"जैमिनीयं ब्राह्मणम्/काण्डम् २/१३१-१४०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">तस्याष्टशतं स्तोत्रिया भवन... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">तस्याष्टशतं स्तोत्रिया भवन्ति। ततो यच् छतं सा विराट्। क्षत्रं विराट्। अथ या अष्टौ सा गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेज एव तद् ब्रह्मवर्चसं क्षत्रस्य पुरस्ताद् दधाति। तस्माद् ब्राह्मणः क्षत्रियस्य पुरोहितः। स यः पुरोधाकाम स्यात् स एतेन यजेताश्नुते पुरोधाम्। तं हैक एकछन्दसम् एव कुर्वन्ति, गायत्रम् एव सर्वम् - गायत्रो वै बृहस्पतिः. ब्रह्म वै गायत्री। ब्रह्म बृहस्पतिर् - ब्रह्मणा वा ब्रह्मवर्चसम् ऋध्नवामेति। ते ये ह ते तथा कुर्वन्त्य् अग्निं चैव तेन देवतानाम् उपाप्नुवन्ति, गायत्रीं च छन्द, इमं च लोकम्। अन्तरिता हैषाम् इतराश् च देवता भवन्तीतराणि च छन्दांसीतरे च देवा इतरे च लोका इतरे च कामाः। तस्माद् यथाछन्दसम् एव कार्यं सर्वासां देवतानां सर्वेषां छन्दसां सर्वेषां देवानां सर्वेषां लोकानां सर्वेषां कामानाम् उपाप्त्यै। तस्य बृहद् बार्हस्पत्यम् आदिष्टसामार्भवे पवमाने भवति। बृहस्पतिसवो ह्य् एषः। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.131॥
 
 
पङ्क्तिः ३१:
 
 
</span></poem>