"ऋग्वेदः सूक्तं १०.२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
 
भद्रम् । नः । अपि । वातय । मनः ॥
 
हे अग्ने त्वं “नः अस्माकं “मनः “भद्रं शुभयुक्तम् “अपि “वातय । अपिरत्र धात्वर्थानुवादी ।। आगमय । त्वत्संबन्धिस्तोत्रकरणे प्रेरयेत्यर्थः ॥
 
 
Line ५८ ⟶ ६०:
यस्य । धर्मन् । स्वः । एनीः । सपर्यन्ति । मातुः । ऊधः ॥
 
“भुजां हविर्भुजां देवानां मध्ये "यविष्ठम् अहन्यहन्यग्निहोत्रादिकर्मार्थं जायमानत्वादतिशयेन युवानं “शासा अनुशासनेन “मित्रम् । यस्मादिदं कर्तव्यमिदं न कर्तव्यमिति सर्वमनुशास्ति तस्मात्सर्वस्य मित्रभूतमित्यर्थः । “दुर्धरीतुं दुर्धरणीयं संग्रामे शत्रुभिर्दुर्निवारणीयमेवंभूतम् “अग्निम् “ईळे स्तौमि । अपि च “यस्य अग्नेः “धर्मन् धर्मण्यग्निहोत्रादिके कर्मणि “स्वः द्युलोकमादित्यं सर्वं देवजातं वा “एनीः एन्यः प्रतिगन्त्र्य आहुतयः स्तुतयश्च “सपर्यन्ति परिचरन्ति सेवन्ते । यद्वा । स्वः सपर्यन्तीत्यनयोः सामानाधिकरण्यम् । अत्र स्वरित्ययं सर्वशब्दो निपातः । स्वः सर्वे देवाः एनीरात्मनः प्रतिगन्त्रीराहुतीः स्तुतीश्च सपर्यन्ति सेवन्ते । उपजीवन्तीत्यर्थः। तत्र दृष्टान्तः । लुप्तोपममेतत् । “मातुः गोः “ऊधः क्षीरोपसंहारस्थानं प्रति यथा वत्सा उपजीवन्ति तद्वत् । तमग्निमीळ इति पूर्वेण संबन्धः ॥
 
 
Line ७२ ⟶ ७५:
भ्राजते । श्रेणिऽदन् ॥
 
स्तोतारो यष्टारश्च “आसा स्तुतिहविर्लक्षणेनोपासनेन “यम् अग्निं “वर्धयन्ति । कीदृशम् । “कृपनीळं कर्मस्थानम् । कर्माधारमित्यर्थः । “भासाकेतुं ज्वालालक्षणज्ञापकं दीप्तेः कर्तारं वा । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः । सोऽग्निः “श्रेणिदन् स्तोतृभ्यो यष्टृभ्योऽभीष्टफलसमूहप्रदः शत्रुभ्यो ज्वालापङ्क्तिप्रदो वा एवंभूतः सन् “भ्राजते भासते ॥
 
 
Line ८६ ⟶ ९०:
कविः । अभ्रम् । दीद्यानः ॥
 
“विशां यजमानमनुष्याणाम् “अर्यः गन्तव्यः “गातुः गमनशीलोऽग्निः “दीद्यानः दीप्यमानः “यत् यदा “एति ऊर्ध्वं गच्छति तदा “दिवः द्युलोकस्य “अन्तान् पर्यन्तान् “कविः मेधावी सोऽग्निः “प्र “आनट् प्रकर्षेण व्याप्नोति । “अभ्रं मेघोपलक्षितमन्तरिक्षं च व्याप्नोति ॥
 
 
Line १०० ⟶ १०५:
मिन्वन् । सद्म । पुरः । एति ॥
 
"मानुषस्य यजमानस्य “यज्ञे यजनीये यागे “हव्या हव्यानि हवींषि “जुषत् सेवमानोऽग्निः “ऋभ्वा उरुभूतो बहुज्वालोपेतः “ऊर्ध्वस्तस्थौ उत्तिष्ठति । ऊर्ध्वं ज्वलतीत्यर्थः । अपि चायमग्निः प्राग्वंशादारभ्य “सद्म सदनं सौमिकी वेदिं “मिन्वन् परिच्छिन्दन् “पुरः पुरस्तादुत्तरवेदिशालामुखीयात् प्रणीयमानः सन् “एति गच्छति ॥
 
 
Line ११४ ⟶ १२०:
अग्निम् । देवाः । वाशीऽमन्तम् ॥
 
य उक्तगुणविशिष्टोऽग्निः । “हि इत्येतदवधारणे । “सः एवाग्निः “क्षेमः कुशलहेतुः । सर्वस्य परिपालनहेतुरित्यर्थः । “हविः पुरोडाशादिकं च स एव हविषस्तन्निमित्तत्वात् । “यज्ञः यागोऽपि स एव तस्यापि तद्धेतुत्वात् । किंच “श्रुष्टीत् क्षिप्रमेव “अस्य अग्नेः "गातुः गमनशीलोऽधिष्ठात्रात्मा “एति देवानामाह्वानार्थं गच्छति । गत्वा च प्रत्यागच्छन्तं “वाशीमन्तं स्तुतिलक्षणया वाचोपेतम् “अग्निं प्रति “देवाः अपि गच्छन्तीति शेषः ॥ ॥ २ ॥
 
