"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८३:
प्रऽवाच्यम् । तत् । वृषणा । कृतम् । वाम् । यत् । नार्सदाय । श्रवः । अधिऽअधत्तम् ॥
 
हे अश्विनौ “युवं युवां “श्यावाय कुष्ठरोगेण श्यामवर्णाय ऋषये “रुशतीं दीप्तत्वचं स्त्रियम् “अदत्तम् प्रयच्छतम् । अपि च “क्षोणस्य क्षोणाय यः दृष्टिराहित्येन गन्तुमशक्तः सन् एकस्मिन्नेव स्थाने निवसति तस्मै “कण्वाय ऋषये "महः तेजः तैजसं चक्षुरिन्द्रियम् अदत्तमिति शेषः । तथा हे “वृषणा कामानां वर्षितारौ "वां युवयोः “तत् “कृतं कर्म "प्रवाच्यं प्रकर्षेण वाचनीयं शंसनीयम् । “नार्षदाय नृषदः पुत्राय बधिराय ऋषये “श्रवः श्रवणेन्द्रियं “यत् “अध्यधत्तं दत्तवन्तौ स्थः इति यत् तदित्यर्थः । अपर आह । ब्राह्मण्यस्य परीक्षार्थमसुराः कण्वमृषिं गूढे तमसि निदधुः । अत्रैव स्थितः सन् व्युष्टामुषसं विजानीहि यदि त्वं ब्राह्मणोऽसीति । तमश्विनौ आगत्योचतुः । व्युष्टायां हर्म्यस्य उपरि वीणां वादयन्तौ आवाम् आगमिष्यावः । तं शब्दं श्रुत्वा व्युष्टामुषसं ब्रूहि । तदेतत्प्रतिपाद्यते । हे वृषणा कामानां वर्षितारावश्विनौ वां युवयोः तत्कृतं कर्म प्रवाच्यं प्रशंसनीयं यन्नार्षदाय नृषदः पुत्राय कण्वाय क्षोणस्य । क्षोणः शब्दकारी वीणाविशेषः । महः महतः क्षोणस्य श्रवः शब्दम् अध्यधत्तम् उषसो विज्ञानार्थम् अधिकम् अकुरुतम् ॥ महः । ‘मह पूजायाम्' । अस्मादौणादिकः असिप्रत्ययः । पक्षान्तरे तु महच्छब्दात् षष्येस्कवचने छान्दसः अल्लोप:।' बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम्। यद्वा । क्विबन्तात् षष्ठ्येकवचनम् । क्षोणस्य । ‘क्षि निवासगत्योः '।' कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट्। पृषोदरादित्वात् क्षोणभावः । तदुक्तं यास्केन- क्षोणस्य क्षयणस्य ' ( निरु. ६. ६) इति । पक्षान्तरे तु ' टुक्षु शब्दे ' इत्यस्मादौणादिकः नप्रत्ययः । नार्षदाय । 'ऋष्यन्धक ' इति अण् ॥
 
 
Line १९७ ⟶ १९८:
सहस्रऽसाम् । वाजिनम् । अप्रतिऽइतम् । अहिऽहनम् । श्रवस्यम् । तरुत्रम् ॥
 
हे अश्विनौ "पुरु पुरूणि बहूनि “वर्पांसि । रूपनामैतत् । आत्मीयैः कर्मभिः कृतानि रूपाणि “दधाना धारयन्तौ युवाम् “आशुं शीघ्रगामिनम् “अश्वं “पेदवे पेदुनाम्ने स्तुवते “नि "ऊहथुः नितरां प्रापितवन्तौ दत्तवन्तावित्यर्थः । कीदृशमश्वम् । “सहस्रसां सहस्रसंख्याकस्य धनस्य सनितारं दातारं “वाजिनं बलवन्तम् अत एव “अप्रतीतं शत्रुभिरप्रतिगतम् “अहिहनम् अहीनाम् आगत्य हन्तॄणां शत्रूणां शत्रून्वा हन्तारम् । “श्रवस्यम् । श्रवः श्रवणीयं स्तोत्रम् । तत्र भवम् । स्तुतिविषयमित्यर्थः । “तरुत्रं तरितारम् ॥ वर्पाँसि । वृञ् वरणे'। 'वृञ्शीभ्यांरूपस्वाङ्गयोः पुक्च' ( उ. सू. ४. ६४० ) इत्यसुन् पुगागमश्च । दधाना । दधातेर्लटः शानच् । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सहस्रसाम् ।' षणु दाने '। ‘जनसनखन ' इति विट् । ‘विड्वनोरनुनासिकस्यात्' इति आत्वम् । श्रवस्यम् । श्रवःशब्दात् ‘ भवे छन्दसि ' इति यत् । तित्स्वरितः । तरुत्रम् । ‘तॄ प्लवनतरणयोः'।' अशित्रादिभ्य इत्रोत्रौ ' ( उ. सू. ४. ६१२ ) इति उत्रप्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । ' ग्रसितस्कभित° ' इत्यादौ निपातनात् तृनन्तात् तरुतृशब्दात् अमि संज्ञापूर्वकस्य विधेः अनित्यत्वात् गुणाभावे यण् । नित्स्वरेणाद्युदात्तत्वम् ॥ .
 
