"ऋग्वेदः सूक्तं १.३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
</span></poem>
{{ऋग्वेदः मण्डल १}}
== ==
{{सायणभाष्यम्|
‘त्रिश्चिन्नो अद्य' इति चतुर्थं सूक्तं द्वादशर्चम्। ‘ऋषिश्चान्यस्मादृषेः' इति परिभाषया आङ्गिरसो हिरण्यस्तूप ऋषिः । अश्विनौ देवता । ‘क्व त्री चक्रा ' इति नवमी ‘आ नो अश्विना ' इति द्वादशी व त्रिष्टुभौ । शिष्टाः त्रिष्टुबन्तपरिभाषया जगत्यः । त्रिश्चिद्वादशाश्विनं नवम्यन्त्ये त्रिष्टुभौ ' इत्यनुक्रमणिका । प्रातरनुवाके आश्विने क्रतौ जागते छन्दसि इदं सूक्तम् । अथाश्विनः' इति खण्डे सूत्रितं -- ’त्रिश्चिन्नो अद्येळे द्यावापृथिवी इति जागतम् ' ( आश्व. श्रौ. ४. १५) इति । आश्विने शस्त्रेऽप्येतत् सूक्तं, ‘प्रातरनुवाकन्यायेन ' ( आश्व. श्रौ. ६. ५) इत्यतिदिष्टत्वात् ॥
 
 
त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना ।
 
Line ५० ⟶ ५२:
 
युवोः । हि । यन्त्रम् । हिम्याऽइव । वाससः । अभिऽआयंसेन्या । भवतम् । मनीषिऽभिः ॥
 
हे “नवेदसा “अश्विना मेधाविनौ अश्विदेवौ । नवेदा इति मेधाविनाम, ‘नवेदाः कविः मनीषी' (नि. ३. १५. ९) इति तन्नामसु पठितत्वात् । तादृशौ युवां “त्रिश्चित् त्रिवारमपि “अद्य अस्मिन् कर्मणि “नः अस्मदर्थं “भवतम् आगतौ भवतम् । अत्र त्रिः इति वचनं सवनत्रयापेक्षम् आदरातिशयद्योतनार्थं वा। ' त्रिषत्या हि देवाः' (तै. ब्रा. ३. २. ३. ८) इति श्रुत्यन्तरात् । “वां युवयोः “यामः गमनसाधनभूतो रथः “विभुः व्याप्तः । “उत अपि च "रातिः दानं विभुरिति शेषः । “युवोः युवयोरुभयोः "यन्त्रं “हि परस्परनियमरूपः संबन्धविशेषोऽस्ति खलु । तत्र दृष्टान्तः । “वाससः सूर्यरश्म्याच्छादनयुक्तस्य वासरस्य “हिम्येव हिमयुक्तया रात्र्येव । यथा रात्र्या सह दिवसस्य संबन्धः कदाचिदपि नापैति तद्वत् । युवामुभौ “मनीषिभिः मेधाविभिर्ऋत्विग्भिः । मनीषीति मेधाविनाम, मनीषी मन्धाता' (नि. ३. १५, ११) इति तन्नामसु पठितत्वात् । “अभ्यायंसेन्या अभितो नियन्तव्यौ अनुग्रहवशात् तदधीनौ “भवतम् ॥ अद्य । ‘निपातस्य च ' इति संहितायां दीर्घः । नवेदसा। विपरीतं न वित्तः इति नवेदसौ । ‘विद ज्ञाने' इत्यस्मात् औणादिकोऽसुन् । नञ्समासे ‘नभ्राण्नपात्' इत्यादिना नकारस्य प्रकृतिभावः । ‘सुपां सुलुक्' इति आकारः। आमन्त्रितनिघातः । यामः । यायते गम्यतेऽनेनेति यामो रथः । ‘अर्तिस्तुसु ' इत्यादिना मन् । नित्त्वादाद्युदात्तत्वम् । यद्वा । ‘यम उपरमे' इत्यस्मात् कर्मणि घञ्। वृषादिषु पाठादाद्युदात्तत्वम् । रातिः । ‘रा दाने' इत्यस्मात् भावे क्तिन् । ‘मन्त्रे वृष°' इत्यादिना तस्योदात्तत्वम् । युवोः । ‘सुपां सुपो भवन्ति' इति षष्ठीद्विवचनस्य षष्ठीद्विवचनादेशः । अत
आदेशविषयत्वात् ‘योऽचि' (पा. सू. ७. २. ८९ ) इति यत्वं न भवति । ‘शेषे लोपः' इति टिलोपे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । अन्त्यलोपपक्षे तु एकादेशस्वरेण । हिम्या इव । हिमेति रात्रिनाम, ‘ऊधः पयः हिमा' ( नि. १. ७. २२ ) इति तन्नामसु पठितत्वात् । हनेर्हि च' ( उ. सू. १. १४४) इति मक् । हन्ति पद्मानीति हिमम् । अर्शआद्यच् । हिमा रात्रिः । तत उत्तरस्य तृतीयैकवचनस्य ‘सुपां सुलुक् ' इति ङ्यादेशः । ततः टिलोपे उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । वाससः । ‘वस आच्छादने'। वासयति प्रकाशेनाच्छादयति इति अहर्वासः । अभ्यायंसेन्या । अभ्याङ् इत्युपसर्गद्वयोवसृष्टात् ‘यम उपरमे' इत्यस्मात् औणादिकः सेन्यप्रत्ययः । ‘सुपां सुलुक्' इति आकारः॥
 
