"ऋग्वेदः सूक्तं १.४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
 
{{सायणभाष्यम्|
‘एषो उषाः' इति पञ्चदशर्चं तृतीयं सूक्तं प्रस्कण्वस्यार्षम्। इदमुत्तरं चाश्विनं गायत्रीच्छन्दस्कम् । अत्रानुक्रमणिका -’एषो पञ्चोनाश्विनं तु गायत्रम् ' इति । प्रातरनुवाके आश्विने क्रतौ गायत्रीच्छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । अथाश्विन एषो उषाः' (आश्व. श्रौ. ४. १५) इति सूत्रितम् ॥
 
 
ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः ।
 
स्तु॒षे वा॑मश्विना बृ॒हत् ॥१
 
ए॒षो इति॑ । उ॒षाः । अपू॑र्व्या । वि । उ॒च्छ॒ति॒ । प्रि॒या । दि॒वः ।
 
स्तु॒षे । वा॒म् । अ॒श्वि॒ना॒ । बृ॒हत् ॥
 
एषो इति । उषाः । अपूर्व्या । वि । उच्छति । प्रिया । दिवः ।
 
स्तुषे । वाम् । अश्विना । बृहत् ॥
 
“एषो एषैवास्माभिः परिदृश्यमाना "प्रिया सर्वेषां प्रीतिहेतुः "अपूर्व्या पूर्वेषु मध्यरात्रादिकालेषु विद्यमाना न भवति, किंतु इदानींतनी "उषाः उषोदेवता “दिवः द्युलोकस्य सकाशादागत्य “व्युच्छति तमो वर्जयति । हे अश्विनौ “वां युवां "बृहत् प्रभूतं यथा भवति तथा “स्तुषे स्तौमि ।। स्तुषे । ‘ष्टुञ् स्तुतौ । तिङां तिङो भवन्ति' इति उत्तमैकवचनस्य मध्यमैकवचनादेशः । यद्वा । लेटि उत्तमैकवचने ‘सिब्बहुलं लेटि' इति सिप् ॥
 
 
या द॒स्रा सिन्धु॑मातरा मनो॒तरा॑ रयी॒णाम् ।
 
धि॒या दे॒वा व॑सु॒विदा॑ ॥२
 
या । द॒स्रा । सिन्धु॑ऽमातरा । म॒नो॒तरा॑ । र॒यी॒णाम् ।
 
धि॒या । दे॒वा । व॒सु॒ऽविदा॑ ॥
 
या । दस्रा । सिन्धुऽमातरा । मनोतरा । रयीणाम् ।
 
धिया । देवा । वसुऽविदा ॥
 
"या "देवा यावुभावश्विनौ वक्ष्यमाणगुणयुक्तौ तौ स्तुषे इति पूर्वत्रान्वयः । कीदृशौ । "दस्रा दस्रौ दर्शनीयौ “सिन्धुमातरा समुद्रमातृकौ । यद्यपि सूर्याचन्द्रमसावेव समुद्रजौ तथाप्यश्विनोः केषांचिन्मते तद्रूपत्वात् तथात्वम् । “रयीणां धनानां “मनोतरा मनसा तारयितारौ “धिया कर्मणा "वसुविदा निवासस्थानस्य लम्भयितारौ ॥ मनोतरा । मनसा तरतः इति मनोतरौ । तरतेः अन्तर्भावितण्यर्थात् ‘ऋदोरप्' इति अप् । पूर्वपदान्तस्य सकारस्य रुत्वे सति छान्दसम् उत्वम्। रयीणाम् । नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । धिया। सावेकाचः०' इति विभक्तेरुदात्तत्वम् । वसुविदा । वसूनि निवासस्थानानि विन्देते इति वसुविदौ । ‘क्विप् च ' इति क्विप् ॥
 
