"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६३:
== ==
{{सायणभाष्यम्|
‘असत्सु मे ' इति चतुर्विंशत्यृचमेकादशं सूक्तमिन्द्रपुत्रस्य वसुक्रस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम्-- असत्सु चतुर्विंशतिरैन्द्रो वसुक्रः' इति । महाव्रते मरुत्वतीयशस्र एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं च--- असत्सु मे जरितः साभिवेगः पिबा सोममभि यमुग्र तर्दः' (ऐ. आ. ५. १, १) इति ॥
अस॒त्सु मे॑ जरितः॒ साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्षं॑ ।
 
 
अना॑शीर्दाम॒हम॑स्मि प्रहं॒ता स॑त्य॒ध्वृतं॑ वृजिना॒यंत॑मा॒भुं ॥१
Line ७५ ⟶ ७७:
अनाशीःऽदाम् । अहम् । अस्मि । प्रऽहन्ता । सत्यऽध्वृतम् । वृजिनऽयन्तम् । आभुम् ॥
 
वासुक्रेषु सूक्तेषु बाहुल्येनेन्द्रः स्तूयते । इदानीमिन्द्रो वसुक्रं स्तोतुमुद्यतं पुत्रं संबोध्य स्वसामर्थ्यं कथयति येन विज्ञातदेवतारूपः सन् सुखेन स्तोष्यतीति । यद्वा । कार्यकारणयोरेकत्वोपचारात् “ आत्मा वै पुत्रनामासि' (आश्व. गृ. १.१५.११ ) इति वचनादिन्द्ररूपेणावस्थितो वसुक्र आत्मानं स्तौति । क्वचित् क्वचिदिन्द्रं चेति । हे "जरितः स्तोतः "मे मम "सु शोभनः "सः तादृशः "अभिवेगः अभिगमनं मनसो वृत्तिविशेषः "असत् अस्ति विद्यते । "यत् येन अभिवेगेन “सुन्वते मदर्थं सोमाभिषवं कुर्वते "यजमानाय यज्वने "शिक्षम् अभिलषितमर्थं ददामि । किंच “अहम् अनाशीर्दाम् । आशीरन्यत्र प्रार्थना इह तु सामर्थ्यात् प्रार्थितं हविरुच्यते । तन्मह्यमददतं जनम् । यद्वा । आशीरिति सोमाश्रयणं दध्युच्यते । तस्यादातारम् । असोमयाजिनमित्यर्थः। “प्रहन्ता "अस्मि प्रकर्षेण हिंसिता भवामि । कीदृशम् । "सत्यध्वृतं सत्यस्य हिंसकम् । अनृतवादिनं चेत्यर्थः । "वृजिनायन्तं पापं कर्तुमिच्छन्तम् “आभुं व्याप्नुवन्तम् ॥
 
 
Line ८९ ⟶ ९२:
अमा । ते । तुम्रम् । वृषभम् । पचानि । तीव्रम् । सुतम् । पञ्चऽदशम् । नि । सिञ्चम् ॥
 
"यत् यदा "अहमित् अहमेव "युधये युद्धार्थम् "अदेवयून् देवान् यष्टुमनिच्छतोऽयज्वनः "संनयानि संगमयामि। कीदृशान् । "तन्वा स्वशरीरेण "शूशुजानान् आत्मंभरित्वात्पुष्टिलक्षणया दीप्त्या युक्तान् । पुष्टानित्यर्थः । तदा हे इन्द्र अहम् “अमा ऋत्विगादिभिः सहितः "ते तुभ्यं "तुम्रं प्रेरकं बलिनम् । पीवानमित्यर्थः । "वृषभं सेचनसमर्थं पुंपशुं “पचानि । किंच "तीव्रं मदकररस "सुतम् अभिषुतं "पञ्चदशम् । प्रतिपत्प्रभृति पञ्चदशसंख्याकासु तिथिषु शुक्लपक्ष एकोत्तरवृद्ध्या पर्णानि जायन्ते । कृष्णपक्षे तु तद्वन्निहीयन्ते । एवंभूतत्वात्पञ्चदशः सोम उच्यते । तम् । यद्वा । त्रिवृत्पञ्चदशस्तोमोपेतं माध्यंदिनसवनकमित्यर्थः । “नि “षिञ्च दशापवित्रे द्रोणकलशे चमसपात्रेऽग्नौ वा सिञ्चामि प्रक्षिपामीत्यर्थः ॥
 