 
Line २११ ⟶ २१३:
यत् । वाम् । पज्रासः । अश्विना । हवन्ते । यातम् । इषा । च । विदुषे । च । वाजम् ॥
 
हे “सुदानू शोभनदानौ अश्विनौ “वां युवयोः संबन्धीनि “एतानि समनन्तरोक्तानि वीर्याणि “श्रवस्या श्रवणीयानि सर्वैर्ज्ञातव्यानि भवन्ति । तदर्थं “रोदस्योः द्यावापृथिव्यात्मना वर्तमानयोः युवयोः । उक्तं च यास्केन -- तत्कावश्विनौ द्यावापृथिव्यावित्येके ' ( निरु. १२. १ ) इति । तथा च तैत्तिरीयकम्- इमे अश्विना संवत्सरोऽग्निर्वैश्वानरः ' ( तै. सं. ५, ६, ४. १) इति । तयोः युवयोः “सदनं स्तोतृसमीपे निवेशनं प्रसादनहेतुभूतं वा “आङगूषम् आघोषणीयं “ब्रह्म मन्त्ररूपं स्तोत्रं निष्पन्नमिति शेषः । “यत् यदा “पज्रासः अङ्गिरसां गोत्रोत्पन्ना यजमाना हे अश्विनौ “वां युवां “हवन्ते स्तुतिभिः आत्मरक्षणार्थम् आह्वयन्ति तदानीम् “इषा दातव्येनान्नेन सह आ “यातम् आगच्छतं “च “विदुषे युष्मद्विषयं स्तोत्रं जानते मह्यं च “वाजम् अन्नं बलं वा प्रयच्छतमिति शेषः॥ यातम् । चवायोगे प्रथमा ' इति निघातप्रतिषेधः । विदुषे ।' विद ज्ञाने '। ‘विदेः शतुर्वसुः ।। ‘वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् ॥ ॥ १४ ॥
 
 
Line २२५ ⟶ २२८:
अगस्त्ये । ब्रह्मणा । ववृधाना । सम् । विश्पलाम् । नासत्या । अरिणीतम् ॥
 
“भुरणा भर्तारौ पोषकौ “नासत्या सत्यस्वभावौ हे अश्विनौ “सूनोः कुम्भात् प्रसूतस्य अगस्त्यस्य खेलपुरोहितस्य संबन्धिना “मानेन स्तुत्यस्य परिच्छेदकेन स्तोत्रेण “गृणाना स्तूयमानौ “विप्राय मेधावने भरद्वाजाय ऋषये “वाजम् अन्नं “रदन्ता विलिखन्तौ निष्पादयन्तौ युवां “विश्पलां संग्रामे छिन्नजङ्घां खेलस्य संबन्धिनीं स्त्रियं “सम् “अरिणीतं पुनः आयस्या जङ्या समयोजयतम् । तृतीयेन पादेन प्रथमपादोक्तोऽर्थो विव्रियते । “अगस्त्ये ऋषौ “ब्रह्मणा मन्त्ररूपेण स्तोत्रेण “ववृधाना प्रवर्धितौ इति ॥ गृणाना । गॄ शब्दे'। व्यत्ययेन कर्मणि कर्तृप्रत्ययः । प्वादीनां ह्रस्वः । भुरणा । ‘भुरण धारणपोषणयोः '। कण्ड्वादिः । पचाद्यच् । अतोलोपयलोपौ । ‘सुपां सुलुक्' इति विभक्तेराकारः। आमन्त्रितनिघातः । विप्राय' इत्यस्य भुरणेत्यनेन असामर्थ्यात् न पराङ्गवत्वम् । ववृधाना । वृधेर्लिटः कानच् । संहितायां छान्दसमभ्यासस्य दीर्घत्वम् । तुजादित्वे हि तूतुजान इतिवत् पदकालेऽपि स्यात् । अरिणीतम् । “ री गतिरेषणयोः'। क्रैयादिकः । प्वादीनां ह्रस्वः ॥
 
 
Line २३९ ⟶ २४३:
हिरण्यस्यऽइव । कलशम् । निऽखातम् । उत् । ऊपथुः । दशमे । अश्विना । अहन् ॥
 