 
व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ ।
 
यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥३
 
व॒च्यन्ते॑ । वा॒म् । क॒कु॒हासः॑ । जू॒र्णाया॑म् । अधि॑ । वि॒ष्टपि॑ ।
 
यत् । वा॒म् । रथः॑ । विऽभिः॑ । पता॑त् ॥
 
वच्यन्ते । वाम् । ककुहासः । जूर्णायाम् । अधि । विष्टपि ।
 
यत् । वाम् । रथः । विऽभिः । पतात् ॥
 
हे अश्विनौ "वां युवयोः संबन्धी "रथः "जूर्णायां नानाशास्त्रैः स्तुतायाम् "अधि "विष्टपि स्वर्गलोके "यत् यदा “विभिः अश्वैः "पतात् पतति गच्छति तदानीं "वां युवयोः "ककुहासः स्तुतयः “वच्यन्ते अस्माभिरुच्यन्ते ॥ वच्यन्ते । ब्रवीतेर्यकि ‘ब्रुवो वचिः' (पा. सू. २. ४. ५३ ) इति वच्यादेशः । ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । ‘ संप्रसारणाच्च' इत्यत्र ‘वा छन्दसि' इत्यनुवृत्तेः परपूर्वत्वस्य पाक्षिकत्वात् यणादेशः । प्रत्ययस्वरः । ककुहासः । ककुभं शृङ्गे विदुः प्रधाने च ' इत्यभिधानात् प्राधान्याभिधायिना ककुप्शब्देन तत्प्रतिपादिकाः स्तुतयो लक्ष्यन्ते । हत्वं छान्दसम् । ‘आज्जसेरसुक्' इति असुक् । जूर्णायाम् । “ जॄष् वयोहानौ' । अत्र स्तुत्यर्थो धातूनामनेकार्थत्वात् । निष्ठायां ‘श्न्युकः किति ' इति इट्प्रतिषेधः । ‘बहुलं छन्दसि ' इति उत्वम् । हलि च ' इति दीर्घः । ‘रदाभ्याम् । (पा. सू. ८. २. ४२ ) इति निष्ठानत्वम् । प्रत्ययस्वरः । विभिः । वी गत्यादौ । वियन्ति गच्छन्तीति वयः अश्वाः । औणादिको डिप्रत्ययः । पतात् । ‘पत्लृ गतौ '। लेटि आडागमः । ‘इतश्च लोपः' इति इकारलोपः ॥
 
 
ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा ।
 
पि॒ता कुट॑स्य चर्ष॒णिः ॥४
 
ह॒विषा॑ । जा॒रः । अ॒पाम् । पिप॑र्ति । पपु॑रिः । न॒रा॒ ।
 
पि॒ता । कुट॑स्य । च॒र्ष॒णिः ॥
 
हविषा । जारः । अपाम् । पिपर्ति । पपुरिः । नरा ।
 
पिता । कुटस्य । चर्षणिः ॥
 
हे अश्विनौ देवौ "अपां “जारः स्वकीयतापेनोदकानां जरयिता सूर्यः “हविषा अस्मद्दत्तेन “पिपर्ति देवान् पूरयति । उदिते सूर्ये हविष्प्रदानात् सूर्यस्य पूरकत्वं द्रष्टव्यम् । अतः सूर्योदयकाले युवाभ्यामागन्तव्यमित्यर्थः । कीदृशो जारः । "पपुरिः उक्तक्रमेण पूरणस्वभावः "पिता पालकः "कुटस्य “चर्षणिः कर्मणो द्रष्टा । अत्र निरुक्तं- हविषापां जरयिता पिपर्ति पपुरिरिति पृणातिनिगमौ वा प्रीणातिनिगमौ वा पिता कृतस्य कर्मणश्चायितादित्यः' (निरु. ५, २४ ) इति ॥ जारः। जयतीति जारः आदित्यः । ‘दारजारौ कर्तरि णिलुक् च ' ( पा. सू. ३. ३. २०.४ ) इति घञन्तो निपातितः। ‘कर्षात्वतः' इत्यन्तोदात्तत्वम् । अपाम् ।' उडिदम्' इति विभक्तेरुदात्तत्वम् । पिपर्ति । पॄ पालनपूरणयोः'। तिपि जुहोत्यादित्वात् शपः श्लुः। ‘अर्तिपिपर्त्योश्च' इति अभ्यासस्य इत्वम् । अनुदात्ते च ' इति अभ्यस्तस्याद्युदात्तत्वम् । पपुरिः । ‘आदृगमहन ' इति किन्प्रत्ययः । लिड्वद्भावात् कित्त्वे सिद्धेऽपि पुनः कित्करणसामर्थ्यात् ' ऋच्छत्यॄताम् ( प. सू. ७. ४. ११) इति गुणाभावः। ‘उदोष्ठ्यपूर्वस्य ' इति उत्वम्। नित्त्वादाद्युदात्तत्वम् ॥
 