 
Line १०३ ⟶ १०७:
यदा । अवऽअख्यत् । सम्ऽअरणम् । ऋघावत् । आत् । इत् । ह । मे । वृषभा । प्र । ब्रुवन्ति ॥
 
“यः जनः “अदेवयून देवानकामयमानान् देवद्विषो राक्षसादीन् "समरणे संग्रामे “जघन्वान् अहं हतवान् “इति “ब्रवीति वदति “तं तादृशं मद्व्यतिरिक्तं जनम् “अहं “न “वेद न जानामि । मत्तोऽन्यः संग्रामे शत्रूणां हन्ता नास्तीत्यर्थः । किंच "यदा यस्मिन्काले “समरणं संग्रामम् “अवाख्यत् अवाकृतं न्यक्कृतमहं पश्यामि । कीदृशम् । “ऋघावत् ऋघावन्तं परस्परं हिंसायुक्तम् । अत्यन्तक्रूरमित्यर्थः । “आत् तदानीं “मे मम स्वभूतानि “वृषभा वृषभकर्माणि दर्पितवृषभस्येव विक्रान्तकर्माणि “प्र “ब्रुवन्ति । विद्वज्जना इति शेषः । “इद्ध इतीमौ पदपूरणौ ॥
 
 
Line ११७ ⟶ १२२:
जिनामि । वा । इत् । क्षेमे । आ । सन्तम् । आभुम् । प्र । तम् । क्षिणाम् । पर्वते । पादऽगृह्य ॥
 
“यत् यदा "अज्ञातेषु शरीरशस्त्रास्त्रबलादिभिरपरिज्ञातेषु “वृजनेषु संग्रामेषु “आसम् अहं युद्धार्थमुपविशामि तदा “विश्वे सर्वे मघवानः हविर्लक्षणतपोलक्षणधनवन्त ऋषयः “सतः एवं वर्तमानस्य “मे ममेन्द्रस्य समीपे “आसन् उपविशन्ति । मम वीर्यवृद्ध्यर्थं मां स्तुवन्तस्तिष्ठन्तीत्यर्थः । अपि च “क्षेमे जगत्पालने निमित्ते “आ सन्तम् । आकारोऽभीत्यस्यार्थे वर्तते । सर्वमभिभवन्तम् “आभुं महान्तं शत्रुं “जिनामि “वा विनाशयाम्येव । नात्र विनाशे संशयः । “इत् इति पूरणः । “तं महान्तं शत्रुं “पादगृह्य पादौ गृहीत्वा पर्वते गिरौ “प्र “क्षिणां प्रहिनस्मि प्रक्षिपामि ॥
 
 
Line १३१ ⟶ १३७:
मम । स्वनात् । कृधुऽकर्णः । भयाते । एव । इत् । अनु । द्यून् । किरणः । सम् । एजात् ॥
 
“वै "उ इत्येवैव । "वृजने संग्रामे "मां युद्धार्थमुपस्थितं सन्तं "न वारयन्ते केचिन्निवारयितुं समर्था न भवन्ति । "अहं "यत् कर्म "मनस्ये मनसा कर्तुमिच्छामि “पर्वतासः अवितरणक्षमा हिमवदादयो गिरयस्तत्कर्म मनसा प्रोढुं "न शक्नुवन्तीत्यर्थः। किंच “मम इन्द्रस्य स्वनात् शब्दादेव “कृधुकर्णः नामासुरः यद्वा "कृधुकर्णो ह्रस्वकर्णो मन्दश्रवणेन्द्रियो बधिरः स्थावरपिपीलिकादिरपि “भयाते बिभेति । अपि च "एवेत् एवमेव कृधुकर्णवत् "अनु “द्यून् प्रतिदिनमित्यर्थः । "किरणः । अन्तर्णीतमत्वर्थमेतत् । किरणवान् रश्मिवानादित्यः “समेजात् सम्यक्कम्पयते चलति । नियमेन प्रयातीत्यर्थः ॥ ॥ १५ ॥
 