 
Line ६३ ⟶ ६८:
 
त्रयः । स्कम्भासः । स्कभितासः । आऽरभे । त्रिः । नक्तम् । याथः । त्रिः । ऊं इति । अश्विना । दिवा ॥
 
"मधुवाहने मधुरद्रव्याणां नानाविधखाद्यादीनां वहनेन युक्तेऽश्विनोः संबन्धिनि “रथे "पवयः वज्रसमाना दृढाश्चक्रविशेषाः “त्रयः त्रिसंख्याकाः सन्ति । “इत् इत्थं चक्रत्रयसद्भावप्रकारं “विश्वे सर्वे देवाः “सोमस्य चन्द्रस्य "वेनां कमनीयां भार्यामभिलक्ष्य यात्रायां “विदुः जानन्ति । यदा सोमस्य वेनया सह विवाहस्तदानीं नानाविधखाद्ययुक्तं चक्रत्रयोपेतं प्रौढं रथमारुह्य अश्विनौ गच्छत इति सर्वे देवा जानन्तीत्यर्थः। तस्य रथस्योपरि “स्कम्भासः स्तम्भविशेषाः “त्रयः त्रिसंख्याकाः स्कभितासः स्थापिताः। किमर्थम् । “आरभे आरब्धुम् अवलम्बितुम् । यदा रथस्त्वरया याति तदानीं पतनभीतिनिवृत्त्यर्थं हस्तालम्बनभूताः स्तम्भा इत्यर्थः । हे “अश्विना युवां तादृशेन रथेन “नक्तं रात्रौ “त्रिः “याथः त्रिवारं गच्छथः। तथा “दिवा दिवसेऽपि “त्रिः याथः । रात्रावहनि च रथमारुह्य पुनःपुनः क्रीडथ इत्यर्थः ॥ मधुवाहने। मधु वाह्यतेऽनेनेति मधुवाहनः। करणे ल्युट्। विदुः । वेत्तेर्लटि ‘विदो लटो वा' इति झेः उसादेशः। स्कम्भासः। ‘ष्टभि स्कभि गतिप्रतिबन्धे'। स्कम्भन्ते प्रतिबद्धा भवन्तीति स्कम्भाः । पचाद्यच् । स्कभितासः। स्कम्भुः सौत्रो धातुः । अस्मात् निष्ठायां यस्य विभाषा' इति इट्प्रतिषेधे प्राप्ते ' ग्रसितस्कभित° ' इत्यादिना इडागमो निपातितः । आरभे । ‘रभ राभस्वे'। अस्मात् आङ्पूर्वात् संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
Line ७६ ⟶ ८३:
 