पुरा खलु उषनसः स्तुति गच्छन्तावश्विनौ मार्गमध्ये कूपे पतितं रेभं दृष्ट्वा तं कूपादुदतारयताम् । तदानीम् अश्विभ्यां गन्तव्यं काव्यस्य निवासस्थानम् अजानन् ऋषिः अश्विनौ पृच्छति। हे “दिवो नपाता द्योतमानस्य सूर्यस्य पुत्रौ “वृषणा कामाभिवर्षकौ अश्विनौ “कुह कुत्र “शयुत्रा शयने निवासस्थाने वर्तमानस्य “काव्यस्य भार्गवस्य सुष्टुतिं शोभनां स्तुतिं श्रोतुं “यान्ता गच्छन्तौ । यद्वा । शयुत्रा इत्येतत् अश्विनोर्विशेषणम् । शयुनाम्नस्त्रायकौ युवाम् । “हिरण्यस्येव “कलशं यथा हिरण्यपूरितं कलशं भूम्यां निक्षिप्तं सर्वैः दुर्ज्ञातं कश्चिदभिज्ञः उद्धरति एवमसुरैः कूपे “निखातं दश रात्रीः नवाहानि च तत्रैव निवसन्तं रेभमवगत्य “दशमे अहन् अहनि “उदूपथुः कूपात उन्नीतवन्तौ । किं तन्निवासस्थानमिति प्रश्नः । रेभस्य अनुक्तावपि ' दश रात्रीरशिवेन ' ( ऋ. सं. १. ११६. २४ ) इति मन्त्रान्तरसामर्थ्यात् प्रतीतिः । यद्वा । काव्यस्य स्तुतिं प्रति गच्छन्तौ युवां कुह कस्मिन् स्थाने रेभं युवाम् उन्निन्यथुः इति प्रश्नः ॥ कुह ।' वा ह च च्छन्दसि ' इति सप्तम्यर्थे हप्रत्ययः । दिवो नपाता । ‘सुबामन्त्रिते पराङ्गवत्स्वरे' इति पराङ्गवद्भावेन षष्य्यन्तस्य आमन्त्रितानुप्रवेशात् ‘आमन्त्रितस्य च' इति पदद्वयसमुदायस्य षाष्ठिकमाद्युदात्तत्वम् । पादादित्वात् आष्टमिकनिघाताभावः । नपात् इति अपत्यनाम । न पातयतीति नपात् । नभ्राण्नपात्' इति नञः प्रकृतिभावः । ‘सुपां सुलुक्' इति विभक्तेराकारः । शयुत्रा । अशित्रादिभ्य इत्रोत्रौ ' इति शीङ उत्रः । यदि अन्तोदात्तता न स्यात् तर्हि एवम् ।। शयुं त्रायेते इति शयुत्रौ । ‘त्रैङ् पालने'।' आदेचः' इति आत्वम् । अतोऽनुपसर्गे कः । अत एव व्युत्पत्त्यनवधारणात् अनवग्रहः । निखातम् । खनु अवदारणे । अस्मात्कर्मणि निष्ठा । ‘यस्य विभाषा ' इति इट्प्रतिषेधः । ‘जनसनखनां सञ्झलोः' इति आत्वम् ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अहन् । ‘सुपां सुलुक्' इति सप्तम्या लुक्। 'न ङिसंबुद्धयोः' इति नलोपप्रतिषेधः॥
 
 
Line २५३ ⟶ २५८:
युवोः । रथम् । दुहिता । सूर्यस्य । सह । श्रिया । नासत्या । अवृणीत ॥
 
हे अश्विनौ “युवं युवां “शचीभिः आत्मीयैः भैषज्यलक्षणैः कर्मभिः “जरन्तं जीर्यन्तं “च्यवानं स्तुतीनां च्यावयितारम् एतत्संज्ञं ऋषिं “युवानं पुनर्यौवनोपेतं “चक्रथुः कृतवन्तौ । अपि च हे नासत्यौ अश्विनौ “युवोः युवयोः “रथं सूर्यस्य "दुहिता सूर्याख्या “श्रिया सह ऋक्सहस्ररूपया' संपदा कान्त्या वा सह “अवृणीत समभजत आगत्यारूढवतीत्यर्थः । ‘आ वां रथं दुहिता ' ( ऋ. सं. १. ११६. १७ ) इत्यत्र लिखितमाख्यानम् अत्रापि द्रष्टव्यम् ॥ जरन्तम् । “ जॄष् वयोहानौ' । व्यत्ययेन शप् । युवोः । युष्मच्छब्दात् षष्ठीद्विवचने व्यत्ययेन ' योऽचि' इति यत्वाभावे सति ‘शेषे लोपः' इति दकारलोपः। अतो गुणे' इति पररूपत्वम् । ‘एकादेश उदात्तेनोदात्तः'। अवृणीत । ‘वृङ् संभक्तौ ' । क्रैयादिकः ॥
 
 
Line २६७ ⟶ २७३:
युवम् । भुज्युम् । अर्णसः । निः । समुद्रात् । विऽभिः । ऊहथुः । ऋज्रेभिः । अश्वैः ॥
 
