"जैमिनीयं ब्राह्मणम्/काण्डम् २/३८१-३९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170%">सकृत् परस्ताद् अभीवर्तं पर्यस्यन्ति। तस्माद् गर्भा जायमाना पर्यावर्तन्ते। पुरा ह खलु वै पञ्चमान् मासो बार्हताः प्रगाथा आप्यन्त। उष्णिहं च त्रिष्टुभं च द्वे छन्दसी संयुज्य पञ्च मासस् समापयेयुः। अनुष्टुभं च पंक्तिं च द्वे छन्दसी संयुज्य षण् मासस् समापयेयुर् एकच्छंदः परिशिष्य । जगतीं तद् विषुवत्य् उपेयुः। जागतो वै विषुवान्। स्व एव तद् आयतने विषुवन्तं समर्धयन्ति। छन्दांसि वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति। तद् आहुर् वीव वा एतच् छन्दांसि विशन्ति यद् एतानि द्वे द्वे संयुञ्जन्ति। क्व ह्य् अद्यतनं च श्वस्तनं चाहनी संपत्स्यतः। सर्वाण्य् एव सप्त चतुरुत्तराण्य् उपेत्यानीति। गायत्रीम् एव प्रथमे ऽहन्न् उपेत्योष्णिहं द्वितीये ऽनुष्टुभं तृतीये बृहत्या पञ्च मासस् समापयेयुः। पंक्तिम् एव प्रथमे ऽहन्न् उपेत्य त्रिष्टुभा षण् मासस् समापयेयुर् एकच्छन्दः परिशिष्य। जगतीं तद् विषुवत्य् उपेयुः। जागतो वै विषुवान्। स्व एव तद् आयतने विषुवन्तं समर्धयन्ति। छन्दांसि वै स्वर्गो लोकः। स्वर्गम् एव तल् लोकं रोहन्तो यन्ति॥2.381॥
 
 
पङ्क्तिः ३१:
स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश् चर्षयश् चाभिषज्यन्। त एतानि दिवाकीर्त्यानि सामान्य् अपश्यन्। तैर् अस्य तमो ऽपाघ्नन्। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य्, आदित्यस्यैवैतैस् तमो ऽपघ्नन्ति। यादृग् अह वै मनुष्यो देवेभ्यः करोति, तादृग् अस्मै देवाः कुर्वन्ति। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् आत्मन एवैतैस् तमो ऽपघ्नते। भ्राजाभ्राजे पवमानयोर् मुखे भवतः। अङ्गेभ्य एवास्य तत् तमो ऽपघ्नन्ति। महादिवाकीर्त्यं पृष्ठं, विकर्णं ब्रह्मसाम। मध्यत एवास्य तत् तमो ऽपघ्नन्ति। दशस्तोभं भासम् अग्निष्टोमसाम। शीर्षत एवास्य तत् तमो ऽपघ्नन्ति। असाव् आदित्य एकविंशो विषुवांस्, तस्य दिवाकीर्त्यान्य् एव रश्मयः। तद् यद् एतानि दिवाकीर्त्यानि भवन्त्य् एतम् एवैतैः पर्यूहन्त्य्, एतं समर्धयन्ति। तद् आहुः केन संवत्सरसद स्वर्गलोक इति। मूर्धानं दिवो अरतिं पृथिव्या इत्य् अग्निष्टोमसाम भवतीति ब्रूयात्। तेनेति। असौ वै दिवो मूर्धा यो ऽसौ तपत्य्, एतम् एवैतेनाभ्यारोहन्ति। तद् आहुः - प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते, य एतम् अभ्यारोहन्तीति। अरतिं पृथिव्या इति भवति। अयं वै लोको ऽरतिः पृथिव्या, अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। दशस्तोभं भासम् अग्निष्टोसाम भवति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै। ईश्वरा ह त्व् अन्यस्मै मूर्धन्न् अन्नाद्यं हर्तोर् य एतासु मूर्धन्वतीष्व् अग्निष्टोमसाम कुर्वन्तीति। तद् अनुष्टुभ्य् एव कार्यम्। वाग् वा अनुष्टुब् अन्नं दशस्तोभम्। मुखतो वै वाग् इयं, मुखत एवैतद् आत्मनो ऽन्नाद्यं दधते, तस्माद् अनुष्टुभ्य् एव कार्यम् इति॥2.390॥
 
</span></poem>