त्रिः । वाजऽवतीः । इषः । अश्विना । युवम् । दोषा । अस्मभ्यम् । उषसः । च । पिन्वतम् ॥
 
हे अश्विना अश्विनौ देवौ "युवं युवामुभौ "समाने "अहन् एकस्मिन्ननुष्ठानदिने "त्रिरवद्यगोहना त्रिवारमनुष्ठानगतानां दोषाणां संवरणकारिणौ भवतम् । "अद्य अस्मिन् दिने "यज्ञं यज्ञगतं हविः "मधुना मधुररसेन "त्रिः "मिमिक्षतं त्रिवारं सिञ्चतम् । किं च "दोषाः "उषसश्च रात्रीदिवसांश्च रात्रिषु दिवसेषु च नैरन्तर्येण "वाजवतीः बलकारिणीः "इषः अन्नानि “अस्मभ्यं "पिन्वतं सिञ्चतं प्रयच्छतमित्यर्थः॥ अहन् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । अवद्यगोहना । ' गुहू संवरणे'। अवद्यस्य गूहयितारौ । नन्द्यादित्वात् ल्युः । ‘ऊदुपधाया गोहः' (पा. सू. ६. ४. ८९ ) इति प्राप्तस्य ऊत्वस्य अभावश्छान्दसः । मिमिक्षतम् । मिह सेचने ' । सनि ‘एकाच उपदेशेऽनुदात्तात्' इति इट्प्रतिषेधः।
 
 
Line ८९ ⟶ ९८:
 
त्रिः । नान्द्यम् । वहतम् । अश्विना । युवम् । त्रिः । पृक्षः । अस्मे इति । अक्षराऽइव । पिन्वतम् ॥
 
हे "अश्विना "युवं त्रिर्वर्तिर्यातम् अस्मदीयवर्तनसाधनं गृहं त्रिर्यातं त्रिवारं प्राप्नुतम् । तथा "अनुव्रते अस्मद्नुकूलव्यापारयुक्ते "जने "त्रिः यातं त्रिवारं तदनुग्रहाय गच्छतम् । "त्रिः "सुप्राव्ये त्रिवारं सुष्ठु प्रकर्षेण भवद्भ्यां रक्षणीये प्रवर्तमानानस्मान् "त्रेधेव त्रिभिरेव प्रकारैः “शिक्षतम् । पुनःपुनरनुष्ठानमुपदेष्टव्यमित्यर्थः । तथा “नान्द्यं नन्दनीयं संतोषकरं फलं "त्रिः "वहतं प्रापयतम् । "अस्मे अस्मासु "पृक्षः अन्नं "त्रिः पिन्वतं त्रिवारं प्रयच्छतम् । तत्र दृष्टान्तः । "अक्षरेव । अक्षराण्युदकानि । ‘अक्षरा स्रोतः तृप्तिः ' (नि. १.२.३२) इति तन्नामसु पाठात् । तानि पर्जन्यः यथा प्रयच्छति तद्वत् ॥ वर्तिः । वर्ततेऽत्रेति वर्तिर्गृहम् । ‘हृपिषिरुहिवृति०' ( उ. सू. ४. ५५८ ) इत्यादिना इप्रत्ययः । ‘सुपां सुलुक्' ' इति द्वितीयैकवचनस्य सुआदेशः । सुप्राव्ये । उपसर्गद्वयोपसृष्टात् अवतेः कर्मणि ण्यत् । ‘संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः। ‘तित्स्वरितम्' इति स्वरितत्वम् । शिक्षतम् ।' शिक्ष विद्योपादाने'। नान्द्यम्। ण्यदन्तः । पृक्षः। ‘पृची संपर्के'। असुनि सुडागमः। अस्मे । ‘सुपां सुलुक्' इति शेआदेशः । अक्षरा इव। अश्नुवते व्याप्नुवन्तीति अक्षराण्युदकानि । औणादिकः क्सरप्रत्ययः । शेर्लोपः ॥
 
 
Line १०२ ⟶ ११३:
 
त्रिः । सौभगऽत्वम् । त्रिः । उत । श्रवांसि । नः । त्रिऽस्थम् । वाम् । सूरे । दुहिता । रुहत् । रथम् ॥
 
