"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६३:
</span></poem>
{{सायणभाष्यम्|
‘मध्वः' इति पञ्चविंशत्यृचं द्वितीयं सूक्तम् । औशिजस्य कक्षीवत आर्षं त्रैष्टुभमाश्विनम् । ‘मध्वः' इत्यनुक्रान्तम् ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥
 
 
मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वां ।
Line ७६ ⟶ ७८:
बर्हिष्मती । रातिः । विऽश्रिता । गीः । इषा । यातम् । नासत्या । उप । वाजैः ॥
 
हे अश्विनौ “मध्वः मधुना माधुर्योपेतेन “सोमस्य सोमेन “मदाय युवयोर्मदार्थं “प्रत्नः चिरंतनः “होता होमनिष्पादको यजमानः “वां युवाम् “आ “विवासते । विवासतिः परिचरणकर्मा । आङ् मर्यादायाम् । यथाशास्त्रं परिचरति । अपि च “रातिः दातव्यं हविः “बर्हिष्मती आस्तीर्णेन बर्हिषा युक्तम् । युष्मदर्थं बर्हिषि आसादितमित्यर्थः । तथा “गीः स्तुतिलक्षणा वाक् च “विश्रिता ऋत्विक्षु समवेता । तैः स्तुतिरपि क्रियते इत्यर्थः । अतो हे नासत्यावश्विनौ “इषा अस्मभ्यं दातव्येनान्नेन “वाजैः बलैश्च सह युवाम् “उप “यातम् अस्मत्समीपं प्राप्नुतम् ॥ मध्वः । ‘सुपा सुपो भवन्ति । इति तृतीयार्थे षष्ठी ।' जसादिषु च्छन्दसि वावचनम् ' इति • घेर्ङिति' इति गुणाभावे यणादेशः । मदाय । ‘मदी हर्षे ' । “ मदोऽनुपसर्गे ' इति अप् । रातिः । ‘रा दाने ' । कर्मणि क्तिन् । ‘मन्त्रे वृषेष ' इत्यादिना तस्योदात्तत्वम् । विश्रिता । ‘श्रिञ् सेवायाम् ' । कर्मणि निष्ठा ।' गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम् ।।
 
 
Line ९० ⟶ ९३:
येन । गच्छथः । सुऽकृतः । दुरोणम् । तेन । नरा । वर्तिः । अस्मभ्यम् । यातम् ॥
 
हे अश्विनौ “वां युवयोः स्वभूतः “मनसो “जवीयान् मनसोऽप्यतिशयेन वेगवान् “स्वश्वः शोभनाश्वः एवंभूतः “यः “रथः “विशः प्रजाः "आजिगाति अभिमुख्येन गच्छति । “येन रथेन “सुकृतः शोभनं यागं कुर्वतो यजमानस्य “दुरोणं देवयजनलक्षणं गृहं गच्छथः । हे “नरा नेतारावश्विनौ “तेन रथेन “अस्मभ्यम् अस्माकं “वर्तिः वर्तनाधिकरणं गृहं यातम् आगच्छतम् ॥ जवीयान् । जवोऽस्यास्तीति जववान् । तदस्यास्ति' इति मतुप् । ततः आतिशायनिकः ईयसुन् । विन्मतोर्लुक् । ‘टेः' इति टिलोपः । जिगाति । गा स्तुतौ । जौहोत्यादिकः । गतिकर्मसु पाठादत्र गत्यर्थः ।, ‘बहुलं छन्दसि' इति अभ्यासस्य इत्वम् ॥
 
 
Line १०४ ⟶ १०८:
मिनन्ता । दस्योः । अशिवस्य । मायाः । अनुऽपूर्वम् । वृषणा । चोदयन्ता ॥
 
‘हिमेनाग्निम् ' ( ऋ. सं. १. ११६. ८) इत्यनयोक्त एवार्थः पुनः प्रकारान्तरेण अनया प्रतिपाद्यते । अतस्तत्रोक्तं सर्वमत्रापि द्रष्टव्यम् । अक्षरार्थस्तु । हे "नरौ नेतारौ “वृषणा कामानां वर्षितारौ अश्विनौ “पाञ्चजन्यम् । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः । तेषु भवम् । स्वर्भानुना गृहीतममुं सूर्यं मोचयन अत्रिः सर्वेषां हिताचरणात् तत्रभवः इत्युच्यते । तादृशम् “ऋषिम् “अंहसः पापरूपात “ऋबीसात् शतद्वारे यन्त्रगृहे अत्रेः पीडार्थम् असुरैः प्रक्षिप्तात् तुषाग्नेः सकाशात् "गणेन इन्द्रियवर्गेण पुत्रपौत्रादिगणेन वा सह मुञ्चथः अमोचयतम् । किं कुर्वन्तौ । “मिनन्ता शत्रून् हिंसन्तौ "दस्योः उपक्षपयितुः “अशिवस्य दुःखकारिणः असुरस्य संबन्धिनीः तस्मिन् अत्रौ प्रयुक्ताः “मायाः च "अनुपूर्वम् अनुपूर्व्येण “चोदयन्ता प्रेरयन्तौ निवारयन्तौ ॥ पाञ्चजन्यम् । ‘बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् (का. ४. ३. ५८. १) इति भवार्थे ञ्यः । मिनन्ता । 'मीञ् हिंसायाम् । क्रैयादिकः। लटः शतृ । ‘मीनातेर्निगमे ' इति ह्रस्वत्वम् ॥
 
