"जैमिनीयं ब्राह्मणम्/काण्डम् २/३५१-३६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170%">यथा विषूची पदे विनिहिते अनेनाग्रा3द् अनेना3 इत्य् अप्रजानंस् तिष्ठेद्, एवम् एवैतन् मृ्त्योः पदयोपनं कृतं भवति पाप्मनो ऽनन्ववायाय। न ह वा एनं पुनर् मृत्युर् अन्वेत्य्, अप पाप्मानं हते, गच्छति स्वर्गं लोकम्। ते परमं तम् इत्वा पुनर् एवाबिभयुः। तान् एतेनैवानिरुक्तेन त्रयस्त्रिंशेनात्यनयन् निरुक्तेन निरब्रवीत्। ततो वै ते तं मृत्युम् अपाजयन् यत् स्वर्गे लोके। अप ह वै तं मृत्युं जयति यत् स्वर्गे लोके, य एवं वेद। संवत्सरो वा एता रात्रयस्, संवत्सरस्य गर्भः। संवत्सरस्य वै गर्भं प्रजाः पशव उपजीवन्ति। गर्भिणीर् उ एता रात्रयः। यथा वा अजगरो गीर्णवान् एवम् एता रात्रयः। यद्य् उ वा अजगरो गीर्णवान् भवत्य् उभाव् अन्ताव् अर्णा स्थूलं मध्यम्। सुहित्यस्यो वा एता रूपं रात्रयः। सुहित्यं वै सो ऽश्नुते य श्रियम् अश्नुते। सुहित्यं ज्यैष्ठ्यं श्रैष्ठ्यं श्रियम् अश्नवामहा इति तस्माद् एता रात्रीर् उपयन्ति॥2.351॥
 
 
पङ्क्तिः २७:
 
अथैतत् त्र्यहविधं भवति। त्रयो ह वा ऋतवो ऽनृतवो ऽन्ये। ग्रीष्मो वर्षा हेमन्त एते ह वा ऋद्धा ऋतव, उपाश्लेषगा इवान्ये। ते य ऋद्धा ऋतवस् ते न उपाप्ता असन्न् इति। त्रीणि वाव छन्दांसि, त्रीणि सवनानि, त्रयः प्राणापानव्यानास्, त्रय इमे लोकाः। यत् किं च त्रिस्त्रिस् तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। पञ्चैते परस्तात् त्र्यहा भवन्ति, पञ्चावस्तात्। तेनो एव पञ्चाहविधतायै न यन्ति। अथैष विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति प्राजापत्यम् अहर् - अहोरात्रे वै कृत्स्नः प्रजापतिः - कृत्स्नं प्रजापतिम् ऋध्नवाम, कृत्स्नो नः प्रजापतिर् उपेतो ऽसद् इति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतं विश्वजितम् अतिरात्रम् उपयन्ति, प्रजापतिं ह्य् एव प्रत्यक्षम् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ्चः पञ्च त्र्यहा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.360॥
</span></poem>