हे "अश्विना "युवं "नः अस्मान् "रयिं धनं "त्रिः “वहतं त्रिवारं प्रापयतम् । "देवताता देवतातौ देवैर्युक्ते कर्मणि त्रिः त्रिवारमागच्छतमिति शेषः । “उत अपि च "धियः अस्मद्बुद्धीः "त्रिः त्रिवारं रक्षतम्। "सौभगत्वं सौभाग्यं "त्रिः वहतमिति शेषः। “उत अपि च “श्रवांसि अन्नानि "नः अस्मभ्यं "त्रिः वहतम् । “वां युवयोः संबन्धिनं "त्रिष्ठं चक्रत्रयेऽवस्थितं "रथं "सूरे सूर्यस्य "दुहिता पुत्री । ‘दुहिता दुर्हिता दूरे हिता' ( निरु. ३. ४ ) इति यास्कः । सा आरूढवती ।। देवताता । ‘सर्वदेवात्तातिल् ' (पा. सू. ४. ४. १४२) इति स्वार्थिकः तातिल्प्रत्ययः । तेन देवतातिशब्देन देवसंबद्धो यज्ञो लक्ष्यते । ‘देवताता मखः ' (नि.३. १७. १० ) इति तन्नामसु पठितत्वात् । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । सुपां सुलुक्' इति सप्तम्या डादेशः। त्रिष्ठम् । त्रिषु चक्रेषु तिष्ठतीति त्रिष्ठः । ‘सुपि स्थः ' ( पा. सू. ३. २. ४ ) इति कः । ‘अम्बाम्ब° '(पा. सू. ८. ३. ९७ ) इत्यादिना सकारस्य षत्वम् । सूरे । ‘षू प्रेरणे'। “ सुसूधागृधिभ्यः क्रन्' ( उ. सू. २. १८२ ) इति क्रन् । नित्त्वादाद्युदात्तः । विभक्तिव्यत्ययः । आ रुहत् ।' कृमृदृरुहिभ्यश्छन्दसि' (पा. सू. ३. १. ५९ ) इति च्लेः अङादेशः ॥
 
 
Line ११५ ⟶ १२८:
 
ओमानम् । शम्ऽयोः । ममकाय । सूनवे । त्रिऽधातु । शर्म । वहतम् । शुभः । पती इति ॥
 
हे "अश्विना “नः अस्मभ्यं "दिव्यानि द्युलोकवर्तीनि "भेषजा औषधानि "त्रिः "दत्तम् । तथा “पार्थिवानि पृथिव्यामुत्पन्नान्यौषधानि "त्रिः दत्तम् । "अद्भ्यः “उ अन्तरिक्षसकाशादप्यौषधानि "त्रिः दत्तम् । आपः इत्यन्तरिक्षनाम, ‘आपः पृथिवी भूः ' ( नि. १. ३. ८) इति तन्नामसु पाठात् । “शंयोः एतन्नामकस्य बृहस्पतिपुत्रस्य । “ ते शंयुं बार्हस्पत्यमब्रुवन् ' ( तै. सं. २. ६. १०. १) इति ब्राह्मणान्तरात् । तस्य संबन्धिनम् “ओमानं सुखविशेषं "ममकाय “सूनवे मदीयाय पुत्राय "दत्तम् । हे "शुभस्पती शोभनस्यौषधजातस्य पालकौ युवां "त्रिधातु वातपित्तश्लेष्मधातुत्रयशमनविषयं सुखं “वहतं प्रापयतम् ॥ दिव्यानि । दण्डादित्वात् (पा. सू. ५. १. ६६ ) यप्रत्ययः । भेषजा । ‘भिषज् चिकित्सायाम् । पुंसि संज्ञायाम्' इति घः । शंयोः । ‘शमु उपशमे ' । क्विप् । शम् । ' यु अमिश्रणे'। अस्मात् विच् । कृदुत्तरपदप्रकृतिस्वरः । त्रिधातु। ‘सितनिगमिमसिसच्यविधाञ्रु कशिभ्यस्तुन् ' ( उ. सू. १. ६९)। अद्भ्यः। ‘ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ओमानम् । अवतेः ‘अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् ।' ज्वरत्वर ' इत्यादिना अकारवकारयोः ऊठ् । सार्वधातुकार्धधातुकलक्षणो गुणः । यदि ' ज्वरत्वर' ' इत्यत्र ‘अनुनासिके च ' ( पा. सू. ६. ४. १९ ) इति नानुवर्तते तर्हि पूर्वेणैव सूत्रेण वकारस्य ऊडादेशो भविष्यति । शुभस्पती। ‘शुभ दीप्तौ ' । संपदादिलक्षणः क्विप् । षष्ठ्याः पतिपुत्र' इति संहितायां विसर्जनीयस्य सत्वम् ।' सुबामन्त्रिते. ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् ॥ ॥ ४ ॥
 