हे "युवाना दुःखानां यावयितारौ अश्विनौ "युवं युवां “पूर्व्येभिः । पुराणनामैतत् । पूर्वकालीनैः चिरंतनैः “एवैः स्तुत्यं प्रति गन्तृभिः स्तोत्रैः "तुग्राय भुज्योर्जनकस्य संबन्धिभिः “पुनर्मन्यौ यथा भुज्योः समुद्रगमनापूर्वं युवां स्तोतव्यौ तथा पुनरपि इदानीं स्तोतव्यौ "अभवतम् । यदा युवां समुद्रमध्ये सेनया सह निमग्नं “भुज्युं तुग्रस्य पुत्रम् “अर्णसः अर्णस्वतः प्रौढोदकयुक्तात् "समुद्रात् अम्बुराशेः सकाशात् “विभिः गन्तृभिः नौभिः “ऋज्रेभिः शीघ्रगतियुक्तैः “अश्वैः च "निरूहथुः निर्गमय्य पितृसमीपं प्रापितवन्तौ तदानीं पुनरप्यतिशयेन स्तोतव्यौ जातावित्यर्थः । ‘तुग्रो ह भुज्युम्' (ऋ. सं. १.११६. ३) इत्यत्रोक्तमाख्यानम् अत्राप्यनुसंधेयम् ॥ एवैः । इण् गतौ'। ‘इण्शीङ्भ्यां वन्' । पुनर्मन्यौ ।' मन ज्ञाने '। अत्र स्तुत्यर्थः । मन्यते स्तौति इति मना स्तुतिः । पचाद्यच् । ‘छन्दसि च' इति अर्हार्थे यः । युवाना । 'यु मिश्रणामिश्रणयोः '।' कनिन्युवृषि' ' इत्यादिना कनिन् । ‘सुपां सुलुक्' इति विभक्तेराकारः । अर्णसः । अर्णःशब्दादुत्पन्नस्य मत्वर्थीयस्य ‘बहुलं छन्दसि ' इति बहुलग्रहणाल्लोपः । विभिः। सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति विभक्त्युदात्तस्य विकल्पनात् अभावः । ऋज्रेभिः । ऋज गतिस्थानार्जनोपार्जनेषु'। 'ऋज्रेन्द्र' इत्यादौ रन्प्रत्ययान्तो निपातितः । ‘बहुलं छन्दसि ' इति भिस ऐसभावः ॥
 
 
Line २८१ ⟶ २८८:
निः । तम् । ऊहथुः । सुऽयुजा । रथेन । मनःऽजवसा । वृषणा । स्वस्ति ॥
 
हे अश्विनौ “वां युवां “तौग्र्यः तुग्रपुत्रः “प्रोळ्हः पित्रा प्रापितः “समुद्रम् अब्धिं जगन्वान भुज्युः उदके निमग्नोऽपि “अव्यथिः व्यथां पीडाम् अप्राप्त एव सन् "अजोहवीत् स्तुतिभिराह्वयत् । “तम् आह्वातारं हे “मनोजवसा मनोवद्वेगयुक्तौ “वृषणा कामाभिवर्षकावश्विनौ "सुयुजा सुष्ठ्वैश्वर्ययुक्तेन “रथेन "स्वस्ति क्षेमं यथा भवति तथा “निरूहथुः । जलान्निर्गमय्य युवां पितृगृहं प्रापितवन्तौ ॥ जगन्वान् । गमेर्लिटः क्वसुः । ‘विभाषा गमहनविदविशाम्' इति विकल्पनात् इडभावः । ‘भ्वोश्च' इति मकारस्य नकारः । निष्टम् । ‘युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति मूर्धन्यः । मनोजवसा । मनसो जव इव जवो ययोः तौ तथोक्तौ । ‘सुपां सुलुक्' इति विभक्तेराकारः । पादादित्वात् आमन्त्रितनिघाताभावे षाष्ठिकमाद्युदात्तत्वम् ॥ ॥ १५ ॥
 
 
Line २९५ ⟶ ३०३:
वि । जयुषा । ययथुः । सानु । अद्रेः । जातम् । विष्वाचः । अहतम् । विषेण ॥
 