 
Line १२८ ⟶ १३५:
अद्रेः । सूनुम् । आयुम् । आहुः ॥
 
अत्रैकवाक्यतायै यत्तच्छब्दावध्याहार्यौ । अपरार्धर्चः पूर्वं व्याख्येयः । “आयुं देवानामाह्वानार्थं दूत्येन गन्तारं यम् “अग्निम् “अद्रेः सूनुम् अश्मनः पुत्रम् “आहुः ‘त्वमद्भ्यस्त्वमश्मनस्परि' (ऋ. सं. २. १. १ ) इत्येवमादयो मन्त्रा वदन्ति । "यज्ञसहं यागस्य वोढारम् । धारयितारमित्यर्थः ।। तमग्निमभिलक्ष्य “दुवः परिचरणम् “इषे इच्छामि । किमर्थम् । “पूर्वस्य । अत्र पूर्वशब्द उत्कृष्टवाची । उत्कृष्टस्य “शेवस्य स्वर्गापवर्गलक्षणसुखस्य प्राप्त्यर्थमिति शेषः ॥
 
 
Line १४२ ⟶ १५०:
अग्निम् । हविषा । वर्धन्तः ॥
 
“नरः नेतारः “ये “के “च ये केचित् पुत्रपौत्रादयः “अस्मत् अस्माकं सन्ति । आकारः पूरकः । “ते पुत्रपौत्रादयः “वामे वननीये संभजनीये “विश्वेत् विश्वस्मिन्नेव पश्वादिधने “आ “स्युः आ समन्ताद्भवेयुः । उपविशेयुरित्याशास्महे । किं कुर्वन्तः । “अग्निम् अङ्गनादिगुणविशिष्टं देवं “हविषा पुरोडाशादिकेन “वर्धन्तः वर्धयन्तः ॥
 
 
Line १५६ ⟶ १६५:
हिरण्यऽरूपम् । जनिता । जजान ॥
 
अत्र यच्छब्दमध्याहृत्य योज्यम् । “यामः । याति गच्छत्यस्मिन्निति यामो रथः प्रजापतिना निर्मितः । कीदृशः । “कृष्णः असितवर्णः “श्वेतः सितवर्णः “अरुषः आरोचमानः “ब्रध्नः महान् “ऋज्रः ऋजुगामी “उत अपि च “शोणः रक्तवर्णः “यशस्वान् कीर्तिमान् । यद्वा । यश इति धननाम् । हविर्लक्षणेन धनेन युक्तः। “हिरण्यरूपं सुवर्णसदृशं तं रथम् “अस्य अग्नेरर्थाय “जनिता सर्वस्य जगतो जनयिता प्रजापतिः “जजान जनयामास । अस्मै दत्तवानित्यर्थः । कथमेकस्यैव रथस्य कृष्णादिनानारूपत्वं संभवतीति चेत् अग्नेः सामर्थ्यातिशयेन संभवतीत्यर्थः । यद्वा । हिरण्यरूपमिति रथवाचिना शब्देन सह सामानाधिकरण्यात् कृष्णादिशब्दा द्वितीयान्तत्वेन योज्याः । अत्र सर्वगुणोक्तरथवत्तयाग्निः स्तूयत इत्यर्थः ॥
 
 
Line १७० ⟶ १८०:
गिरः । आ । वक्षत् । सुऽमतीः । इयानः । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥
 
एवमुक्तप्रकारेण हे “ऊर्जो “नपात् ओषधिवनस्पतिपितृभूतस्यान्नस्य पौत्र हे “अग्ने “अमृतेभिः अमृतैर्हविर्लक्षणैरन्नैः “सजोषाः संगतः “विमदः नामर्षिः “मनीषां प्रकृष्टां बुद्धिं कामयमानः सन् “ते तुभ्यं “गिरः स्तुतिलक्षणा वाचः “आ “वक्षत् आभिमुख्येनोक्तवान् । वक्तेश्छन्दसि लेटि रूपम् । ततस्त्वमेतज्ज्ञात्वा “सुमतीरियानः शोभनलक्षणा बुद्धीः संगमयन “इषम् अन्नम् “ऊर्ज़ं क्षीरादिकं रसं च “सुक्षितिं शोभननिवासम् । यद्वा । क्षितयो मनुष्याः । शोभनपुत्रपौत्रादिकं यत्किंचित् देयमस्ति तत् “विश्वं धनं च “आभाः तस्मै विमदायाहर देहि ॥ ॥ ३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२०" इत्यस्माद् प्रतिप्राप्तम्