"ऋग्वेदः सूक्तं १०.२३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
</span></poem>
{{ऋग्वेदः मण्डल १०}}
== ==
 
{{सायणभाष्यम्|
' यजामहे' इति सप्तर्चं सप्तमं सूक्तम् । प्रथमासप्तम्यौ त्रिष्टुभौ । पञ्चम्यभिसारिणी । द्विर्दशकद्विर्वान्दशकवतीत्यभिसारिणीत्युच्यते । शिष्टाश्चतस्रो जगत्यः। पूर्ववदृषिदेवते। तथा चानुक्रान्तं--- ‘यजामहे सप्ताद्यान्त्ये त्रिष्टुभौ पञ्चम्यभिसारिणी' इति । चतुर्थेऽहनि माध्यंदिनसवने तृतीयापञ्चम्योरावर्तनेन त्रींस्तृचान् होत्रका एकैकं तृचमावपेरन् । सूत्रितं च -- यजामह इन्द्रं वज्रदक्षिणमिति द्वितीयानेवमेव ' ( आश्व. श्रौ. ७. ११ ) इति ॥
 
 
यजा॑मह॒ इंद्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानां ।
Line ४३ ⟶ ४४:
प्र । श्मश्रु । दोधुवत् । ऊर्ध्वऽथा । भूत् । वि । सेनाभिः । दयमानः । वि । राधसा ॥
 
वयम् “इन्द्रं “यजामहे सोमलक्षणैर्हविर्भिः पूजयामः । कीदृशम् । “वज्रदक्षिणं शत्रुवधाय सततं वज्रो दक्षिणे हस्ते यस्य तं “विव्रतानां रथवहनादिविविधकर्मणां “हरीणाम् एतत्संज्ञकानामश्वानां “रथ्यम् आनेतारम् । स इन्द्रः सोमपानानन्तरं “श्मश्रु स्वकीयानि श्मश्रूणि “दोधुवत् पुनःपुनः धुन्वानः सन् “ऊर्ध्वथा ऊर्ध्वं “प्र “भूत् प्रादुरभूत् । किंच “सेनाभिः मरुदादिस्वकीयैः सैन्यैः “वि “दयमानः विविधं शत्रून् हिंसन् 'राधसा । द्वितीयार्थे तृतीया। राधो धनम्। वीत्युपसर्ग श्रुतेर्योग्यक्रियाध्याहारः । विविधं स्तोतृभ्यो ददाति ॥
 
 
Line ५७ ⟶ ५९:
ऋभुः । वाजः । ऋभुक्षाः । पत्यते । शवः । अव । क्ष्णौमि । दासस्य । नाम । चित् ॥
 
“अस्य इन्द्रस्य संबन्धिनौ “या यौ “हरी अश्वौ “वने । वन्यन्ते संभज्यन्तेऽस्मिन् देवा इति वनं यज्ञोऽरण्यं वा । तस्मिन् “वसु ऋजीषलक्षणं धनं यवसलक्षणं वा “नु क्षिप्रं “विदे विन्देते लभेते । यद्वा । यौ हरी अस्येन्द्रस्य वने संभजनार्थं वसु वसुनो लाभाय क्षिप्रं भवत इति शेषः । ताभ्यां हरिभ्यां “मघैः धनैः “मघवा धनवान् “इन्द्रः “वृत्रहा वृत्राख्यस्यासुरस्य मेघस्य वा हन्ता “भुवत् भवति । अपि च “ऋभुः दीप्तः “वाजः बलवान् “ऋभुक्षाः महानिन्द्रः “शवः शवसो बलस्य धनस्य वा “पत्यते ईष्टे । यद्वा । शत्रूणां बलं प्रति पत्यते प्रतिपद्यते गच्छति । अहमपि तस्य प्रसादात् “दासस्य उपक्षपयितव्यस्य शत्रोः “नाम “चित् । नम्यतेऽनेनेति नाम शिरः। तदपि “अव “क्ष्णौमि अव हन्मि । किमुतान्यदङ्गम् । अथवा नामधेयमपि नाशयामि किमुत शत्रुम् ॥
 
 
Line ७१ ⟶ ७४:
आ । तिष्ठति । मघऽवा । सनऽश्रुतः । इन्द्रः । वाजस्य । दीर्घऽश्रवसः । पतिः ॥
 
"यदा इन्द्रः “हिरण्यं हितरमणीयं “वज्रं स्वकीयमायुधं शत्रुहननाय गृह्णातीति शेषः । “इत् इति पूरणः। “अथ तदानीम् “अस्य इन्द्रस्य “हरी अश्वौ “यं “रथं “वहतः गन्तृप्रदेशं विशेषण प्रापयतः “मघवा धनवान् “इन्द्रः “सूरिभिः स्तोतृभिः कुत्सादिभिः सह तं रथम् “आ “तिष्ठति आरोहति । कीदृशः । “सनश्रुतः चिरप्रख्यातः । जगति स्वभावत एव विख्यात इत्यर्थः । “दीर्घश्रवसः बहुकीर्तेः “वाजस्य अन्नस्य “पतिः स्वामी । एवंभूत इन्द्रस्तं रथमारोहतीत्यर्थः ॥
 