'आस्नो वृकस्य ' (ऋ. सं. १. ११६. १४ ) इत्यर्धर्चे यदुक्तं तदत्र पूर्वार्धेन प्रतिपाद्यते । “वर्तिका चटकसदृशस्य पक्षिणः स्त्री वृकेण अरण्यशुना ग्रस्ता सती हे अश्विनौ “वां युवां तदा "अजोहवीत् आहूतवती “यत्सीं यदा खलु “वृकस्य “आस्नः आस्यात् "अमुञ्चतं वर्तिकाम् अमोचयतम् । अपि च युवां "जयुषा जयशीलेन रथेन “अद्रेः पर्वतस्य "सानु समुच्छ्रिप्रदेशं "वि “ययथुः शत्रुभिरावेष्टितं “जाहुषाख्यं स्तोतारं शत्रुसमूहान्निर्गमय्य तेन सह अन्यैर्गन्तुमशक्यं पर्वताग्रं गन्तवन्तावित्यर्थः । तदुक्तं ' परिविष्टं जाहुषम् ' (ऋ. सं. १. ११६. २०) इत्यत्र । तथा “विष्वाचः विविधगतियुक्तस्य एतत्संज्ञस्य असुरस्य "जातम् उत्पन्नमपत्यं “विषेण क्ष्वेडेन “अहतं युवां हतवन्तौ । यद्वा । वर्तते प्रतिदिवसमावर्तते इति वर्तिका उषाः । वृक इति विवृतज्योतिष्कः सूर्य उच्यते । तेन ग्रस्ता सती सा हे अश्विनौ युवाम् अजोहवीत् आह्वयत् । यदा खलु युवां वृकस्य सूर्यस्य आस्नः आस्यस्थानीयान्मण्डलात् अमुञ्चतम् अमोचयतम् । सूर्येण एकीभूतामुषसं पृथक्कृत्य उदयात्पूर्वं रात्रेरपरभागे स्थापितवन्तावित्यर्थः । तथा च यास्कः- “ आदित्योऽपि वृक उच्यते यदावृङ्क्ते । आह्वयदुषा अश्विनावादित्येनाभिग्रस्ता तामश्विनौ प्रमुमुचतुरित्याख्यानम् ' ( निरु. ५. २१ ) इति । अपि च जयुषा जयशीलेन रथेन अद्रेर्मेघस्य सानु समुच्छ्रितप्रदेशं वृष्टिचिकीर्षया विशेषेण ययथुः युवां गतवन्तौ । गत्वा च विष्वाचो विविधगतियुक्तस्य मेघस्य संबन्धिना विषेणोदकेन जातमुत्पन्नं सर्वं भूतजातम् अहतम् अगमयतं वृष्टिं कृतवन्तावित्यर्थः ।। अजोहवीत् । ह्वयतेर्यङ्लुगन्तात् लङि तिपि ‘यङो वा ' इति ईडागमः । ‘अभ्यस्तस्य च ' इति द्विर्वचनात्पूर्वमेव ह्वयतेः संप्रसारणम् । आस्नः । ‘पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । ‘अल्लोपोऽनः' इति अकारलोपः। जयुषा । ‘जि जये । औणादिकः उसिप्रत्ययः । विश्वाचः । विषु नाना आभिमुख्येन अञ्चति इति विग्रहः । ‘ऋत्विक् ' इत्यादिना क्विन् । ' अचः' इत्यकारलोपः । “चौ ' इति दीर्घः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वे प्राप्ते ‘चौ ' इत्यन्तोदात्तत्वम् । अहतम् । ‘हन हिंसागत्योः । लङि अदादित्वात् शपो लुक् । अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः ।।
 
 
Line ३०९ ⟶ ३१८:
आ । अक्षी इति । ऋज्रऽअश्वे । अश्विनौ । अधत्तम् । ज्योतिः । अन्धाय । चक्रथुः । विऽचक्षे ॥
 
‘शतं मेषान्वृक्ये चक्षदानम् ' ( ऋ. सं. १. ११६. १६ ) इत्यत्र यदाख्यानमवादिष्म तदत्राप्यनुसंधेयम् । “शतं शतसंख्याकान् “मेषान “वृक्ये वृकीरूपेणावस्थिताय अश्विनोर्वाहनाय रासभाय “ममहानं पूजितवन्तम् आहारार्थं समर्पितवन्तम् “अशिवेन असुखकारिणा “पित्रा स्वकीयेन जनकेन “तमः दृष्टिराहित्येन कृतम् आन्ध्यं “प्रणीतं प्रापितम् ऋज्राश्वं चक्षुष्मन्तम् अश्विनावकुरुतामिति शेषः । एतदेव विशदयति । हे “अश्विनौ “अक्षी पितृशापान्नष्टे चक्षुषी “ऋज्राश्वे एतत्संज्ञके राजर्षौ “आ “अधत्तं पुनर्दर्शनसमर्थे अकुरुतम् । एतदेवाह । “अन्धाय दृष्टिहीनाय “ज्योतिः प्रकाशकं चक्षुः “विचक्षे विविधं जगत् द्रष्टुं “चक्रथुः युवां कृतवन्तौ ॥ ममहानम् ।' मह पूजायाम् ' । लिटः कानच् । संहितायां छान्दसमभ्यासस्य दीर्घत्वम् । प्रणीतम् । प्रपूर्वान्नयतेः कर्मणि निष्ठा । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पित्रा । ‘उदात्तयणः' इति विभक्तेरुदात्तत्वम् । अक्षी । अक्षिशब्दात् द्विवचने नुमागमश्च प्राप्नोति ‘ई च द्विवचने' इति ईकारान्तादेशश्च । परत्वादीकारादेशः । कृते तस्मिन् सकृद्गतपरिभाषया पुनर्नुम् न भवति । ‘उदात्त' इत्युनुवृतेः ईकारस्योदात्तत्वम् ॥
 
