"जैमिनीयं ब्राह्मणम्/काण्डम् ३/०३१-०४०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य जैमिनीयं ब्राह्मणम्/काण्डम् ३/३१-४० पृष्ठं [[जैमिनीयं ब्राह्म...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">तासु सुज्ञानं । देवान् वा असुरा व्यवह्वारम् अजिघांसन् यद् रूपं देवानाम् आसीत् तेन रूपेणानुप्रविश्य - तेषां ह देवानां ये ऽरण्ये स्वाध्यायं चेरुर्, ये ग्राम आसुस्, तेषां तान् रूपेण जिघांसांचक्रुः। अथ ये ग्राम आसुर्, ये ऽरण्ये स्वाध्यायं चेरुर्, तेषाम् उ तान् रूपेण जिघांसांचक्रुः। तान् हैव व्यवंह्वारं जिघांसां चक्रुः। तद् देवाः प्रत्यबुध्यन्त। ते ऽब्रुवन् - संवाचनं करवामहा इति। ते संवाचनम् अकुर्वत - यं पृच्छाम चरन्तं कम् अच्छ चरसीति, इन्द्रम् अच्छ चरामीत्य एव स ब्रूताद् इति। ते ह स्म यं पृच्छन्ति चरन्तं - कम् अच्छ चरसीति, इन्द्रम् अच्छ चरामीति ह स्मैवाह। सुज्ञानो ऽसीति ह स्माहुः। तद् एव सुज्ञानस्य सुज्ञानत्वम्। तत् संज्ञानं वा एतत् साम। संज्ञानम् एवास्मै तेन भवति, येन कामयते ऽनेन संजानीयेति, य एवं वेद। तेषाम् उ यो य एव पृष्टो न प्रत्यमनुत, तस्यैतद् एव प्राघ्नन्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद।
देवा वै स्वर्गं लोकं यन्तो ज्ञानाद् अबिभयुः। ते ऽकामयन्त ज्ञानम् आविर्भावं गच्छेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ज्ञानम् आविर्भावम् अगच्छन्। ज्ञानम् आविर्भावं गच्छति य एवं वेद।
अयं पूषा रयिर् भगस् सोमः पुनानो अर्षति।
पङ्क्तिः ४४:
 
 
</span></poem>