"जैमिनीयं ब्राह्मणम्/काण्डम् १/०९१-१००" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">पवस्व वाचो अग्रियः इति श्रै... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">पवस्व वाचो अग्रियः इति श्रैष्ठयकामः प्रतिपदं कुर्वीत। प्रजापतिः प्रजा असृजत। ता एनं सृष्टा नापाचायन्। सो ऽकामयत श्रैष्ठयम् आसां प्रजानां गच्छेयम् इति। स एतां प्रतिपदम् अपश्यत्। तयास्तुत। ततो वै स तासां प्रजानां श्रैष्ठयम् अगच्छत्। गच्छति स्वानां श्रैष्ठयं य एवं वेद। एषो ह वै समृद्धा स्तोत्रिया यस्यै पवस्व इत्यारम्भः। समृद्धयैवास्य स्तोत्रियया स्तुतं भवति। यो वै दैव्यं मिथनुं वेद प्र मिथुनेन जायते। पवस्व इति च वाचः इति च दैव्यं मिथुनम्। प्र मिथुनेन जायते य एवं वेद। सर्वेषां वा एषा त्रयाणां साम्नां प्रतिपत् -- पवस्व इति वामदेव्यस्य वाचः इति रथन्तरस्य अग्रियः इति बृहतः। सर्वेषाम् अस्य साम्नां प्रतिपदा स्तुतं भवति। सोम चित्राभिर् ऊतिभिः इति -- सोमो वै देवानां चित्रं -- सोमेनैव देवानां चित्रेण बहुर् भवति प्रजायते। अभि विश्वानि काव्या इति विश्वम् एवैतेन काव्यम् अवरुन्द्धे॥1.91॥
 
 
पङ्क्तिः ७०:
 
 
</span></poem>