 
Line ३२३ ⟶ ३३३:
जारः । कनीनःऽइव । चक्षदानः । ऋज्रऽअश्वः । शतम् । एकम् । च । मेषान् ॥
 
“शुनम् इति सुखनाम । “भरं पोषणहेतुभूतं चक्षुरिन्द्रियेण निष्पाद्यं सुखम् “अन्धाय दृष्टिहीनाय तस्मै ऋज्राश्वाय इच्छन्ती “सा “वृकीः हे अश्विनौ अश्वयुक्तौ कृत्स्नं जगत् व्याप्नुवन्तौ वा “वृषणा हे वृषणौ कामानां वर्षितारौ “इति एवं संबोध्य “नरा नेतारौ अश्विनौ "अह्वयत् आहूतवती । आह्वयन्त्यास्तस्याः कोऽभिप्राय इति चेत् तदुच्यते । “कनीनइव यथा प्राप्तयौवनः कामुकः “जारः पारदारिकः सन् परस्त्रियै सर्वं धनं प्रयच्छति एवम् “ऋज्राश्वः मह्यं “शतमेकं च एकोत्तरशतसंख्याकान् “मेषान् पौरजनानां स्वभूतानपहृत्य “चक्षदानः शकलीकुर्वन् प्रादात् । तेन ईदृशीं दुर्दशां प्राप्तः इति ॥ कनीनः । युवशब्दात् इष्टनि “ युवाल्पयोः कनन्यतरस्याम् ' ( पा. सू. ५. ३. ६४ ) इति युवशब्दस्य कन्नादेशः । व्यत्ययेन इष्ठनः खादेशः । यद्वा । ‘कन दीप्तिकान्तिगतिषु'। अस्मादौणादिक ईनप्रत्ययः ॥
 
 
Line ३३७ ⟶ ३४८:
अथ । युवाम् । इत् । अह्वयत् । पुरम्ऽधिः । आ । अगच्छतम् । सीम् । वृषणौ । अवःऽभिः ॥
 
हे अश्विनौ “वां युवयोः “मही महती “ऊतिः पालनं “मयोभूः मयसः सुखस्य भावयित्री । “उत अपि च हे “धिष्ण्या । धिषणा स्तुतिलक्षणा वाक् । तया स्तोतव्यौ “स्रामं व्याधितं पुरुषं विश्लिष्टाङ्गम् अत्र्यादिकं “सं "रिणीथः संगतावयवं कुरुथः। “अथ अपि च युवामित् युवामेव “पुरंधिः बहुधीः घोषा विश्पला वा अह्वयत् रोगोपशमनार्थम् आहूतवती । हे “वृषणौ कामानां वर्षितारौ अश्विनौ “अवोभिः रक्षणैः सह “आगच्छतम् आभिमुख्येन “सीम् एनां प्राप्तवन्तौ ॥ मही महती । छान्दसो वर्णलोपः । यद्वा । महेरौणादिक इन् । 'कृदिकारादक्तिनः' इति ङीष् । मयोभूः । भवतेरन्तर्भावितण्यर्थात् क्विप् । रिणीथः । ‘री गतिरेषणयोः'। क्रैयादिकः ।' प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् ॥
 
 
Line ३५१ ⟶ ३६३:
युवम् । शचीभिः । विऽमदाय । जायाम् । नि । ऊहथुः । पुरुऽमित्रस्य । योषाम् ॥
 
हे “दस्रा दर्शनीयौ अश्विनौ “विषक्तां विशेषेण सक्तावयवां कृशावयवामित्यर्थः। अत एव “स्तर्यं निवृत्तप्रसवाम् अत एव “अधेनुम् अदोग्ध्रीम् एवंभूतां “गां “शयवे एतत्संज्ञाय ऋषये “अपिन्वतं पयसा अपूरयतम् । अपि च "पुरुमित्रस्य । पुरुमित्रो नाम कश्चिद्राजा । तस्य “योषां कुमारीं “शचीभिः आत्मीयैः कर्मभिः “विमदाय एतत्संज्ञाय ऋषये शत्रुभिः सह योद्धुमशक्ताय युवां “न्यूहथुः विमदस्य गृहं प्रापितवन्तौ ॥ स्तर्यम् । ‘स्तृञ् आच्छादने '। अवितॄस्तृतन्त्रिभ्य ईः' इति ईकारप्रत्ययः । ‘वा छन्दसि' इति अमि पूर्वस्य विकल्पनादभावे यणादेशः । ‘उदात्तस्वरितयोर्यण:०' इति परस्यानुदात्तस्य स्वरितत्वम् । विषक्ताम् । ‘षञ्ज सङ्गे'। कर्मणि निष्ठा । अनिदिताम् । इति नलोपः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अपिन्वतम् । ‘पिवि सेचने ' । इदित्त्वात् नुम् । भौवादिकः । पुरुमित्रस्य । पुरूणि मित्राणि यस्य । ' संज्ञायां मित्राजिनयोः । (पा. सू. ६. २. १६५) इति बहुव्रीहौ उत्तरपदान्तोदात्तत्वम् ॥ ॥ १६ ॥
 