 
आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा ।
 
पा॒तं सोम॑स्य धृष्णु॒या ॥५
 
आ॒दा॒रः । वा॒म् । म॒ती॒नाम् । नास॑त्या । म॒त॒ऽव॒च॒सा॒ ।
 
पा॒तम् । सोम॑स्य । धृ॒ष्णु॒ऽया ॥
 
आदारः । वाम् । मतीनाम् । नासत्या । मतऽवचसा ।
 
पातम् । सोमस्य । धृष्णुऽया ॥
 
हे “मतवचसा अभिमतस्तोत्रौ “नासत्या अश्विनौ “वां युवयोः “मतीनां बुद्धीनाम् “आदारः प्रेरको यः सोमोऽस्ति “सोमस्य तं सोमं “पातं युवां पिबतम् । कीदृशं सोमम् । “धृष्णुया धर्षणशीलम् । मदकरत्वेन तीव्रमित्यर्थः ॥ आदारः। ‘दृङ् आदरे । आदारयतीति आदारः।' दारजारौ कर्तरि णिलुक्च' इति घञ्प्रत्ययः । थाथादिना उत्तरपदान्तोदात्तत्वम् । मतीनाम् । 'नामन्यतरस्याम् इति नाम उदात्तत्वम् । मतवचसा । मतमभिमतं स्तोत्ररूपं वचो ययोस्तौ । ‘सुपां सुलुक्' इति विभक्तेः आकारः । पातम् । ‘पा पाने '।' बहुलं छन्दसि' इति शपो लुकि सति ‘पाघ्रा ' इत्या दिना पिबादेशो न भवति । सोमस्य । क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। धृष्णुया। ‘सुपां सुलुक्' इति विभक्तेः याजादेशः ॥ ॥ ३३ ॥
 
