"जैमिनीयं ब्राह्मणम्/काण्डम् २/४११-४२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170%">तद् आहुस् तवश्शाव्यम् एवैतस्याह्नः पृष्ठं कार्यम् इति। देवा वै यद् अग्रे व्रतं समभरंस् तत् तवश्शाव्यम् अभवत्। तद् यद् एतस्याह्नस् तवश्शाव्यं पृष्ठं भवति, व्रतम् एवैतत् प्रत्यक्षम् उपयन्ति। तद् उ वा आहुर् दुष्प्रज्ञाना वै तवश्शाव्यस्य स्तोभाः पदवृत्तीः प्रस्तावाः प्रतिहारा देवता निधनानि। वामदेव्यम् एवैतस्याह्नः पृष्ठं कार्यम् इति। आत्मा वै व्रतस्य वामदेव्यम्। स यथागत्य गृहान् न विन्देत् तादृक् तद् यद् एतस्याह्नोऽन्यद् वामदेव्यात् पृष्ठं कुर्युः। तद् आहु - स्वारं न पृष्ठतायै। तत्स्थानं राजनम् एवैतस्याह्नः पृष्ठं कार्यम् इति। राजनेन वै प्रजापतिः प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यम् अगच्छत्। तद् येन प्रजापतिः प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यम् अगच्छत्, तेन प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यं गच्छामेति। परोक्षम् इव ह खलु वा एतद् वामदेव्यं यद् राजनम्। राजनं पृष्ठं भवति। वामदेव्यं मैत्रावरुणसाम। पञ्चनिधनं वामदेव्यं ब्रह्मसाम। सामाभिपूर्वम् एवैतद् वामदेव्येन मध्यत आत्मानं संदधतो यन्ति॥2.411॥
 
 
पङ्क्तिः ३०:
अथ यद् वो ऽवोचं षड्भ्य स्म हरित्मतीभ्यो मेतेतीळाविभक्तिर् एव वस् तद् अवोचम्, इळाभि स्म बृहतीर् आरभध्वम् इत्य् एव वस् तद् अवोचम् इति। ता एताष् षड् हरित्मतीः। स यथा षड् ढरित्मतीर् अश्वतरीस् संयुज्य यत्र जिगमिषेत् तद् गच्छेद्, एवम् एवैताभिर् इळाविभक्तिभि स्वर्गं लोकम् अभ्यश्नुवते। तस्माद् इळाभिर् एव बृहतीर् आरभ्या॥2.420॥
 
</span></poem>