 
Line ३६५ ⟶ ३७८:
अभि । दस्युम् । बकुरेण । धमन्ता । उरु । ज्योतिः । चक्रथुः । आर्याय ॥
 
“आर्याय विदुषे । मनुषशब्दो मनुशब्दपर्यायः। “मनुषाय मनवे मनोरर्थं हे "दस्रा दर्शनीयावश्विनौ “वृकेण लाङ्गलेन कर्षकैः कृष्टदेशे “यवं यवाद्युपलक्षितं सर्वं धान्यजातं “वपन्ता वापयन्तौ तथा “इषम् । अन्ननामैतत् । तत्कारणभूतं वृष्टयुदकं च दुहन्ता मेघात् क्षारयन्तौ तथा “दस्युम् उपक्षयकारिणमसुरपिशाचादिकं “बकुरेण । बकुरो भासमानो वज्रः । तेन “अभि “धमन्ता । धमतिर्वधकर्मा। अभिघ्नन्तौ एवं त्रिविधं कर्म कुर्वन्तौ युवाम् “उरु विस्तीर्णं “ज्योतिः स्वकीयं तेजो माहात्म्यं “चक्रथुः कृतवन्तौ दर्शितवन्तावित्यर्थः । यद्वा । त्रिविधकर्माचरणेनार्याय विदुषे मनवे विस्तीर्णं सूर्याख्यं ज्योतिश्चक्रथुः कृतवन्तौ । जीवन् हि सूर्यं पश्यति । तद्धेतुभूतानि त्रीणि कर्माणि युवाभ्यां कृतानि इति भावः । अत्र निरुक्तं-- बकुरो भास्करो भयंकरो भासमानो द्रवतीति वा '। ‘यवमिव वृकेणाश्विनौ निवपन्तौ वृको लाङ्गलं भवति विकर्तनात् '(निरु. ६. २५-२६ ) इत्यादिकमनुसंधेयम् ॥ मनुषाय । मनेरौणादिक उषन्प्रत्ययः ।।
 
 
Line ३७९ ⟶ ३९३:
सः । वाम् । मधु । प्र । वोचत् । ऋतऽयन् । त्वाष्ट्रम् । यत् । दस्रौ । अपिऽकक्ष्यम् । वाम् ॥
 
‘तद्वां नरा सनये' (ऋ. सं. १. ११६. १२) इत्यत्रोक्तमाख्यानमिहाप्यनुसंधेयम् । हे अश्विनौ “आथर्वणाय अथर्वणः पुत्राय “दधीचे दध्यङ्नाम्ने महर्षये “अश्व्यम् अश्वसंबन्धि “शिरः “प्रत्यैरयतं प्रत्यधत्तम् । तदीयं मानुषं शिरः प्रच्छिद्य अन्यत्र विधाय' अश्व्येन शिरसा तमृषिं समयोजयतमित्यर्थः । “सः च “वां युवाभ्यां प्रवर्ग्यविद्यां मधुविद्यां च वक्ष्यामीति पुरा कृतां प्रतिज्ञाम् “ऋतायन सत्यामात्मन इच्छन् “मधु मधुविद्यां “त्वाष्ट्रं त्वष्टुरिन्द्राल्लब्धं “प्र “वोचत् प्रोक्तवान् । हे दस्रौ दर्शनीयावश्विनौ “वां युवयोः संबन्धि “यत् “अपिकक्ष्यं छिन्नस्य यज्ञशिरसः कक्षप्रदेशेन पुनःसंधानभूतं प्रवर्ग्यविद्याख्यं रहस्यं तदपि “वां युवाभ्यां प्रावोचदित्यर्थः ।। दधीचे । अञ्चतेः ‘ऋत्विक इत्यादिना क्विन् । “ अनिदिताम्' इति नलोपः। चतुर्थ्येकवचने ‘अचः' इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तस्यापवादत्वेन ‘चौ' इति विभक्तेः पूर्वस्योदात्तत्वं प्राप्तं तस्याप्ययमपवादः । अञ्चेश्छन्दस्यसर्वनामस्थानम् ' इति विभक्त्युदात्तत्वम्।।
 