 
Line ११८ ⟶ १२३:
सम् । तम् । रिणीथः । विऽप्रुतम् । दंसःऽभिः । न । वाम् । जूर्यन्ति । पूर्व्या । कृतानि ॥
 
“नरा नेतारौ “वृषणा कामानां वर्षकौ हे अश्विनौ “दुरेवैः दुष्प्रापैरसुरैः "अप्सु कूपस्थेषूदकेषु "गूळ्हं निगूढं निखातं "रेभम् “ऋषिं कूपादुन्नीय “विप्रुतं विश्लिष्टावयवं “तम् अश्वं “न व्याधितमश्वमिव “दंसोभिः आत्मीयैः भैषज्यरूपैः कर्मभिः “सं “रिणीथः समधत्तम् । सर्वैरवयवैरुपेतमकुरुतमित्यर्थः । “वां युवयोः संबन्धीनि “पूर्व्या चिरंतनानि “कृतानि कर्माणि “न जूर्यन्ति न हि जीर्णानि भवन्ति ॥ दुरेवैः । दुरुपसृष्टात् एतेः “ ईषज्जुःसुषु' इति खल् । रिणीथः । ‘री गतिरेषणयोः । क्रैयादिकः । ‘प्वादीनां ह्रस्वः'। जूर्यन्ति। ‘जॄष् वयोहानौ' । दैवादिकत्वात् श्यन् ! ‘बहुलं छन्दसि' इति उत्वम् । हलि च' इति दीर्घः
 
 
Line १३२ ⟶ १३८:
शुभे । रुक्मम् । न । दर्शतम् । निऽखातम् । उत् । ऊपथुः । अश्विना । वन्दनाय ॥
 
निर्ऋतिरिति भूनाम । “निर्ऋतेः पृथिव्याः “उपस्थे उत्सङ्गे “सुषुप्वांसं सुप्तवन्तं पुरुषमिव कूपमध्ये शयानं “सूर्यं “न सूर्यमिव “तमसि कूपान्तर्गतान्धकारे “क्षियन्तं निवसन्तं सूर्यमिव तेजस्विनमित्यर्थः ६ । “शुभे शोभार्थं निर्मितं “रुक्मं न रोचमानं सुवर्णमयाभरणमिव “दर्शतं दर्शनीयम् एवंगुणविशिष्टं कूपे असुरैः "निखातं "वन्दनाय वन्दनमृषिं हे "दस्रा दर्शनीयावश्विनौ युवाम् "उदूपथुः उद्धृतवन्तौ ॥ सुषुप्वांसम् ।' ञिष्वप् शये '। लिटः क्वसुः । ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । द्विर्वचनादि । उपस्थे । उपपूर्वात् तिष्ठतेः ‘घञर्थे कविधानम् ' इत्यधिकरणे कप्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । वन्दनाय । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ ॥ १३ ॥
 
 
Line १४६ ⟶ १५३:
शफात् । अश्वस्य । वाजिनः । जनाय । शतम् । कुम्भान् । असिञ्चतम् । मधूनाम् ॥
 
हे नरा नेतारौ नासत्यावश्विनौ “परिज्मन् परिगमने अभीष्टस्य प्रापणे निमित्तभूते सति "पज्रियेण पज्राणाम् अङ्गिरसां कुले जातेन “कक्षीवता मया "वां युवयोः संबन्धि “तत् कर्म “शंस्यम् प्रकर्षेण शंसनीयम् । तच्छब्दश्रुतेः यच्छब्दाध्याहारः । यत् “जनाय अपेक्षमाणाय पुरुषाय "वाजिनः वेगवतः तदीयस्य “अश्वस्य “शफात्' निर्गतैः "मधूनां मधुभिः शतसंख्याकान् “कुम्भान् “असिञ्चतम् अपूरयतम् । सिञ्चतिरत्र पूरणार्थः । यदेतन्मधुना पूरणं तत् शंस्यम्' इत्यर्थः ॥
 
 
Line १६० ⟶ १६८:
घोषायै । चित् । पितृऽसदे । दुरोणे । पतिम् । जूर्यन्त्यै । अश्विनौ । अदत्तम् ॥
 
हे "नरा नेतारौ अश्विनौ "युवं युवां “स्तुवते स्तोत्रं कुर्वते "कृष्णियाय कृष्णाख्यस्य पुत्राय “विश्वकाय "विष्णाप्वं “ददथुः । विष्णाप्वं नाम विनष्टं पुत्रं दत्तवन्तौ । घोषानाम ब्रह्मवादिनी कक्षीवतो दुहिता । सा कुष्ठिनी सती कस्मैचिद्वराय अदत्ता पितृगृहे निषण्णा जीर्णा आसीत् । सो अश्विनोरनुग्रहात नष्टकुष्ठा सती पतिं लेभे। तदेतदाह । हे “अश्विनौ पित्रा संबद्धे "दुरोणे स्वकीयजनकगृहे कुष्ठरोगेण भर्तारमप्राप्य "पितृषदे पितृसमीपे निषण्णायै “जूर्यन्त्यै जरां प्राप्नुवत्यै “घोषायै “चित् एतत्संज्ञायै ब्रह्मवादिन्यै अपि रोगोपशमनेन “पतिं भर्तारम् “अदत्तं युवां दत्तवन्तौ ॥ पितृषदे । *षद्लृ विशरणादिषुः । क्विप् च ' इति क्विम्। जूर्यन्त्यै। ‘जॄष् वयोहानौ' । लटः शतृ । दिवादित्वात् श्यन् ।' बहुलं छन्दसि' इति उत्वम् ।' हलि च' इति दीर्घः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११७" इत्यस्माद् प्रतिप्राप्तम्