"ऋग्वेदः सूक्तं १०.१९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
{{सायणभाष्यम्|
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
अष्टके सप्तमे षष्ठं व्याख्याय श्रुतिकोविदः ।
 
सायणार्यस्ततोऽध्यायं सप्तमं व्याचिकीर्षति ॥
 
अथ द्वादशानुवाकात्मकस्य दशममण्डलस्य द्वितीयेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘नि वर्तध्वम्' इत्यष्टर्चं तृतीयं सूक्तम् । अस्य यमपुत्रो मथिताख्य ऋषिर्वरुणपुत्रो भृगुर्वाथवा भार्गवश्च्यवनः । षष्ठी गायत्री शिष्टा अनुष्टुभः । इदमब्देवताकं गोदेवताकं वा । ' अग्नीषोमा पुनर्वसू ' इत्यर्धर्चोsग्नीषोमदेवताकः । तथा चानुक्रान्तं -- नि वर्तध्वमष्टौ मथितो भृगुर्वा वारुणिर्भार्गवश्च्यवनो वापं गव्यं वानुष्टुभमग्नीषोमीयो द्वितीयोऽर्धर्चः षष्ठी गायत्री ' इति । गतो विनियोगः
 
 
नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्त्सि॑षक्त रेवतीः ।
Line ४५ ⟶ ५६:
अग्नीषोमा । पुनर्वसू इति पुनःऽवसू । अस्मे इति । धारयतम् । रयिम् ॥
 
हे गावो हे आपो वा यूयं “नि “वर्तध्वम् अस्मान् प्रत्यागच्छत । “मानु “गात अस्मद्व्यतिरिक्तं यजमानं मा गच्छत । आगत्य च हे "रेवतीः रेवत्यो धनवत्यो यूयम् “अस्मान् “सिषक्त सेचयत । अवगाहनगोदोहनस्नानपानादिद्वारेण सेवध्वमित्यर्थः। हे “पुनर्वसू पुनःपुनर्वस्तारौ स्तोतॄणां यष्टॄणामाच्छादयितारौ हे "अग्नीषोमा अग्नीषोमौ एतन्नामकौ देवौ युवाम् “अस्मे अस्मासु “रयिं व्रीह्यादिलक्षणं धनं “धारयतं स्थापयतम् ॥
 
 
Line ५९ ⟶ ७१:
इन्द्रः । एनाः । नि । यच्छतु । अग्निः । एनाः । उपऽआजतु ॥
 
अत्र मन्त्रद्रष्टा स्वात्मानं प्रति ब्रूते । हे मदीयात्मन् त्वम् “एनाः एताः अन्यतोऽभिगन्त्रीर्गा अपो वा “पुनः “नि “वर्तय पुनःपुनर्मदभिमुखीकुरु । तदनन्तरम् “एनाः एताः “पुनः भूयो भूयो “न्या कुरु नियता आत्मायत्ताः कुरु। किंच “इन्द्रः अपि तव सहायभूतः सन् “एनाः एताः “नि “यच्छतु त्वदायत्ताः करोतु । “अग्निः च “एनाः एताः गा अपो वा “उपाजतु उपगमयतु उपक्षिपतु वा । उपयोग्याः करोत्वित्यर्थः ॥
 
 
Line ७३ ⟶ ८६:
इह । एव । अग्ने । नि । धारय । इह । तिष्ठतु । या । रयिः ॥
 
एना एता ईदृश्यो गाव आपो वा “पुनः “नि “वर्तन्तां भूयो भूयो मां प्रत्यागच्छन्तु । आगत्य च “गोपतौ सास्नादिमतीनां धेनूनां वृष्टिलक्षणानामपां पालके “अस्मिन् ईदृशे मयि “पुष्यन्तु आत्मायत्तत्वेन स्थित्वा पुष्टा भवन्तु । पुष्टाः सतीस्ता हे “अग्ने त्वम् “इहैव अस्मिन्नेव मयि “नि “धारय नियमेन स्थापय । "या “रयिः यदपि व्रीह्यादिकं धनमस्ति तदपि धनं गोसहितम् “इह अस्मिन्नेव गोपतौ मयि “तिष्ठतु निवसतु ॥ ।
 
 
Line ८७ ⟶ १०१:
आऽवर्तनम् । निऽवर्तनम् । यः । गोपाः । अपि । तम् । हुवे ॥
 
“नियानम् । अधिकरणे ल्युट् । नियमेन यान्त्यागच्छन्ति गावोऽत्रेति नियानं गोष्ठाख्यं स्थानम्। “यत् अस्तीति शेषः। यच्छब्दयोगात्तच्छब्दोऽध्याहर्तव्यः। हुव इति क्रियापदं सर्वत्रानुषज्यते । तत्स्थानं “हुवे आह्वयामि । आह्वानमभिमुखीकरणं तेन चात्र तत्पूर्विका प्रार्थना लक्ष्यते । गोसहितं गोष्ठं प्रार्थय इत्यर्थः । “न्ययनम् । भावे ल्युट् । नियमेन गृहं प्रति प्राप्तिलक्षणं गमनं यदस्ति तदपि प्रार्थये। “निवर्तनं वने चरित्वा गृहं प्रति यदागमनमस्ति तदपि प्रार्थये । “यः “अपि “गोपाः गवां पालकोऽस्ति “तम् अपि हुवे प्रार्थये । सर्वगुणोपेता गाः प्रार्थय इत्यर्थः ॥ (वैकल्पिकपाठः -- ग-प्रार्थये । यत्र संगच्छंते इतरेतरं जानंतस्तत् संज्ञानं । अथ ततश्चरणार्थं पराचीना यत्र यंति तत्परायणं । चरित्वाधा आवर्तंते तदावर्तनं; मु-प्रार्थये । संज्ञान गोभिः सह ऐकमत्यं यदस्ति तदपि प्रार्थये । परायणं परागमनं वनं प्रति गवां चरणाय गमनं यदस्ति तदपि प्रार्थये । आवर्तनं वनचारिणीभिर्गोभिः सह प्रवर्तनं यदस्ति तदपि प्रार्थये।)
 