 
Line १४५ ⟶ १५२:
घृषुम् । वा । ये । निनिदुः । सखायम् । अधि । ऊं इति । नु । एषु । पवयः । ववृत्युः ॥
 
“अत्र अस्मिञ्जगति “शृतपान् शृतानि पक्वानि सोमादिहवींष्यपहृत्य पिबतः "अनिन्द्रान् इन्द्रेण मया वर्जितान् "बाहुक्षदः बहुभिर्यजमानान्शकलीकुर्वतः "शरवे हिंसार्थं "पत्यमानान् अभिपततोऽसुरादीन् "नु क्षिप्रं "दर्शन् अहमिन्द्रः पश्यामि । एवंभूतेषु “एषु "अधि उपरि "पवयः मदीयान्यायुधानि “ववृत्युः वर्तन्ते । वाशब्दः समुच्चये । “घृषुं महान्तं च "सखायं सखिवत्प्रियं हितस्य कर्तारं मां “ये "निनिदुः निन्दन्ति । "उ इति समुच्चये। एषु चोपरि मदीयान्यायुधानि क्षिप्रं वर्तन्ते ॥
 
 
Line १५९ ⟶ १६७:
द्वे इति । पवस्ते इति । परि । तम् । न । भूतः । यः । अस्य । पारे । रजसः । विवेष ॥
 
अत्र मध्यमपुरुषेणेन्द्रस्योच्यमानत्वाद्वसुक्र इन्दं स्तौति । “उ इत्यवधारणे । हे इन्द्र “अभूः त्वमेव प्रादुर्भवसि । "औक्षीः काले काले त्वमेव पृथिवीं सिञ्चसि नान्य इत्यर्थः। आनडित्यादौ सर्वत्र परोक्षनिर्देशे प्रत्यक्षीकरणार्थं मध्यमपुरुषेण प्रकृतत्वादेकवाक्यतायै युष्मच्छब्दसमानार्थो भवच्छब्दोऽध्याहर्तव्यः । "वि इति वैविध्ये। उ इति चार्थे। आयुर्जीवितमुच्यते । इन्द्रो भवान् विविधम् "आयुः च "आनट् व्याप्नोति । आ भूतसंप्लवाज्जीवतीत्यर्थः । किंच “पूर्वः पुरातनो भवानिन्द्रः "नु क्षिप्रं "दर्षत् । ‘दृ विदारणे'। सिब्बहुलं लेटि'। वज्रेण शत्रून् विदारयति । "अपरः अन्यः शत्रुः “नु "दर्षत् । नु इति निषेधार्थे । भवन्तमिन्द्रं न विदारयति । भवानेव सर्वं शत्रुजातं हिनस्तीत्यर्थः । अपि च "यः भवानिन्द्रः "अस्य ईदृशस्य "रजसः लोकस्य । त्रैलोक्यस्येत्यर्थः । “पारे परतः । परमसूक्ष्मवायुरूपेण सृष्टिकारणात्मना स्थित्वेति शेषः । विवेष सर्वतो व्याप्नोति “तं भवन्तमिन्द्रं “द्वे इति सामर्थ्यात् द्यावापृथिव्यौ “न “परि “भूतः न परिभवतः । अभिभवितुं न शक्नुत इत्यर्थः । कीदृश्यौ । “पवस्ते। पवतिर्गतिकर्मा । अस्मादौणादिकोऽस्तप्रत्ययः । अतः ‘अजाद्यतष्टाप्' (पा. सू. ४. १. ४) इति टापि कृते प्रथमाद्विवचने चैतद्रूपं भवति । महत्त्वेन सर्वस्याभिभवनाय गच्छन्त्यौ।
 
