"जैमिनीयं ब्राह्मणम्/काण्डम् २/४३१-४४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170%">ते सतिसदो ह वा अन्ये सत्रसदो ऽन्ये। सत्येवान्ये सीदन्ति सत्रम् अन्य आसते। ते हैव सतिसदो य एवं विद्वांसो दीक्षन्ते। एतासु हि देवतासु सति सीदन्तो यन्ति। ते ह ते सर्वं पाप्मानम् अपघ्नते। अथ य एते शिखाच्छिन्नाः प्रसर्पम् इच्छमाना आवेष्टन्ते ते हैव सत्रसदः। य एवं विद्वांसम् उपवदति यथैता देवता ऋत्वानीयाद् एवं नेत्य् एतासु ह्य् एवैनं देवतासु प्रपन्नम् एतासु वसन्तम् उपवदति तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स आर्तिम् आर्च्छति।
 
तानि वा एतानि संवत्सरस्य दशैवाहान्य् - अतिरात्राव् आरम्भणीयमहाव्रतीये अहनी पृष्ठ्याभिप्लवौ विश्वजिदभिजितौ स्वरसामानश् च विषुवांश् च। प्रवतिर् ह कौशान्तेयः कुसुर्विन्दस्यौद्दालकेर् ब्रह्मचार्य् आस। तं होवाचां सोम्य सूतपुत्र, कति ते पिता संवत्सरस्याहान्य् अमन्यतेति। दशेति होवाच। दश वावेति होवाच - दशाक्षरा विराड्, अन्नं विराड्, वैराजो यज्ञः। कत्य् एवामन्यतेति। नवेति होवाच। नव वावेति होवाच। नव वै पुरुषे प्राणाः। प्राणैर् उ यज्ञस् तायते। कत्य् एवामन्यतेति । अष्टाव् इति होवाच। अष्टौ वावेति होवाच। अष्टाक्षरा गायत्री। गायत्रो यज्ञः। कत्य् एवामन्यतेति। सप्तेति होवाच। सप्त वावेति होवाच। सप्त वै छन्दांसि, छन्दोभिर् यज्ञस् तायते। कत्य् एवामन्यतेति। षड् इति होवाच। षड् वावेति होवाच। षड् वा ऋतवस् संवत्सरः। संवत्सरो यज्ञः। कत्य् एवामन्यतेति। पञ्चेति होवाच। पञ्च वावेति होवाच। पांक्तो यज्ञः। पांक्ताः पशवः। पशवो यज्ञः। कत्य् एवामन्यतेति। चत्वारीति होवाच। चत्वारि वावेति होवाच। चतस्रो दिशश् , चतुष्पदाः पशवश्, चत्वारि छन्दांसि यज्ञवाहः - गायत्री त्रिष्टुब् जगत्य् अनुष्टुप्। कत्य् एवामन्यतेति। त्रीणीति होवाच। त्रीणि वावेति होवाच। त्रिषवणो यज्ञस्, त्रयः प्राणापानव्यानास्, त्रय इमे लोकाः। कत्य एवामन्यतेति । द्वे इति होवाच। द्वे वावेति होवाच। अहोरात्राव् एवेति। द्वाव् इमौ लोकाव् आविष्टमाव् इव, द्वौ प्राणापानौ, द्विपात् पुरुषः। कत्य् एवामन्यतेति। एकम् इति होवाच। एकं वावेति होवाच। अहर् एवेति। तद् इदम् अहर् अभूद्, अह श्वो भविता। तद् एतद् अहर् अहर् इत्य् एव प्रोच्यते। सा हैषा संवत्सरस्य प्रतिष्ठा यद् अहः। स यो हास्यैतां प्रतिष्ठां वेद, प्रतितिष्ठति। एषो एवास्यैकता। स यो हास्यैताम् एकतां वेदैकधा हैनं भूत्वा श्रीस् सचते। तद् आहुर् भूतं भूया3भविष्या3द् इति। भूतम् एव भूयो भविष्यत इति ब्रूयात्। भूता इमे लोका भूतो ऽयम् अग्निर् वायुर् असाव् आदित्य इन्द्रश् चन्द्रमाः। एते वै भूतस्य भविष्यतश् चेशते। तस्माद् भूतम् एव भूयो भविष्यत इति॥2.431॥
पङ्क्तिः २३:
 
तस्यैतौ श्लोकाव् -
<poem>अयुजो युक्ताः प्रवहन्त्य् अग्रे ततो युग्मन्तो अनुसंवहन्ति।
त एकछन्दोभिस् संवत्सरा द्वादश परिसर्पन्ति मासः॥
द्वादशस्य मास उत्तमे ऽहन् षट्त्रिंशं ह दध्रिरे व्यावृत्।
एकं ततो युग्मभिर् व्ययुञ्जताध्य् अन्य आयन् सुवर् अन्ये परायन्॥ </poem>
इति। तस्य द्वादश स्तोत्राणि भवन्ति। तेनाग्निष्टोमः। तान्य् उ एव द्वादश सन्ति पञ्चदश चतुर्विंशानि स्तोत्राणि भवन्ति। तेनोक्थ्यः। स वा एषो ऽग्निष्टोमस् सन्न् उक्थ्य, उक्थ्यस् सन्न् अग्निष्टोमः। उभौ ह तौ कामाव् उपाप्नोति यश् चाग्निष्टोमे यश चोक्थ्ये य एवं वेद॥2.438॥
 
पङ्क्तिः ३५:
अथ ह वै पणयो नामासुरा देवानां गोरक्षा आसुः। ताभिर् अहापातस्थुः। ता ह रसायां निरुध्य वलेनापिदधुः। ते देवा अलिक्लवम् ऊचुस् सुपर्णेमा नो गा अन्विच्छेति। तथेति। स हानुप्रपपात। ता हान्वाजगाम रसायाम् अन्तर् वलेनापिहिताः। तस्मै हान्वागताय सर्पिः क्षीरम् आमिक्षाम् दधीत्य् एतद् उपनिदधुः। तस्य ह सुहित आस। तं होचुस् सुपर्णैष एव ते बलिर् भविष्यत्य् एतद् अन्नं मा नः प्रवोच इति। स ह पुनर् आपपात। तं होचुस् सुपर्णाविदो गा इति। का कीर्तिश् चिद् गवाम् इति होवाच। एषैव कीर्तिर् गवाम् इति तस्य हेन्द्रो गलम् उत्पीळयन्न् उवाच गोष्व् एवाहं किल तवोषुषो मुखम् इति। स ह दधिद्रप्सं वामिक्षां वोदास। सो ऽयं बभूव यो ऽयं वसन्ता भूमिकपठुर् जायते। तं ह तच् छशापाश्लीलं जाल्म ते जीवनं भूयाद् यो नो गा अनुविद्य ता न प्रावोच इति। तस्य हैतद् ग्रामस्य जघनार्धे यत् पापिष्ठं तज् जीवनम्॥2.440॥
 
</span></poem>