 
य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णं ।
Line १०१ ⟶ ११६:
आऽवर्तनम् । निऽवर्तनम् । अपि । गोपाः । नि । वर्तताम् ॥
 
“यः “गोपाः गोपालः “व्ययनं नष्टानां गवामन्वेषणार्थं विविधं गमनम् "उदानट् व्याप्नोति अनुभवति । “यः परायणं परागमनम् “उदानट् व्याप्नोति । वनं प्रति गवां चरणाय गमनमित्यर्थः। यश्च “आवर्तनं वनचारिणीभिर्गोभिः सह प्रवर्तनमनुभवति । यः “अपि गोपाः “निवर्तनं गोभिः सह वनाद्गृहं प्रति निर्गमनमनुभवति । सोऽपि गोपालः “नि “वर्ततां गोभिः सह वनाद्गृहं प्रति क्षेमेणागच्छतु ॥
 
 
Line ११५ ⟶ १३१:
जीवाभिः । भुनजामहै ॥
 
हे “इन्द्र त्वम् “आ “निवर्त आनिवर्तस्व अस्सदभिमुखो भव । ततोऽन्यतो गच्छन्तीर्गाः “नि “वर्तय अस्मदभिमुखीः कुरु । एवं कृत्वा च हे इन्द्र त्वं “पुनः पश्चात् “नः अस्मभ्यं “गाः “देहि प्रयच्छ। त्वया दत्ताभिः "जीवाभिः चिरं जीवन्तीभिः सर्वस्य जीवयित्रीभिर्वा गोभिः “भुनजामहै वयं भुञ्जीमहि । यद्वा । भुजिरत्रान्तर्भावितण्यर्थः । देवपितॄन्' संभोजयेमहि ॥
 
 
Line १२९ ⟶ १४६:
ये । देवाः । के । च । यज्ञियाः । ते । रय्या । सम् । सृजन्तु । नः ॥
 
हे देवाः “विश्वतः सर्वतः स्थितान् “वः युष्मान् "ऊर्जा गोसंबन्धिना दधिलक्षणेनान्नेन “घृतेन आज्येन “पयसा क्षीरेण च “परि “दधे संधारयामि । युष्मभ्यं हविर्द्वारेण प्रयच्छामि । न केवलमात्मानं पुष्णामीत्यर्थः । एतज्ज्ञात्वा “ये के च "देवाः “यज्ञियाः यज्ञार्हाः सन्ति “ते देवाः “नः अस्मान् “रय्या गोलक्षणेन धनेन “सं “सृजन्तु संयोजयन्तु ॥
 
 
Line १४३ ⟶ १६१:
भूम्याः । चतस्रः । प्रऽदिशः । ताभ्यः । एनाः । नि । वर्तय ॥
 
मन्त्रद्रष्टर्षिः स्वात्मानं गाश्च संबोध्याह । हे मदीयात्मन् त्वं गाः “आ “वर्तय। आकारोऽप्यनेनापि संबध्यते । मदभिमुखीः कुरु । स्तुत्या यागेन च ताः प्रसाद्योपनमयेत्यर्थः । हे गावः यूयमपि प्रसाद्यमानाः “आ “निवर्तन आनिवर्तध्वम् । आभिमुख्येनागच्छत । पुनरप्याह । हे मदीयात्मन् त्वं “नि “वर्तय गोसंचरणस्थानादपगच्छन्तीर्गा इतोऽभिगन्त्रीः कुरु । यूयमपि हे गावो निवर्त्यमानाः सत्यः “निवर्तन निवर्तध्वम् । इदानीं स्वात्मा गावश्चर्षिं प्रति ब्रुवते । हे ऋषे अहं कुतो गा निवर्तयामीति कुतो वयं निवर्तयामह इत्यात्मना गोभिश्च पृष्टः सन्नाह । “भूम्याः पृथिव्याः “चतस्रः “प्रदिशः चतुःसंख्यायुक्ताः प्रकृष्टा या दिशः सन्ति "ताभ्यः दिग्भ्यः “एनाः गाः “नि “वर्तय हे आत्मन् मदभिमुखीः कुरु । हे गावो यूयमपि ताभ्यो दिग्भ्यो निवर्तध्वमिति सामर्थ्याल्लब्धम् । यद्वा । अब्दैवतपक्षेऽपि सूक्तार्थों यथा घटते तथा योजना कर्तव्या ॥ ॥ १ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१९" इत्यस्माद् प्रतिप्राप्तम्