 
या न॒ः पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः ।
 
ताम॒स्मे रा॑साथा॒मिष॑म् ॥६
 
या । नः॒ । पीप॑रत् । अ॒श्वि॒ना॒ । ज्योति॑ष्मती । तमः॑ । ति॒रः ।
 
ताम् । अ॒स्मे इति॑ । रा॒सा॒था॒म् । इष॑म् ॥
 
या । नः । पीपरत् । अश्विना । ज्योतिष्मती । तमः । तिरः ।
 
ताम् । अस्मे इति । रासाथाम् । इषम् ॥
 
हे “अश्विना “ज्योतिष्मती रसवीर्यादिरूपज्योतिर्युक्ता “या इट् अन्नं “नः अस्मान् “पीपरत् पारयेत् तृप्तिं प्रापयेत् । किं कृत्वा । “तमः दारिद्र्यरूपमन्धकारं “तिरः अन्तर्हितं विनष्टं कृत्वा "ताम् "इषं तादृशमन्नम् “अस्मे अस्मभ्यं “रासाथां युवां दत्तम् ॥ पीपरत् ।' पॄ पालनपूरणयोः । ण्यन्तात् लुङि चङि णिलोपः । उपधाह्रस्वत्वद्विर्भावहलादिशेषसन्वद्भावेत्वदीर्घाः । बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः।‘चङ्यन्यतरस्याम्' (पा. सू. ६.१. २१८) इति उपोत्तमस्य धात्वकारस्योदात्तत्वे प्राप्ते व्यत्ययेन अभ्यासस्योदात्तत्वम् । यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । अस्मे । 'सुपां सुलुक्' इति चतुर्थीबहुवचनस्य शेआदेशः । रासाथाम् । “रा दाने '। छान्दसे प्रार्थनायां लुङि व्यत्ययेनात्मनेपदम् । च्लेः सिच् । ‘एकाचः' इति इट्प्रतिषेधः । पूर्ववत् अडभावः । ‘तिङ्ङतिङः' इति निघातः ।।
 
 
आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे ।
 
यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥७
 
आ । नः॒ । ना॒वा । म॒ती॒नाम् । या॒तम् । पा॒राय॑ । गन्त॑वे ।
 
यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ॥
 
आ । नः । नावा । मतीनाम् । यातम् । पाराय । गन्तवे ।
 
युञ्जाथाम् । अश्विना । रथम् ॥
 
हे “अश्विना “मतीनां स्तुतीनां “पाराय “गन्तवे पारं गन्तुं “नावा नौरूपेण गमनसाधनेन “नः अस्मान् प्रति “आ “यातं समुद्रमध्यादागच्छतम् । भूमावागन्तुं “रथं भवदीयं “युञ्जाथां साश्वं कुरुतम् ॥ नावा। सावेकाचः' इति विभक्तेरुदात्तत्वम् । गन्तवे । ‘तुमर्थे सेसेन्' इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । युञ्जाथाम् । ‘युजिर् योगे'। लोटि आथामि रुधादित्वात् श्नम् । 'श्नसोरल्लोपः' इति अकारलोपः । प्रत्ययस्वरः ॥
 
 
अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथ॑ः ।
 
धि॒या यु॑युज्र॒ इन्द॑वः ॥८
 
अ॒रित्र॑म् । वा॒म् । दि॒वः । पृ॒थु । ती॒र्थे । सिन्धू॑नाम् । रथः॑ ।
 
धि॒या । यु॒यु॒ज्रे॒ । इन्द॑वः ॥
 
अरित्रम् । वाम् । दिवः । पृथु । तीर्थे । सिन्धूनाम् । रथः ।
 
धिया । युयुज्रे । इन्दवः ॥
 
हे अश्विनौ “वां युवयोः “दिवस्पृथु द्युलोकादपि विस्तीर्णम् "अरित्रं गमनसाधनं नौरूपं “सिन्धूनां समुद्राणां “तीर्थे अवतरणप्रदेशे विद्यते इति शेषः । “रथः च भूमौ गन्तुं विद्यते । “इन्दवः सोमाः “धिया भवद्विषयेण कर्मणा “युयुज्रे युक्ता बभूवुः ॥ अरित्रम् ।’’ ऋ गतौ ' । ‘अर्तिलूधूसूखनसहचर इत्रः' (पा. सू. ३. २. १८४) इति करणे इत्रप्रत्ययः । प्रत्ययस्वरः । दिवः । ऊडिदम्' इति विभक्तेरुदात्तत्वम् । तीर्थे । 'तॄ प्लवनतरणयोः' । पातॄतुदिवचिरिचिसिचिभ्यस्थक्' (उ. सू. २. १६४) इति थक् । 'ऋत इद्धातोः' इति इत्वम् । ‘हलि च' इति दीर्घः । युयुज्रे । लिटि ‘इरयो रे ' (पा. सू. ६. ४. ७६ ) इति इरेचो रेआदेशः ॥
 
