"ऋग्वेदः सूक्तं १०.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
</span></poem>
{{ऋग्वेदः मण्डल १०}}
 
== ==
{{सायणभाष्यम्|
‘आग्निं न' इत्यष्टर्चं पञ्चमं सूक्तमास्तारपङ्क्तिच्छन्दस्कम् । आद्यौ गायत्रौ पादौ ततो द्वौ जागतौ सास्तापङ्क्तिः । ऋषिदेवते पूर्ववत् । तथा चानुक्रान्तम्----’आग्निं नाष्टावास्तारपाङ्क्तम्' इति । पृष्ठ्यस्य चतुर्थेऽहनि ‘आग्निं न स्ववृक्तिभिरित्याज्यम्' (आश्व. श्रौ, ७. ११) इति । महाव्रत आग्निमारुते यावतीष्वृक्ष्विळान्दं साम स्तुवीरन् तदानीमादितस्तावत्य ऋचोऽनुरूपार्थाः । सूत्रितं च-’यदीळान्दं भूयसीषु चेत् स्तुवीरन्नाग्निं न स्ववृक्तिभिरिति तावतीनुरूपः' (ऐ. आ. ५. ३. २) इति ॥
पङ्क्तिः ४७:
यज्ञाय । स्तीर्णऽबर्हिषे । वि । वः । मदे । शीरम् । पावकऽशोचिषम् । विवक्षसे ॥
 
हे अग्ने “वः तव स्वभूते “विमदे एतदाख्य ऋषौ मयीयं स्तुतिः प्रवृत्तास्ति । “न इति संप्रत्यर्थे । अतो वयमिदानीं “स्ववृक्तिभिः स्वयंकृताभिर्दोषवर्जिताभिः स्तुतिभिः “होतारं देवानामाह्वातारं होमनिष्पादकं वा “अग्निं “त्वा त्वाम् “आ “वृणीमहे आभिमुख्येन संभजामहे । किमर्थम् । “स्तीर्णबर्हिषे यज्ञाय। तादर्थ्ये चतुर्थी । यज्ञार्थम् । कीदृशम् । “शीरम् ओषध्यादिषु सर्वत्रानुशायिनं “पावकशोचिषं शोधकदीप्तिम् । “विवक्षसे । महन्नामैतत् । हे अग्ने त्वमपि महान् भवसि । यद्वा । विमदे यज्ञस्य संबन्धिनः सोमस्य पानजन्यविविधमदार्थं त्वामावृणीमह इति योज्यम् ॥
 
 
Line ६१ ⟶ ६२:
वेति । त्वाम् । उपऽसेचनी । वि । वः । मदे । ऋजीतिः । अग्ने । आऽहुतिः । विवक्षसे ॥
 
“स्वाभुवः स्वप्रकाशेन दीप्यमानाः “अश्वराधसः व्याप्तधनाः “ते यजमानाः हे अग्ने “त्वामु त्वामेव “शुम्भन्ति शोभयन्ति । यज्ञे हविर्भिर्दीपयन्तीत्यर्थः । किंच “उपसेचनी तवोपरि क्षरणशीला “ऋजीतिः ऋजुगामिनी हूयमाना “आहुतिः हे “अग्ने “त्वां “वेति गच्छति । किमर्थम् । “वः तव “मदे मदनिमित्ते । तृप्त्यर्थमित्यर्थः । किंच त्वमपि “विवक्षसे महान् भवसि ॥
 
 
Line ७५ ⟶ ७७:
कृष्णा । रूपाणि । अर्जुना । वि । वः । मदे । विश्वाः । अधि । श्रियः । धिषे । विवक्षसे ॥
 
“धर्माणः यज्ञस्य धारयितार ऋत्विजः “जुहूभिः संपूर्णाहुतिभिर्होमपात्रैः “त्वे त्वामेव “आसते उपासते सेवन्ते । तत्र दृष्टान्तः । “सिञ्चतीरिव । वृष्टिलक्षणाः पृथिवीं सिञ्चन्त्य आपोऽग्निं यथा स्वपितृत्वेन सेवन्ते तद्वत् । अग्नेरापः' (तै. आ. ८.१ ) इति श्रुतेस्तस्यापां पितृत्वम् । यद्वा । जुहूभिः सिञ्चतीरिव सिच्यमाना आहुतय इव धर्माणस्त्वया धार्यमाणा रश्मयस्त्वे त्वय्यासते निवसन्ति । हे अग्ने त्वं “कृष्णा कृष्णवर्णानि “अर्जुना अर्जुनानि श्वेतवर्णानि ज्वालान्तर्गतरूपाणि च “विश्वाः सर्वाः “श्रियः शोभाः “अधि “धिषे अधिकं यथा भवति तथा धारयसि । किमर्थम् । “वः युष्माकं सर्वेषां देवानां “विमदे विविधसोमपानजन्यमदार्थम् । यत एवमतः “विवक्षसे त्वं महान् भवसि ॥
 
 
Line ८९ ⟶ ९२:
तम् । आ । नः । वाजऽसातये । वि । वः । मदे । यज्ञेषु । चित्रम् । आ । भर । विवक्षसे ॥
 
