"जैमिनीयं ब्राह्मणम्/काण्डम् २/२८१-२९०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">अथैते चतूरात्राः। अत्रिर् व... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">अथैते चतूरात्राः। अत्रिर् वा अकामयत - चत्वारो मे वीरा आजायेरन्न् इति। स एतं चतूरात्रं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तस्य चत्वारो वीरा आजायन्त। अस्य चत्वारो वीरा आजायन्ते य एवं वेद। अत्रिर्ऋषयो वा अकामयन्त - चत्वारश् चत्वारो नो वीरा आजायेरन्न् इति। त एतं चतूरात्रं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्। ततो वै तेषां चत्वारश् चत्वारो वीरा आजायन्त। अस्य चत्वारश् चत्वारो वीरा आजायन्ते य एवं वेद। आ चतुरं ह खलु वै मिथुनं प्रजननं मिथुनं पराचीनम्। एकश् च वा एका च, द्वौ च द्वे च, त्रयश् च तिस्रश् च, चत्वारश् च चतस्रश् च, एतद् वा आ चतुरं मिथुनं प्रजननम्। न ह वै पञ्च च पञ्च चेति नाम सन्ति। तद् यन् मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्य चतुर्विंशाः पवमाना भवन्ति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननं - स मा प्रजनयाद् इति। तस्योभे बृहद्रथन्तरे। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् च। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमाः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति॥2.281॥
 
 
पङ्क्तिः ३१:
 
 
</span></poem>