 
दि॒वस्क॑ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू॑नां प॒दे ।
 
स्वं व॒व्रिं कुह॑ धित्सथः ॥९
 
दि॒वः । क॒ण्वा॒सः॒ । इन्द॑वः । वसु॑ । सिन्धू॑नाम् । प॒दे ।
 
स्वम् । व॒व्रिम् । कुह॑ । धि॒त्स॒थः॒ ॥
 
दिवः । कण्वासः । इन्दवः । वसु । सिन्धूनाम् । पदे ।
 
स्वम् । वव्रिम् । कुह । धित्सथः ॥
 
हे “कण्वासः कण्वपुत्राः । यद्वा । मेधाविन ऋत्विजः । अश्विनावित्थं पृच्छतेति शेषः । कथमिति तदुच्यते । “दिवः द्युलोकसकाशात् “इन्दवः सूर्यरश्मयः प्रादुर्भूताः । “सिन्धूनाम् अपां वृष्टिरूपाणां स्यन्दनस्वभावानां “पदे स्थानेऽन्तरिक्षे “वसु अस्मदादिनिवासहेतुभूतमुषःकालीनं ज्योतिराविर्भूतमिति शेषः । अस्मिन्नवसरे युवां “स्वं “वव्रिं स्वकीयं रूपं “कुह “धित्सथः कुत्र स्थापयितुमिच्छथः । अत्रागत्य प्रदर्शनीयमिति तात्पर्यार्थः ॥ कुह ।' वा ह च च्छन्दसि ' ( पा. सू. ५. ३. १३) इति किंशब्दात् सप्तम्यर्थे हप्रत्ययः ।' कु तिहोः ' ( पा. सू. ७. २. १०४ ) इति किमः कुः । धित्सथः । ‘डुधाञ् धारणपोषणयोः'। सनि मीमाघुरभलभशकपतपदामच इस्' (पा. सू. ७. ४. ५४) इति आकारस्य इसादेशः । अत्र लोपोऽभ्यासस्य ' (पा. सू. ७. ४, ५८ ) इति अभ्यासलोपः । ‘सः स्यार्थधातुके '(पा, सू. ७. ४, ४९ ) इति सकारस्य तकारः ॥
 
 
अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्य॑ः ।
 
व्य॑ख्यज्जि॒ह्वयासि॑तः ॥१०
 
अभू॑त् । ऊं॒ इति॑ । भाः । ऊं॒ इति॑ । अं॒शवे॑ । हिर॑ण्यम् । प्रति॑ । सूर्यः॑ ।
 
वि । अ॒ख्य॒त् । जि॒ह्वया॑ । असि॑तः ॥
 
अभूत् । ऊं इति । भाः । ऊं इति । अंशवे । हिरण्यम् । प्रति । सूर्यः ।
 
वि । अख्यत् । जिह्वया । असितः ॥
 
"भा “उ सूर्यस्य दीप्तिस्तु "अंशवे उषःकालीनरश्मिसिद्ध्यर्थम् “अभूदु प्रादुर्भूतैव । "सूर्यः च “हिरण्यं "प्रति स्वकीयोदयेन हिरण्यसदृशोऽभूत् । अग्निश्च “असितः स्वकीयदीप्तेः सूर्यप्रवेशेन स्वयं कृष्णो भूत्वा "जिह्वया स्वकीयया ज्वालया “व्यख्यत् प्रकाशितवान् । तस्मादयमश्विनोर्युवयोरागमनकाल इत्यर्थः ॥ अभूत् । ‘भूसुवोस्तिङि' इति गुणप्रतिषेधः । हिरण्यं प्रति ।' प्रतिः प्रतिनिधिप्रतिदानयोः' (पा. सू. १. ४. ९२ ) इति प्रते: कर्मप्रवचनीयत्वम् । ‘कर्मप्रवचनीययुक्ते द्वितीया' (पा. सू. २. ३. ८) इति द्वितीया । अख्यत् । ‘चक्षिङ् व्यक्तायां वाचि' । लुङि ‘चक्षिङः ख्याञ् ' इति ख्याञादेशः ॥ ॥ ३४ ॥
 