हे “अमर्त्य अमरणधर्मन् “सहसावन् बलवन् एवंभूत हे “अग्ने त्वं “यं “रयिं “मन्यसे सर्वेषु धनेषु यद्धनं वरिष्ठमिति जानासि “चित्रं चायनीयं “तं रयिं “नः अस्माकं “वाजसातये अन्नलाभाय “आ “भर आहर प्रयच्छ । किमर्थम् । “वः युष्माकं सर्वेषां देवानां “यज्ञेषु “विमदे विविधसोमादिहविर्जन्यमदनिमित्ते । यागेषु नानाप्रकारैर्हविर्भिर्युष्माकं तर्पणायेत्यर्थः । त्वमपि “विवक्षसे महान् भवसि ।।
 
 
Line १०३ ⟶ १०७:
भुवत् । दूतः । विवस्वतः । वि । वः । मदे । प्रियः । यमस्य । काम्यः । विवक्षसे ॥
 
“अथर्वणा एतन्नाम्नर्षिणा "जातः जनितः “अग्निः । कथमवगम्यते । ' त्वामग्ने पुष्करादध्यथर्वा निरमन्थत' (ऋ. सं. ६. १६. १३) इति मन्त्रान्तरात् । “विश्वानि समस्तानि "काव्या काव्यानि स्तोतृकर्माणि “विदत् वेत्ति । “विवस्वतः यजमानस्य “दूतः देवानामाह्वानार्थं “भुवत् भवति । किंच “यमस्य संयन्तुर्यजमानस्य “प्रियः इष्टः सन् “काम्यः कमनीयः प्रार्थनीयो भवतीत्यर्थः । शिष्टं स्पष्टम् ॥ ॥ ४ ॥
 
 
Line ११७ ⟶ १२२:
त्वम् । वसूनि । काम्या । वि । वः । मदे । विश्वा । दधासि । दाशुषे । विवक्षसे ॥
 
हे “अग्ने “त्वां “प्रयति प्रकर्षेण गच्छति प्रवर्तमाने “अध्वरे यागे “यज्ञेषु यजनीयेषु हविःष्वासन्नेषु सत्सु “ईळते ऋत्विग्यजमानाः स्तुवन्ति । अपि च हे अग्ने “त्वं “विश्वा विश्वानि “काम्या काम्यानि कमनीयानि “वसूनि धनानि “दाशुषे हविर्दत्तवते यजमानाय “विमदे सोमादिहविर्जन्यतृप्तौ सत्यां “दधासि प्रयच्छसि । अतः कारणात् "विवक्षसे त्वं महान् भवसि ॥
 
 
Line १३१ ⟶ १३७:
घृतऽप्रतीकम् । मनुषः । वि । वः । मदे । शुक्रम् । चेतिष्ठम् । अक्षऽभिः । विवक्षसे ॥
 
हे “अग्ने “त्वां मनुष्या यजमानाः “यज्ञेषु यागेषु “नि “षेदिरे नियमेन स्थापयन्ति । कीदृशम् । “ऋत्विजं होतृनामकं “चारु रमणीयं “घृतप्रतीकम् आज्याहुतिपूर्णमुखं “शुक्रं ज्वलन्तम् “अक्षभिः व्याप्तैस्तेजोभिः “चेतिष्ठम् अतिशयेन ज्ञातारम् । किमर्थम् । “वि “वो “मदे तव सोमादिहविर्जन्यविविधतृप्त्यर्थम् । यस्मादेवं तस्मात् “विवक्षसे महान् भवसि ॥
 
 
Line १४५ ⟶ १५२:
अभिऽक्रन्दन् । वृषऽयसे । वि । वः । मदे । गर्भम् । दधासि । जामिषु । विवक्षसे ॥
 
हे “अग्ने “बृहत् महांस्त्वं “शुक्रेण दीप्तेन “शोचिषा तेजसा “उरु “प्रथयसे विस्तीर्णं यथा भवति तथा प्रख्यातो भवसि । किंच “अभिक्रन्दन् आभिमुख्येन युद्धार्थं शत्रूनाह्वयन् “वृषायसे वृष इवाचरसि । युद्धकाले दर्पितवृष इव रोरुवद्भवसीत्यर्थः । त्वं माध्यमिकः सन् “जामिषु भगिनीभूतास्वोषधीषु “गर्भं बीजलक्षणं “दधासि वृष्टिद्वारेण धारयसि । एकस्मात् प्रजापतेः सकाशादुद्भूतत्वादन्योषध्योर्जामित्वमुपचर्यते । कस्मिन् सति । “वि “वो “मदे तव विविधसोमादिहविर्जन्यमदे संजाते सति । यस्मादेवं कृतवानसि तस्मात्त्वं “विवक्षसे महान् भवसि । विवक्षस इति महन्नाम वक्तेर्वा वहतेर्वा सनन्तस्य रूपमिति ॥ ॥ ५॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२१" इत्यस्माद् प्रतिप्राप्तम्