"जैमिनीयं ब्राह्मणम्/काण्डम् २/१११-१२०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">ता द्वाषष्टि स्तोत्रियास् स... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ता द्वाषष्टि स्तोत्रियास् संपद्यन्ते। ततो याष् षष्टिस् सा विराट्। पशवो विराट्। अथ ये द्वे यजमान एवैष द्विपात् परस्तात् पर्यूढः। पशूनां गुप्त्यै पशूनाम् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। अथो आहुर् एकम् एवैतत् स्तोत्रं सत् तच् चतुर्धा विहृत्य स्तुयुष्, षड्भिर् एव होत्रे स्तुयुष्, षड्भिर् मैत्रावरुणाय, षड्भिर् ब्राह्मणाच्छंसिने, षड्भिर् अष्छावाकाय। तद् उ होतैवानुशंसेद् इति। ताश् चतुर्विंशति स्तोत्र्यास् संपद्यन्ते। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजापतिः। प्रजापतिर् एवैष परस्तात् पर्यूढः। पशूनां गुप्त्यै, पशूनाम् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। तद् उ वा आहुस् त्रिवृत् पञ्चदशं सप्तदशम् एकविंशम् इत्य् एवैतानि स्तोत्राणि स्युः। एकविंशं वा अनु सर्वे यज्ञक्रतवस् संतिष्ठन्ते। अथो एष वाव दृढः प्रतिष्ठित स्तोमो यद् एकविंशः। तस्माद् एकविंश एव स्तोमो ऽन्तकः कार्य इति। तद् आहुः पृष्ठरूपैर् एवान्वियुर् इति ॥2.111॥
 
 
पङ्क्तिः ३७:
 
 
</span></poem>