 
अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या ।
 
अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥११
 
अभू॑त् । ऊं॒ इति॑ । पा॒रम् । एत॑वे । पन्थाः॑ । ऋ॒तस्य॑ । सा॒धु॒ऽया ।
 
अद॑र्शि । वि । स्रु॒तिः । दि॒वः ॥
 
अभूत् । ऊं इति । पारम् । एतवे । पन्थाः । ऋतस्य । साधुऽया ।
 
अदर्शि । वि । स्रुतिः । दिवः ॥
 
“ऋतस्य सूर्यस्य "पारमेतवे रात्रेः पारभूतमुदयाद्रिं गन्तुं “पन्थाः मार्गः “साधुया समीचीनः "अभूदु निष्पन्न एव । "दिवः द्योतनात्मकस्य सूर्यस्य "स्रुतिः प्रसृता दीप्तिः “वि “अदर्शि विशेषेण दृष्टा । तस्मादश्विनौ युवाभ्यामागन्तव्यम् । एतवे । इण् गतौ'। ‘तुमर्थे सेसेन्' इति तवेन्प्रत्ययः। साधुया। ‘सुपां सुलुक्' इति विभक्तेः याजादेशः । अदर्शि। कर्मणि लुङि च्लेः चिणादेशः । ‘चिणो लुक्' (पा. सू. ६. ४. १०४ ) इति तशब्दस्य लुक् । स्रुतिः । “स्रु गती'। ‘क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् ॥
 
 
तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति ।
 
मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥१२
 
तत्ऽत॑त् । इत् । अ॒श्विनोः॑ । अवः॑ । ज॒रि॒ता । प्रति॑ । भू॒ष॒ति॒ ।
 
मदे॑ । सोम॑स्य । पिप्र॑तोः ॥
 
तत्ऽतत् । इत् । अश्विनोः । अवः । जरिता । प्रति । भूषति ।
 
मदे । सोमस्य । पिप्रतोः ॥
 
“जरिता स्तोता "अश्विनोः संबन्धि “तत्तदित् पुनः पुनः कृतं सर्वमपि “अवः अस्मद्विषयं रक्षणं “प्रति “भूषति प्रत्येकमलंकरोति । तदा तदा प्रशंसतीत्यर्थः । कीदृशयोरश्विनोः । “मदे हर्षे निमित्तभूते सति "सोमस्य "पिप्रतोः सोमं पूरयतोः ॥ भूषति । ‘ भूष अलंकारे' । भौवादिकः । पिप्रतोः । ‘पॄ पालनपूरणयोः' । पृ इत्येके। अस्माल्लटः शतृ । जुहोत्यादित्वात् शपः श्लुः। द्विर्भावोरदत्वहलादिशेषाः । ‘अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । शतुर्ङित्त्वात् गुणाभावे यणादेशः । ‘अभ्यस्तानमादिः ' इत्याद्युदात्तत्वम् ॥
 
