"जैमिनीयं ब्राह्मणम्/काण्डम् २/४४१-४४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ते सरमाम् अब्रुवन् सरम इमा नस् त्वं गा अन्विच्छेति। तथेति सा हानुप्रससार। सा ह रसाम् आजगाम। एषा ह वै सा रसा यैषार्वाक् समुद्रस्य वापायती। तां होवाच प्लोष्ये त्वा गाधा मे भविष्यसीति। प्लवस्व मेति होवाच न ते गाधा भविष्यामीति। सा हावाच्य् कर्णौ प्लोष्यमाणा ससार। सा हेक्षांचक्रे कथं नु मा शुनी प्लवेत हन्तास्यै गाधासानीति। तां होवाच मा मा प्लोष्ठा गाधा ते भविष्यामीति। तथेति। तस्यै ह गाध आस। सा ह गाधेनातिससार। ता हान्वाजगाम रसायाम् अन्तर् वलेनापिहिताः। तस्यै हान्वागतायै तथैव सर्पिः क्षीरम् आमिक्षां दधीत्य् एतद् एवोपनिदधुः। सा होवाच नाहम् एतावद् अप्रिया देवानाम्। गा अविदं यद् वो ऽश्नीयाम्। त उ वै देवानां स्तेयं कृत्वा चरथैतासां वा अहं गवां पदवीर् अस्मि। न मा लापयिष्यध्व नेन्द्रस्य गा उपहरिष्यध्व इति। सा हानाशिष्य् उवास। सा ह जराय्व् अपास्तं विवेद। तद् ध चखाद। तां हैक उपजगौ त्यम् इव वै घ्नती सरमा जारु खादतीति। तद् इदम् अप्य् एतर्हि निवचनं त्यम् इव वै घ्नती सरमा जारु खादतीति। जरायु ह सा तच् चखाद। सा ह पुनर् आससार। तां होचुस् सरमे ऽविदो गा इति॥2.441॥
 
 
पङ्क्तिः ५:
 
 
</span></poem>