 
Line ३९३ ⟶ ४०८:
अस्मे इति । रयिम् । नासत्या । बृहन्तम् । अपत्यऽसाचम् । श्रुत्यम् । रराथाम् ॥
 
हे “कवी क्रान्तदर्शिनौ मेधाविनावश्विनौ "वां युवयोः “सुमतिं कल्याणीम् अनुग्रहात्मिकां बुद्धिं “सदा सर्वदा “आ “चके आभिमुख्येन प्रार्थये । "मे मदीयानि “विश्वाः “धियः सर्वाणि कर्माणि युवां “प्रावतं प्रकर्षेण रक्षतम् । अपि च "अस्मे अस्मभ्यं हे नासत्यावश्विनौ “बृहन्तं महान्तम् “अपत्यसाचम् अपत्यैः पुत्रादिभिः समवेतं “श्रुत्यं प्रशंसनीयम् उत्कृष्टं “रयिं धनं रराथां प्रयच्छतम् ॥ चके। ‘कै गै शब्दे'। व्यत्ययेनात्मनेपदम् । लिटि उत्तमैकवचने रूपम् । अस्मे । ‘सुपां सुलुक्' इति चतुर्थीबहुवचनस्य शेआदेशः । अपत्यसाचम् । अपत्यैः सह सचते संगच्छते इति अपत्यसाच् । छन्दसो ण्विः । श्रुत्यम् । श्रुतिः स्तुतिः । तत्र भवं श्रुत्यम् । ‘ भवे छन्दसि ' इति यत् । यतोऽनावः' इत्याद्युदातत्वम् । रराथाम् । “ रा दाने '। लोटि व्यत्ययेनात्मनेपदम् ।' बहुलं छन्दसि ' इति शपः श्लुः ॥
 
 
Line ४०७ ⟶ ४२३:
त्रिधा । ह । श्यावम् । अश्विना । विऽकस्तम् । उत् । जीवसे । ऐरयतम् । सुदानू इति सुऽदानू ॥
 
“रराणा रममाणौ दातारौ वा “नरा नेतारौ हे अश्विनौ “हिरण्यहस्तं नाम “पुत्रं "वध्रिमत्या: एतत्संज्ञायै ब्रह्मवादिन्यै “अदत्तं प्रायच्छतं “ह । अपि च हे “सुदानू शोभनदानौ अश्विनौ “त्रिधा त्रेधा “विकस्तं विच्छिन्नं श्यावाख्यमृषिं “जीवसे जीवितुम् “उत् “ऐरयतम् असुरैः त्रेधा खण्डितं शरीरं पुनरेकीकृत्य उदगमयतमित्यर्थः ॥ रराणा । रमतेः शानचि ‘ बहुलं छन्दसि ' इति शपः श्लुः । व्यत्ययेन मकारस्य आत्वम् । रातेर्वा व्यत्ययेन शानच् । पूर्ववत् श्लुः । वध्रिमत्याः । चतुर्थ्यर्थे ' बहुलं छन्दसि ' इति षष्ठी । जीवसे । “ जीव प्राणधारणे'। तुमर्थे सेसेन्' इति असेप्रत्ययः ।।
 
 
Line ४२१ ⟶ ४३८:
ब्रह्म । कृण्वन्तः । वृषणा । युवऽभ्याम् । सुऽवीरासः । विदथम् । आ । वदेम ॥
 
“अश्विना हे अश्विनौ "वां युवयोः संबन्धीनि “पूर्व्याणि प्रत्नानि “एतानि इदानीं मयोक्तानि “वीर्याणि वीरकर्माणि “आयवः मनुष्याः मदीयाः पित्रादयः “प्र “अवोचन् उक्तवन्तः । वयं च हे “वृषणा कामाभिवर्षकौ अश्विनौ युवाभ्यां “ब्रह्म मन्त्रात्मकं स्तोत्रं “कृण्वन्तः कुर्वन्तः “सुवीरासः सुवीराः शोभनैः वीरैः पुत्रादिभिरुपेताः सन्तः “विदथं यज्ञम् “आ “वदेम आभिमुख्येन स्तुतीः उच्चारयाम' । यद्वा । विदथं वेदयन्तम् अतिथिं तदपेक्षितप्रदानेन आवदेम आभिमुख्येन प्रियपूर्विकां वाचमुच्चारयाम ॥ कृण्वन्तः । ‘कृवि हिंसाकरणयोश्च'। इदित्त्वात् नुम् । लटः शतृ । धिन्विकृण्व्योर च' इति उप्रत्ययः । अकारान्तादेशश्च । अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः । सुवीरासः । शोभना वीरा येषां ते तथोक्ताः । ‘आज्जसेरसुक्' । वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । विदथम् । “ विद ज्ञाने'। रुविदिभ्यां कित्' इति अथप्रत्ययः ॥ ॥ १७ ॥
 
}}
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११७" इत्यस्माद् प्रतिप्राप्तम्