ । वयः॑ । प्र । प॒ता॒न् । पु॒रु॒ष॒ऽअदः॑ ।
 
अथ॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । भ॒या॒ते॒ । इन्द्रा॑य । सु॒न्वत् । ऋष॑ये । च॒ । शिक्ष॑त् ॥
 
वृक्षेऽवृक्षे । निऽयता । मीमयत् । गौः । ततः । वयः । प्र । पतान् । पुरुषऽअदः ।
 
अथ । इदम् । विश्वम् । भुवनम् । भयाते । इन्द्राय । सुन्वत् । ऋषये । च । शिक्षत् ॥
 
 
 
दे॒वानां॒ माने॑ प्रथ॒मा अ॑तिष्ठन्कृं॒तत्रा॑देषा॒मुप॑रा॒ उदा॑यन् ।
 
त्रय॑स्तपंति पृथि॒वीम॑नू॒पा द्वा बृबू॑कं वहतः॒ पुरी॑षं ॥२३
 
दे॒वाना॑म् । माने॑ । प्र॒थ॒माः । अ॒ति॒ष्ठ॒न् । कृ॒न्तत्रा॑त् । ए॒षा॒म् । उप॑राः । उत् । आ॒य॒न् ।
 
त्रयः॑ । त॒प॒न्ति॒ । पृ॒थि॒वीम् । अ॒नू॒पाः । द्वा । बृबू॑कम् । व॒ह॒तः॒ । पुरी॑षम् ॥
 
देवानाम् । माने । प्रथमाः । अतिष्ठन् । कृन्तत्रात् । एषाम् । उपराः । उत् । आयन् ।
 
त्रयः । तपन्ति । पृथिवीम् । अनूपाः । द्वा । बृबूकम् । वहतः । पुरीषम् ॥
 
 
 
सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये ।
 
आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥२४
 
सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒ऽम॒र्ये ।
 
आ॒विः । स्व१॒॑रिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥
 
सा । ते । जीवातुः । उत । तस्य । विद्धि । मा । स्म । एतादृक् । अप । गूहः । सऽमर्ये ।
 
आविः । स्वरिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःऽनिजः । न । मुच्यते ॥
 
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्