"जैमिनीयं ब्राह्मणम्/काण्डम् २/१४१-१५०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">अथैष विघनः। प्रजापतिर् देवा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">अथैष विघनः। प्रजापतिर् देवान् असृजत - वसून् रुद्रान् आदित्यान्। तेभ्यो यज्ञं चेमांश् च लोकान् प्रायच्छत्। वसुभ्य एव प्रातस्सवनं प्रायच्छद्, रुद्रेभ्यो माध्यंदिनं सवनम्, आदित्येभ्यस् तृतीयसवनम्। वसुभ्य एवेमं लोकं प्रायच्छद्, रुद्रेभ्यो ऽन्तरिक्षम्, आदित्येभ्यो ऽमुम्। अथेन्द्रम् असृजत। स इदम् एषां सर्वं विभक्तम् अपश्यत् । सो ऽब्रवीद् यद् इदम् एषां सर्वं विभक्तम्, अथ कस्मै माम् असृष्टा इति। एतेषां त्वा, इत्य् अब्रीवीच्, छ्रैष्ठ्यायाधिपत्यायासृक्षीति। सो ऽहं कथम् एषां श्रेष्ठो ऽधिपति स्याम् इति। परेह्य् एनान् ब्रूहीत्य् अब्रवीद्, युष्माकं मा प्रजापति श्रैष्ठ्यायाधिपत्यायासृष्टेति। स एत्याब्रवीद् - युष्माकं मा प्रजापति श्रैष्ठ्ययायाधिपत्यायासृष्टेति। ते ऽब्रुवन् - वयं वाव श्रेष्ठा स्मो, वयम् अधिपतयो, ये ज्येष्ठा स्म इति नाजानन्। स पुर् एत्याब्रवीन् - न वा अमी तज् जानन्ति यत् त्वम् आत्थेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनैनम् अयाजयत्। स हेष्ट्वैव सर्वा मृधो व्यहत।यद् व्यहत, तद् विघनस्य विघनत्वम्। वि ह वै द्विषन्तं भ्रातृव्यं हते य एवं वेद॥2.141॥
 
 
पङ्क्तिः ४८:
 
 
</span></poem>