"जैमिनीयं ब्राह्मणम्/काण्डम् ३/०४१-०५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">यद् यद् वै देवा यज्ञे ऽकुर्वत, तत् तद् व् एवासुरा अन्वकुर्वत। ते देवा अब्रुवन् - यद् यद् वाव वयं यज्ञे कुर्महे, तत् तन् नो ऽसुरा अनुकुर्वते। एतेमं त्रयं वेदं गाथया संसृजामेति। ते त्रयं वेदं गाथया संयुक्तं न्यास्यन्। तम् असुरा अब्रुवन् - न वा अयम् अभूद् यं गाथया समस्राक्षुः। एतेमं जहामेति। तम् अजहुः। तस्माद् धीनाद् देवा एतं गाथायै रसं प्रावृहन्त। स एष प्रगाथो ऽभवत्। तद् यद् गाथायै रसं प्रावृहन्त, तत् प्रगाथस्य प्रगाथत्वम्। स हैष रस एव प्रवृढः। रसेन हास्य स्तुतं भवति य एवं विद्वान् प्रगाथेन स्तुते। अथ ह वा अग्र ऋक् च गाथा च सदृश्याव् एवासतुर्, तान्यान्याम् अति। ते आजिम् ऐताम्। सैतम् ऋग् गाथायै रसं प्रावृहत। स एष प्रगाथो ऽभवत्। तद् यद् गाथायै रसं प्रावृहत, तद् व् एव प्रगाथस्य प्रगाथत्वम्। स हैष् रस एव प्रवृढः। रसेन हास्य स्तुतं भवति य एवं विद्वान् प्रगाथेन स्तुते॥3.41॥
 
तस्मिन्न् उ ह देवा विराजम् अन्नाद्यं ददृशुर् मिथुनं प्रजननम्। तद् यच् चतुष्पदा प्रथमा भवति त्रिपदे उत्तरे द्वे, तानि दश पदानि संपद्यन्ते। दशाक्षरा विराड्, अन्नं विराट्। एतां ह तद् ददृशुः। अथ यद् बृहतीति पूर्वाम् आचक्षते प्रगाथ इत्य् उत्तरे तद् उ मिथुनं प्रजननम्। तस्मिन्न् उ हैव वसिष्ठो विराजम् अन्नाद्यं ददर्शाचतुरं मिथुनं प्रजननम्। तद् यच् चतुष्पदा प्रथमा भवति द्विपद उत्तरास् तिस्रस् तानि दश पदानि संपद्यन्ते। दशाक्षरा विराड्, अन्नं विराट्। एतां ह तद् ददर्श। एकेति तद् एका, द्वे इति तत् तिस्रस्, तिस्र इति तत् षट्, चतस्र इति तद् दश। सो एव विराट्। एक इत्य एकेति, द्वाव् इति द्वे इति, त्रय इति तिस्र इति, चत्वार इति चतस्र इत्य्, एतद् वा आचतुरं मिथुनं प्रजननम्। प्र मिथुनेन जायते य एवं वेद॥3.42॥
पङ्क्तिः २५:
 
 
</span></poem>