 
Line ८५ ⟶ ८९:
अव । वेति । सुऽक्षयम् । सुते । मधु । उत् । इत् । धूनोति । वातः । यथा । वनम् ॥
 
तच्छब्दश्रुतेर्यच्छब्दोऽध्याहर्तव्यः । या महती वृष्टिरस्ति “सो सा “वृष्टिः “नु क्षिप्रम् । “चित् इत्युपमार्थे। यथा सर्वं सिञ्चति तथा “इन्द्रः “स्वा स्वानि “यूथ्या यूथानि मरुदादिगणलक्षणानि “सचा सह स्वानि “श्मश्रूणि च “हरिता हरिद्वर्णेन सोमेन “अभि “प्रुष्णुते । ‘प्रुष प्लुष स्नेहनसेचनपूरणेषु' इति धातुः । आभिमुख्येन स्थित्वा क्षिप्रं सिञ्चति । सोमं पाययति पिबति चेत्यर्थः । अपि च “सुक्षयं शोभनं यज्ञगृहम् “अव “वेति अभिगच्छति । गत्वा च "सुते सोमे अभिषुते सति “मधु मधुररसोपेतं सोमं पीत्वा । मत्तः सन्निति शेषः। “उदिद्धूनोति स्वशरीरमुत्कम्पयति । तत्र दृष्टान्तः । “वातः वायुः “यथा “वनं वृक्षसमूहमुत्कम्पयति तद्वत् ॥
 
 
Line ९९ ⟶ १०४:
तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । यः । तविषीम् । ववृधे । शवः ॥
 
"यः इन्द्रः "वाचा वाङ्मात्रेणैव “विवाचः विविधवाचः स्वशत्रून् “मृधवाचः हिंसितवाचः। कृत्वेति शेषः । “पुरु पुरूणि बहूनि “अशिवा अशिवान्यसुखकराणि । दुःखकराणीत्यर्थः। “सहस्रा शत्रूणां सहस्राणि "जघान हन्ति । अपि च “यः च इन्द्रः “पितेव यथा पिता पुत्रस्य “तविषीं
बलमन्नप्रदानैः वर्धयति तथा वृष्टिद्वारेण सर्वस्य जगतः “शवः बलं “ववृधे वर्धयति “अस्य इन्द्रस्य “तत्तदित् तत्तदेव “पौंस्यं बलं “गृणीमसि वयं स्तुमः । इन्द्रो येन येन बलेन शत्रून् हन्ति तस्य तत्तद्बलं वयं स्तुम इत्यर्थः ॥
 
 
Line ११३ ⟶ १२०:
विद्म । हि । अस्य । भोजनम् । इनस्य । यत् । आ । पशुम् । न । गोपाः । करामहे ॥
 
हे “इन्द्र “ते तुभ्यं “सुदानवे शोभनदानस्यार्थाय “विमदाः विमदनामानो वयं “स्तोमं स्तोत्रविशेषम् “अजीजनन् जनितवन्तः । कृतवन्त इत्यर्थः । अत्र पूर्वोत्तरयोरेकवाक्ययोः पुरुषव्यत्ययः। कीदृशम् । “अपूर्व्यम् अपूर्वमन्यैः पूर्वमकृतम्। उत्कृष्टमित्यर्थः । पुरुतमं बहुतमम् । नानाप्रकारोपेतमित्यर्थः । “हि यस्मात्कारणात् हे इन्द्र “इनस्य ईश्वरस्य “अस्य ईदृशस्य तव “यत् “भोजनं धनमस्तीति “विद्म वयं जानीमः तस्मात् कारणात् त्वदीयं तद्धनम् “आ “करामहे वयमस्मदभिमुखं कुर्महे । तत्र दृष्टान्तः । “पशुं “न “गोपाः । यथा गोपालो धेनुमाह्वयन् स्वस्याभिमुखीं करोति तद्वत् ॥
 
 
Line १२७ ⟶ १३५:
विद्म । हि । ते । प्रऽमतिम् । देव । जामिऽवत् । अस्मे इति । ते । सन्तु । सख्या । शिवानि ॥
 
हे “इन्द्र “तव “च “विमदस्य “ऋषेः मम “च “नः । ‘अस्मदो द्वयोश्च' (पा. सू. १. २. ५९) इति द्वयोर्बहुवचनम् । आवयोः “एना एनानि “सख्या सख्यानि स्तुत्यस्तोतृत्वेज्ययष्टृत्वलक्षणानि सखिकर्माणि “माकिः “वि “यौषुः केचिदपि न विश्लथयेयुः। अपि च “हि यस्मात् कारणात् हे “देव द्योतमानेन्द्र “ते तव “प्रमतिं प्रकृष्टां मतिमनुग्राहिकां बुद्धिं “विद्म वयं जानीमः। तत्र दृष्टान्तः । “जामिवत् । यथा भ्राता स्वभगिन्यां स्नेहयुक्तां मतिं जानाति तद्वत् । तस्मात्कारणात् “अस्मे अस्माकं “ते तव च “सख्या सख्यानि “शिवानि “सन्तु मङ्गलानि भवन्तु । अनपायानीत्यर्थः ॥ ॥ ९ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२३" इत्यस्माद् प्रतिप्राप्तम्