 
Line १२८ ⟶ १४३:
 
तिस्रः । नासत्या । रथ्या । पराऽवतः । आत्माऽइव । वातः । स्वसराणि । गच्छतम् ॥
 
हे "अश्विना "दिवेदिवे प्रतिदिनम् । ‘दिवेदिवे द्यविद्यवि ' (नि. १. ९. ११ ) इति अहर्नामसु पठितत्वात् । "यजता यष्टव्यौ युवां "नः अस्मदीयां “पृथिवीं वेदिरूपां भूमिं "परि सर्वतः प्राप्य “त्रिधातु कक्ष्यात्रययुक्ते अस्तीर्णे बर्हिषि "त्रिः त्रिवारम् "अशायतं शयनं कुरुतम् । हे “रथ्या रथ्यौ रथस्वामिनौ “तिस्रः त्रिसंख्याकाः ऐष्टिकपाशुकसौमिकरूपा वेदीः "गच्छतम् । तत्र दृष्टान्तः । “स्वसराणि शरीराणि "आत्मेव “वातः। यथा प्राणिनामात्मभूतः प्राणवायुस्तदीयानि शरीराणि गच्छति तद्वत् ॥ यजता । यजतेः ‘ भृमृदृशि° ' ( उ. सू. ३. ३९० ) इत्यादिना अतच् । चितः' इत्यन्तोदात्तत्वम् । त्रिधातु । त्रेधा धीयते निधीयते इति त्रिधातु। ‘सितनिगमि' (उ. सू. १. ६९ ) इत्यादिना धाञः तुन् । नित्त्वादाद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । ‘सुपां सुलुक्° ' इति सप्तम्या लुक् । अशायतम् । अदादित्वात् शपो लुक् । अशयातामित्यस्य ह्रस्वदीर्घयोर्व्यत्यासः । नासत्या । सत्सु साधू सत्यौ । न सत्यौ असत्यौ । न असत्यौ नासत्यौ ।' सत्यावेव नासत्यावित्यौर्णवाभः ' ( निरु. ६. १३ ) इति यास्कः। ‘नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । रथ्या । रथार्हौ स्वामिनावित्यर्थः । ‘छन्दसि च' ( पा. सू. ५. १. ६७ ) इति यप्रत्ययः । स्वसराणि । सरन्ति गच्छन्तीति सरा इन्द्रियाणि । स्वकीयाः सरा येषां शरीराणाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।।
 
 
Line १४१ ⟶ १५८:
 
तिस्रः । पृथिवीः । उपरि । प्रवा । दिवः । नाकम् । रक्षेथे इति । द्युऽभिः । अक्तुऽभिः । हितम् ॥
 
