"रामायणम्/युद्धकाण्डम्/सर्गः ३३" इत्यस्य संस्करणे भेदः
< रामायणम् | युद्धकाण्डम्
Content deleted Content added
{{Ramayana|युद्धकाण्ड}} '''श्रीमद्वाल्मीकियरामायणे युद... नवीन पृष्ठं निर्मीत अस्ती |
(भेदः नास्ति)
|
१६:२३, २० सेप्टेम्बर् २०११ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥६-३३॥
सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी । आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ।। ६-३३-१ मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ।। ६-३३-२ सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया । रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढ व्रता ।। ६-३३-३ सा ददर्श सखीम् सीताम् सरमा नष्ट चेतनाम् । उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ।। ६-३३-४ ताम् समाश्वासयाम् आस सखी स्नेहेन सुव्रता । उक्ता यद् रावणेन त्वम् प्रत्युक्तम् च स्वयम् त्वया ।। ६-३३-५ उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया । सखी स्नेहेन तद् भीरु मया सर्वम् प्रतिश्रुतम् ।। ६-३३-६ लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् । तव हेतोर् विशाल अक्षि न हि मे जीवितम् प्रियम् ।। ६-३३-७ स सम्भ्रान्तश च निष्क्रान्तो यत् कृते राक्षस अधिपः । तच् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ।। ६-३३-८ न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित आत्मनः । वधश्च पुरुष व्याघ्रे तस्मिन्न् एव उपपद्यते ।। ६-३३-९ न च एव वानरा हन्तुम् शक्याः पादप योधिनः । सुरा देव ऋषभेण इव रामेण हि सुरक्षिताः ।। ६-३३-१० दीर्घ वृत्त भुजह् श्रीमान् महा उरस्कह् प्रतापवान् । धन्वी सम्हनन उपेतो धर्म आत्मा भुवि विश्रुतः ।। ६-३३-११ विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च । लक्ष्मणेन सह भ्रात्रा कुशली नय शास्त्रवित् ।। ६-३३-१२ हन्ता पर बल ओघानाम् अचिन्त्य बल पौरुषः । न हतो राघवः श्रीमान् सीते शत्रु निबर्हणः ।। १३ अयुक्त बुद्धि कृत्येन सर्व भूत विरोधिना । इयम् प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।। ६-३३-१४ शोकस् ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् । ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति करम् शृणु ।। ६-३३-१५ उत्तीर्य सागरम् रामः सह वानर सेनया । सम्निविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ।। ६-३३-१६ दृष्टो मे परिपूर्ण अर्थः काकुत्स्थः सह लक्ष्मणः । सहितैः सागर अन्तस्थैर् बलैस् तिष्ठति रक्षितः ।। ६-३३-१७ अनेन प्रेषिता ये च राक्षसा लघु विक्रमः । राघवस् तीर्णैत्य् एवम् प्रवृत्तिस् तैर् इह आहृता ।। ६-३३-१८ स ताम् श्रुत्वा विशाल अक्षि प्रवृत्तिम् राक्षस अधिपः । एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।। ६-३३-१९ इति ब्रुवाणा सरमा राक्षसी सीतया सह । सर्व उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ।। ६-३३-२० दण्ड निर्घात वादिन्याः श्रुत्वा भेर्या महा स्वनम् । उवाच सरमा सीताम् इदम् मधुर भाषिणी ।। ६-३३-२१ सम्नाह जननी ह्य् एषा भैरवा भीरु भेरिका । भेरी नादम् च गम्भीरम् शृणु तोयद निस्वनम् ।। ६-३३-२२ कल्प्यन्ते मत्त मातम्गा युज्यन्ते रथ वाजिनः । तत्र तत्र च सम्नद्धाः सम्पतन्ति पदातयः ।। ६-३३-२३ तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः । आपूर्यन्ते राज मार्गाः सैन्यैर् अद्भुत दर्शनैः ।। ६-३३-२४ वेगवद्भिर् नदद्भिश्च तोय ओघैर् इव सागरः । शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ।। ६-३३-२५ रथ वाजि गजानाम् च भूषितानाम् च रक्षसाम् । सम्भ्रमो रक्षसामेष हृषितानाम् तरस्विनाम् ।। ६-३३-२६ प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् । वनम् निर्दहतो धर्मे यथा रूपम् विभावसोः ।। ६-३३-२७ घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् । हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् यथा ।। ६-३३-२८ उद्यत आयुध हस्तानाम् राक्षस इन्द्र अनुयायिनाम् । सम्भ्रमो रक्षसाम् एष तुमुलो लोम हर्षणः ।। ६-३३-२९ श्रीस् त्वाम् भजति शोकघ्नी रक्षसाम् भयम् आगतम् । रामात् कमल पत्र अक्षि दैत्यानाम् इव वासवात् ।। ६-३३-३० अवजित्य जित क्रोधस् तम् अचिन्त्य पराक्रमः । रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ।। ६-३३-३१ विक्रमिष्यति रक्षह्सु भर्ता ते सह लक्ष्मणः । यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ६-३३-३२ आगतस्य हि रामस्य क्षिप्रम् अन्क गताम् सतीम् । अहम् द्रक्ष्यामि सिद्ध अर्थाम् त्वाम् शत्रौ विनिपातिते ।। ६-३३-३३ अश्रूण्य् आनन्दजानि त्वम् वर्तयिष्यसि शोभने । समागम्य परिष्वक्ता तस्य उरसि महा उरसः ।। ६-३३-३४ अचिरान् मोक्ष्यते सीते देवि ते जघनम् गताम् । धृताम् एताम् बहून् मासान् वेणीम् रामो महा बलः ।। ६-३३-३५ तस्य दृष्ट्वा मुखम् देवि पूर्ण चन्द्रम् इव उदितम् । मोक्ष्यसे शोकजम् वारि निर्मोकम् इव पन्नगी ।। ६-३३-३६ रावणम् समरे हत्वा नचिराद् एव मैथिलि । त्वया समग्रम् प्रियया सुख अर्हो लप्स्यते सुखम् ।। ६-३३-३७ समागता त्वम् रामेण मोदिष्यसि महात्मना । सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ।। ६-३३-३८ गिरि वरम् अभितो अनुवर्तमानो । हय इव मण्डलम् आशु यः करोति । तम् इह शरणम् अभ्युपेहि देवि दिवस करम् प्रभवो ह्ययम् प्रजानाम् ६-३३-३९
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥६-३३॥