"रामायणम्/युद्धकाण्डम्/सर्गः ३९" इत्यस्य संस्करणे भेदः

{{Ramayana|युद्धकाण्ड}} '''श्रीमद्वाल्मीकियरामायणे युद... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०८:२४, २१ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥६-३९॥

ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः ।
लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ।। ६-३९-१

सम सौम्यानि रम्याणि विशालान्य् आयतानि च ।
दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ।। ६-३९-२

चम्पक अशोक पुम्नाग साल ताल समाकुला ।
तमाल वन संचन्ना नाग माला समावृता ।। ६-३९-३
हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः ।
तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ।। ६-३९-४
शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः ।
लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ।। ६-३९-५
विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः ।
शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ।। ६-३९-६

गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ।। ६-३९-७

तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् ।
वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ।। ६-३९-८

नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः ।
रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ।। ६-३९-९

नित्य मत्त विहम्गानि भ्रमर आचरितानि च ।
कोकिल आकुल षण्डानि विहग अभिरुतानि च ।। ६-३९-१०
भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च ।
कोणालक विघुष्टानि सारस अभिरुतानि च ।। ६-३९-११
विविशुस् ते ततस् तानि वनान्य् उपवनानि च ।
हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ।। ६-३९-१२

तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् ।
पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ।। ६-३९-१३

अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः ।
सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ।। ६-३९-१४

वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् ।
कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ।। ६-३९-१५

कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् ।
अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ।। ६-३९-१६

ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः ।
तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ।। ६-३९-१७

शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् ।
समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ।। ६-३९-१८
शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् ।
श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ।। ६-३९-१९
मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः ।

निविष्टा तत्र शिखरे लन्का रावण पालिता ।। ६-३९-२०
दशयोजनविस्तीर्णा विंशद्योजनमायता ।

सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः ।
कान्चनेन च सालेन राजतेन च शोभिता ।। ६-३९-२१

प्रासादैश् च विमानैश् च लन्का परम भूषिता ।
घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ।। ६-३९-२२

तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः ।
कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ।। ६-३९-२३
चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् ।
शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ।। ६-३९-२४

मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् ।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ।। ६-३९-२५
नानाविहगसम्घष्टाम् नानामृगनिषेविताम् ।
नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् ।। ६-३९-२६
ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः ।
रावणस्य पुरीम् रामो ददर्श सह वानरैः ।। ६-३९-२७

ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः ।
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८

ताम् रत्न पूर्णाम् बहु सम्विधानाम् ।
प्रासाद मालाभिर् अलम्कृताम् च ।
पुरीम् महा यन्त्र कवाट मुख्याम् ।
ददर्श रामो महता बलेन ।। ६-३९-२९

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥६-३९॥

संबंधित कड़ियाँ

बाहरी कडियाँ