हे "अश्विना “सप्तमातृभिः । ‘इमं मे गङ्गे' (ऋ. सं. १०. ७५, ५) इत्यादिमन्त्रोक्ताः सप्तसंख्याका गङ्गाद्या नद्यो मातर उत्पादिका येषां जलविशेषाणां ते सप्तमातरः । तैः "सिन्धुभिः स्यन्दनस्वभावैर्जलैर्वसतीवरीनामभिः “त्रिः सोमाभिषवः कृत इति शेषः । तथा चान्यत्र ब्राह्मणे समाम्नातम्-' अष्टौ कृत्वोऽभिषुणोति एकादश कृत्वो द्वितीयं द्वादश कृत्वस्तृतीयम्' (तै. सं. ६. ४. ५. १-२ ) इति । "आहा वाः यथोक्तजलयुक्तस्य सोमस्याधारभूताः कूपसदृशाः "त्रयः त्रिसंख्याका द्रोणकलशाधवनीयपूतभृदाख्या निष्पन्ना इति शेषः । तेषु त्रिषु पात्रविशेषेषु “त्रेधा त्रिभिः प्रकारैः सवनत्रयगतैः "हविष्कृतं सोमाख्यं हविः संपादितं द्रव्यं वर्तते इति शेषः। “तिस्रः "पृथिवीरुपरि त्रिभ्यः पृथिव्यादिलोकेभ्य ऊर्ध्वं "प्रवा प्रवन्तौ गच्छन्तौ युवां "दिवो "नाकं द्युलोकसंबन्धिनमादित्यं “रक्षेथे । कीदृशं नाकम् । “द्युभिः अहोभिः "अक्तुभिः रात्रिभिश्च “हितं स्थापितम् । अहनि सूर्य उदेति रात्रावस्तं गच्छतीत्येवमहोरात्राभ्यां सूर्यो व्यवस्थाप्यते इत्यर्थः ॥ सप्तमातृभिः। बहुव्रीहिस्वरः । आहावाः । निपानमाहावः' (पा. सू. ३. ३. ७४ ) इति आङ्पूर्वात् ह्वयतेः अप्प्रत्ययः संप्रसारणं वृद्धिश्च निपातनात् । थाथादिना उत्तरपदान्तोदात्तत्वम् । प्रवा । ' च्युङ् प्रुङ् गतौ '। प्रवेते गच्छतः इति प्रवौ । पचाद्यच् । ‘सुपां सुलुक्' इति आकारः । नाकम् । न अस्मिन् अकम् अस्तीति नाकः । ‘नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । द्युभिः । ऊडिदम्' इत्यादिना प्राप्तस्य विभक्त्युदात्तस्य ' दिवो झल् ' ( पा. सू. ६. १. १८३ ) इति प्रतिषेधः ॥
 
 
Line १५४ ⟶ १७३:
 
कदा । योगः । वाजिनः । रासभस्य । येन । यज्ञम् । नासत्या । उपऽयाथः ॥
 
हे नासत्यौ अश्विनौ "त्रिवृत्रः त्रिसंख्याकैरश्रिभिरुपेतस्य भवदीयस्य "रथस्य ईषाद्वयं पूर्वभागे संयुज्यते । सेयम् एका अश्रिः । पृष्ठभागे वियुज्यते। तत्र कोणद्वयं संपद्यते । ईदृशस्य रथस्य संबन्धीनि “त्री "चक्रा त्रीणि चक्राणि “क्व । कुत्र स्थितानीत्यस्माभिर्न दृश्यते । “ये काष्ठविशेषाः "सनीळाः । नीळं गृहसदृशं रथस्योपरि उपवेशस्थानम् । तेन सह वर्तन्ते इति सनीळाः । ते काष्ठविशेषाः "वन्धुरः नीडबन्धनाधारभूताः “त्रयः अक्षेण सहिते द्वे ईषे इत्येवं त्रिसंख्याकाः "क्व । कुत्र स्थिता इत्यस्माभिर्न ज्ञायते । "वाजिनः बलवतः "रासभस्य भवदीयाश्वस्थानीयस्य गर्दभस्य "योगः रथे योजनं "कदा । कस्मिन् काले निष्पन्नम् इत्यस्माभिर्न दृश्यते । "येन चक्रत्रयनीडकाष्ठत्रयसभयोजनसहितेन रथेन "यज्ञम् अस्मदीयं यागस्थानम् "उपयाथः युवां प्राप्नुथः । तादृशस्य रथस्येति पूर्वत्रान्वयः ॥ त्री चक्रा । उभयत्रापि ‘शेश्छन्दसि बहुलम् ' इति शेर्लोपः । वन्धुरः । बन्धेः औणादिकः उरप्रत्ययः । वत्वं छान्दसम् । सनीळाः। 'वोपसर्जनस्य' इति सभावः ॥
 