 
Line १७३ ⟶ १८२:
हवाः । इत् । अर्यः । अभितः । सम् । आयन् । कियत् । आसु । स्वऽपतिः । छन्दयाते ॥
 
“गावः धेनवः “प्रयुताः प्रकर्षेण मिश्रिताः परस्परेण सह भूताः “यवं मद्वष्टिजनितयवादिघासम् "अक्षन् अदन्ति भक्षयन्ति । "अर्यः सर्वस्य स्वाम्यहं “ताः गाः “अपश्यं पश्यामि । कीदृशीः । "सहगोपाः पशुपालकेन सहिताः “चरन्तीः घासं भक्षयन्तीः । एवंभूतास्ताः परया प्रीत्या पश्यामीत्यर्थः। किंच “हवाः वाहनदोहनार्थमाह्वानार्हा गावः "अर्यः । द्वितीयार्थे प्रथमा । अर्यं स्वामिनं प्रति "अभितः सर्वतः समायन् । समित्येकीभावे । एकीभूयागच्छन्ति । “इदिति पूरणः । आगतासु "आसु गोषु "स्वपतिः स्वानां गवां स्वामी “कियत् क्षीरं "छन्दयाते दोग्धुं कामयते । मदर्थं दोग्धीत्यर्थः । ‘गाव आशिरं दुदुहे' (ऋ. सं. ८. ६९. ६) इति वचनात् ॥
 
 
Line १८७ ⟶ १९७:
अत्र । युक्तः । अवऽसातारम् । इच्छात् । अथो इति । अयुक्तम् । युनजत् । ववन्वान् ॥
 
अनया ऋषिरिंद्रप्रसादलब्धं स्वस्य सार्वात्म्यं प्रकाशयति । जनानां लोकानां मध्ये ये यवसादः तृणस्यात्तारः पशवः ते वयमिति सं सम्यक् जानीहि। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । ये च यवादः यवोपलक्षितस्यान्नस्य अत्तारो मनुष्यास्तेपि वयमिति संजानीहि । वस्तुतस्तु उर्वज्रे विस्तीर्णे अजिरेंगणे हार्दाकाशरूपे यत् अंतः अंतर्यामिरूपं ब्रह्म तदहमस्मि । अत्रास्मिन् हार्दाकाशे युक्तः समाहितो भवानिंद्रः अवसातारं आत्मनः संभक्तारं इच्छात् इच्छति आत्मसाक्षात्कर्तुं। अथो अपि च अयुक्तं अयोगिनं ववन्वान् । द्वितीयार्थे प्रथमा । ववन्वंतं अतिशयेन विषयान् सेवमानं पुरुषं युनजत् युनक्ति संसारे । शापानुग्रहसमर्थो भवद्रूपोहमेवास्मीति भावः ।
 
 
Line २०१ ⟶ २१२:
स्त्रीभिः । यः । अत्र । वृषणम् । पृतन्यात् । अयुद्धः । अस्य । वि । भजानि । वेदः ॥
 
“मे मम "अत्र अस्मिन् स्तोत्रे "उक्तं मया कथितं "सत्यमित् यथाभूतमेव "मंससे त्वं जानीहि । अर्थवादरूपेण नैतदध्यारोपितगुणमित्यर्थः। “उ इति पूरणः । किंच "द्विपाच्च मनुष्यादिकं च “चतुष्पात् च पश्वादिकं च "यत् स्थावरजङ्गमात्मकं जगत् "संसृजानि अहमुत्पादयनीति त्वं जानीहि । “अत्र अस्मिञ्जगति "स्त्रीभिः स्त्रीसदृशैः बलादिहीनैः पुरुषैः सह "यः शूरंमन्यो जनः "वृषणम् अभिलषितस्य वर्षितारं माम् । परित्यज्येति शेषः । "पृतन्यात् युद्धं कर्तुमिच्छति अहम् "अस्य ईदृशस्य
 
 
यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अं॒धां ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्