"जैमिनीयं ब्राह्मणम्/काण्डम् १/२२१-२३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ताम् अब्रवीद् अपाले किंकामासीति। साब्रवीत्
<poem>इमानि त्रीणि विष्टपा तानीन्द्र विरोहय।
शिरस् ततस्योर्वराम् आद् इदं म उपोदरे॥
सर्वा ता रोमशा कृधि॥</poem>
इति। खलतिर् हास्यै पितास। तं हाखलतिं चकार। उर्वरा हास्य न जज्ञे। सो ह जज्ञे। उपस्थे हास्यै रोमाणि नासुः। तान्य् उ ह जज्ञिरे। तां खे रथस्यात्यबृहत्। सा गोधाभवत्। तां खे ऽनसो ऽत्यबृहत्। सा कृकलास्य् अभवत्। तां खे युगस्यात्यबृहत्। सा संश्लिष्ठिकाभवत्। तद् एषाभ्यनूच्यते
<poem>खे रथस्य खे ऽनसः खे युगस्य शतक्रतो।
अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोस् सूर्यत्वचम्॥</poem>
इति। तस्यै ह यत् कल्याणतमं रूपाणां तद् रूपम् आस। तद् एतत् कामसनि साम। एतं वै सा कामम् अकामयत। सो ऽस्यै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् व् अपालात्रेय्य् अपश्यत् तस्माद् आपालम् इत्य् आख्यायते॥1.221॥
 
पङ्क्तिः ३२:
 
अथ मैधातिथम्। काण्वायनास् सत्त्राद् उत्थायायन्त आयुञ्जानाः। ते होद्गीथा इति किमुद्वत्यैतद्धनाम् उर्वारुबहुप्रवृत्तं शयानम् उपेयुः। ते ऽकामयन्तेमान् एव पशून् भूतान् उत्सृजेमहीति। स एतन् मेधातिथिः काण्वः सामापश्यत्। तेनोपन्यषीदन्
<poem>आ त्व् एता निषीदतेन्द्रम् अभि प्र गायत
सखायस् स्तोमवाहसः॥
पुरूतमं पुरूणाम् ईशानं वार्याणाम्।
इन्द्रं सोमे सचा सुते॥
स घा नो योग आ भुवत् स राये स पुरन्ध्याम्॥</poem>
इति। पशवो वै रयिः। ततो वै ते तान् पशून् भूतान् उदसृजन्त। हिंकारेण हैवैनान् उत्ससृजिरे। ते हैते ऽत्र पश्चाद् उर्वारुपृश्नय इति पशवः। तद् एतत् पशूनाम उत्सृष्टिस् साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ मेधातिथिः काण्वो ऽपश्यत् तस्मान् मैधातिथम् इत्य् आख्यायते॥1.226॥