 
Line १६७ ⟶ १८८:
 
युवोः । हि । पूर्वम् । सविता । उषसः । रथम् । ऋताय । चित्रम् । घृतऽवन्तम् । इष्यति ॥
 
हे नासत्यौ अश्विनौ इह कर्मणि "आ "गच्छतम् । अत्रास्माभिः "हविः "हूयते । युवां च “मधुपेभिः मधुरद्रव्यपानयुक्तैः "आसभिः भवदीयैरास्यैः "मध्वः मधुरद्रव्याणि हवींषि "पिबतम् । “सविता सूर्यः "उषसः "पूर्वम् उषःकालात्पुरा युवयोरश्विनोः संबन्धिनं "रथम् "ऋताय अस्मद्यज्ञार्थम् “इष्यति “हि प्रेरयति खलु । कीदृशम् । “चित्रं पूर्वोक्तैश्चक्रत्रयादिभिः विचित्रं “घृतवन्तम् अक्षाञ्जनसाधनेन घृतेनोपेतम् ॥ गच्छतम् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः । अत्र गच्छतं पिबतं चेति चार्थप्रतीतेः ‘चादिलीपे विभाषा' इति प्रथमायाः तिङविभक्तेः निघातप्रतिषेधः । हूयते । लसार्वधातुकानुदात्तत्वे यकः स्वरः । मध्वः । लिङ्गव्यत्ययः शसि यणादेशश्छान्दसः । मधुपेभिः । मधु पिबन्तीति मधुपानि। “आतोऽनुपसर्गे कः' इति कप्रत्ययः । आसभिः । ‘पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । युवोः । “युवोर्हि यन्त्रम्' इत्यत्रोक्तम् । इष्यति । ‘इष गतौ ' । श्यनो नित्त्वादाद्युदात्तत्वम् । ' हि च ' इति निघातप्रतिषेधः ॥
 
 
Line १८० ⟶ २०३:
 
प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाऽभुवा ॥
 
हे नासत्या असत्येनानृतेन रहितौ "अश्विना अश्विदेवौ युवां "त्रिभिरेकादशैः ‘ ये देवासो दिव्येकादश स्थ' (ऋ. सं. १. १३९. ११ ) इत्यादिमन्त्रप्रतिपादितैस्त्रिसंख्याकैः एकादशात्मकवर्गत्रयगतैर्देवैः सह "मधुपेयं सोमात्मकं मधुरद्रव्यपानम् अभिलक्ष्य “इह अस्मिन् देवयजनदेशे "आ "यातम् आगच्छतम्। "आयुः अस्मदीयमायुष्यं “प्र “तारिष्टं प्रवर्धयतम्। “रपांसि अस्मदीयानि पापानि "निः “मृक्षतं निःशेषेण शोधयतम् । "द्वेषः द्वेषकर्तॄन् "सेधतं प्रतिषेधतम् । "सचाभुवा अस्माभिः सहावस्थितौ “भवतम् ॥ त्रिभिः । षट्त्रिचतुर्भ्यः' इति विभक्तेरुदात्तत्वम् । एकादशैः । एकादशानां पूरणैः । ‘तस्य पूरणे°' (पा. सू. ५. २. ४८) इति डट् । मधुपेयम् । “पा पाने '।' अचो यत्' इति कर्मणि यत् ।' ईद्यति' (पा. सू. ६. ४. ६५) इति आकारस्य ईकारादेशः । यतोऽनावः' इत्याद्युदात्तत्वम् । मधु च तत्पेयमिति समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । तारिष्टम् । ‘तॄ प्लवनतरणयोः । छान्दसे प्रार्थनायां लुङि च्लेः सिच् । इडागमः । ‘वॄतो वा ' ( पा. सू. ७. २. ३८ ) इति प्राप्तस्य इटो दीर्घस्य ‘सिचि च परस्मैपदेषु' ( पा. सू. ७. २. ४० ) इति प्रतिषेधः । ‘बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अत्र तारिष्टं मृक्षतं चेति चशब्दार्थप्रतीतेस्तस्य च अप्रयोगात् ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः। ‘आदिः सिचोऽन्यतरस्याम् ' (पा. सू. ६. १. १८७ ) इत्याद्युदात्तत्वम् । मृक्षतम् । मृश आमर्शने '। 'छन्दसि लुङ्लङलिटः' इति लोडर्थे लुङ्। 'शल इगुपधादनिटः क्सः ' ( पा. सू. ३. १. ४५) इति क्सादेशः ।' एकाच उपदेशेऽनुदात्तात् ' इति इट्प्रतिषेधः । षत्वकुत्वे। पूर्ववत् अडभावः । सेधतम् ।‘षिधु गत्याम् । अत्र केवलोऽपि षिधिः प्रतिपूर्वस्यार्थे वर्तते । प्रार्थनायां लोट् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । पादादित्वात् तिङः परत्वात् वा निघाताभावः । द्वेषः । अन्येभ्योऽपि दृश्यन्ते' इति कर्तरि विच् । भवतम् । द्वेष इत्यस्य वाक्यान्तरगतत्वात् तदपेक्षयास्य निघातो न भवति, समानवाक्ये च निघातयुष्मदस्मदादेशा वक्तव्याः ' (पा. सू. ८. १. १८. ५) इति वचनात् । सचाभुवा । सचा इत्ययं निपातः सहशब्दसमानार्थः । तथा च यास्कः - ’सचा सहेत्यर्थः' (निरु. ५. ५) इति । सचा भवतः इति सचाभुवौ । क्विप् ।' ओः सुपि ' (पा. सू. ६. ४. ८३ ) इति यणादेशस्य न भूसुधियोः । (पा. सू. ६. ४. ८५) इति प्रतिषेधः । ‘सुपां सुलुक्' इति विभक्तेः आकारः ॥
 
