"जैमिनीयं ब्राह्मणम्/काण्डम् १/३११-३२०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">त्रीणि ह वै यज्ञस्योदराणि ग... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">त्रीणि ह वै यज्ञस्योदराणि गायत्री बृहत्य् अनुष्टुप्। अत्र ह्य् एवावपन्त्य् अत उद्धरन्ति। तद् उ यथायं मध्येन पुरुषस् सुहितो वा स्याद् अशनायेद् वा तथा तत्। अथ यथेतराण्य् अङ्गानि स्थितान्य् एवम् अन्यानि स्तोत्राणि स्थितान्य् एव॥
 
चत्वार्य् उ ह वै सामान्य् एकर्चेभ्यो तस्थानानि बृहद्रथन्तरे वामदेव्यं यज्ञायज्ञीयम् इति। तानि यत्र क्व चानुपरिप्लवेरंस् तानि तृचेष्व् एव कल्पयेन् नैकर्चेषु। अथ ह वै नैकर्चकल्पी स्यात्। अवीर्य इव वा एष यद् एकर्चः। अयं वै लोक एकर्चः। अवच्छिन्न इव वा अयम् आभ्यां लोकाभ्याम्॥
पङ्क्तिः ७८:
 
 
</span></poem>