 
Line १९४ ⟶ २१९:
शृण्वन्ता । वाम् । अवसे । जोहवीमि । वृधे । च । नः । भवतम् । वाजऽसातौ ॥
 
हे "अश्विना "त्रिवृता "रथेन अप्रतिहतगतित्वात् त्रिषु लोकेषु वर्तमानेन रथेन सह "नः अस्माकम् "अर्वाञ्चम् अभिमुखं "सुवीरं शोभनैर्वीरैः पुत्रभृत्यादिभिरुपेतं "रयिं धनम् "आ “वहतम् आनीय प्रापयतम् । “शृण्वन्ता अस्मदीयस्तुतिं शृण्वन्तौ “वां युवाम् “अवसे अस्मद्रक्षणार्थं "जोहवीमि आह्वयामि। “नः अस्माकं "वाजसातौ संग्रामे। ‘वाजसातौ महाधने' (नि. २. १७. ३६) इति संग्रामनामसु पाठात् । "वृधे वर्धनाय "च "भवतम् ॥ सुवीरम्। शोभना वीरा यस्येति बहुव्रीहौ 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । शृण्वन्ता । ‘श्रु श्रवणे'। शतरि • श्रुवः च' (पा. सू. ३.१.७४) इति श्नुः शृभावश्च । हुश्नुवोः सार्वधातुके ' इति यणादेशः । ‘सुपां सुलुक् ० ' इति आकारः । जोहवीमि । ‘ह्वेञ् स्पर्धायां शब्दे च ' । यङ्लुकि “ अभ्यस्तस्य च ' (पा. सू. ६. १. ३३ ) इति कृतसंप्रसारणादस्मात् लडुत्तमैकवचने ‘यङो वा ' ( पा. सू. ७. ३.९४ ) इति ईडागमः । वृधे । “ वृधु वृद्धौ ' इत्यस्मात् संपदादिलक्षणो भावे क्विप् । वाजसातौ । ‘षणु दाने '। क्तिनि “ तितुत्र ' इत्यादिना इट्प्रतिषेधः । ‘जनसन' इत्यादिना आत्वम् । वाजानां सातिर्यस्मिन्निति पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ५ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३४" इत्यस्माद् प्रतिप्राप्तम्