 
वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा ।
 
म॒नु॒ष्वच्छ॑म्भू॒ आ ग॑तम् ॥१३
 
व॒व॒सा॒ना । वि॒वस्व॑ति । सोम॑स्य । पी॒त्या । गि॒रा ।
 
म॒नु॒ष्वत् । श॒म्भू॒ इति॑ शम्ऽभू । आ । ग॒त॒म् ॥
 
ववसाना । विवस्वति । सोमस्य । पीत्या । गिरा ।
 
मनुष्वत् । शम्भू इति शम्ऽभू । आ । गतम् ॥
 
हे "शंभू सुखस्य भावयितारावश्विनौ "मनुष्वत् मनाविव “विवस्वति परिचरणवति यजमाने “ववसाना निवासशीलौ युवां “सोमस्य “पीत्या सोमस्य पाननिमित्तं "गिरा स्तुतिनिमित्तं च “आ “गतम् आगच्छतम् ॥ ववसाना । वस निवासे । ‘ताच्छील्यवयोवचन' (पा. सू. ३.२.१२९) इति ताच्छीलिकः चानश् । 'बहुलं छन्दसि' इति शपः श्लुः। अन्येषामपि दृश्यते' इति संहितायामभ्यासस्य दीर्घत्वम् ॥ ‘सुपां सुलुक्' इति विभक्तेः आकारः । “चितः' इत्यन्तोदात्तत्वम् । पीत्या । ‘पा पाने'। 'स्थागापापचो भावे' इति भावे क्तिन् । घुमास्था' इति ईत्वम् । व्यत्ययेनान्तोदात्तत्वम् । तृतीयैकवचने यणादेशे ‘उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । मनुष्वत् । ‘मन ज्ञाने'। मन्यते जानातीति मनुः । बहुलवचनात् औणादिक उसिप्रत्ययः । तत्र तस्येव' इति सप्तम्यर्थे वतिः । प्रत्ययस्वरः । गतम् । गमेर्लोटि' बहुलं छन्दसि ' इति शपो लुक् ।' अनुदात्तोपदेश° ' इत्यादिना अनुनासिकलोपः ॥
 
 
यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् ।
 
ऋ॒ता व॑नथो अ॒क्तुभि॑ः ॥१४
 
यु॒वोः । उ॒षाः । अनु॑ । श्रिय॑म् । परि॑ऽज्मनोः । उ॒प॒ऽआच॑रत् ।
 
ऋ॒ता । व॒न॒थः॒ । अ॒क्तुऽभिः॑ ॥
 
युवोः । उषाः । अनु । श्रियम् । परिऽज्मनोः । उपऽआचरत् ।
 
ऋता । वनथः । अक्तुऽभिः ॥
 
हे अश्विनौ “परिज्मनोः परितो गन्त्रोः “युवोः युवयोरुभयोः “श्रियम् “अनु आगमनरूपां शोभामनुसृत्य "उषाः “उपाचरत् उषःकालदेवता इहागच्छतु । युवयोरागतयोः सतोः पश्चादागतेत्यर्थः । युवां च “अक्तुभिः रात्रिभिः “ऋता यज्ञगतानि हवींषि “वनथः कामयेथे संभजेथे ॥ युवोः। युष्मच्छब्दात् षष्ठीद्विवचनस्य ‘सुपां सुपो भवन्ति' इति षष्ठीद्विवचनादेशः । अत आदेशविषयत्वात् ' योऽचि' इति यत्वाभावः । ‘शेषे लोपः '। परिज्मनोः । परितः अजतो गच्छत इति परिज्मानौ ।' श्वन्नुक्षन् ' इत्यादिना अजतेः मनिन्प्रत्ययान्तो निपातितः । ऋता । शेश्छन्दसि° ' इति शेर्लोपः । वनथः । ‘वन षण संभक्तौ । तिङ्ङतिङः' इति निघातः ॥
 
 
प्रवर्ग्ये पौर्वाह्णिके घर्मस्य हविषो द्वितीया याज्या ‘ उभा पिबतम्' इत्येषा । अथोत्तरम्' इति खण्डे सूत्रितम् - ’उभा पिबतमश्विनेति चोभाभ्यामनवानम् ' ( आश्व. श्रौ. ४. ७) इति । आश्विनशस्त्रेऽप्येषा द्वितीया याज्या । सूत्रितं च -’प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेति याज्ये (आश्व. श्रौ. ६. ५) इति ॥
 
उ॒भा पि॑बतमश्विनो॒भा न॒ः शर्म॑ यच्छतम् ।
 
अ॒वि॒द्रि॒याभि॑रू॒तिभि॑ः ॥१५
 
उ॒भा । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । उ॒भा । नः॒ । शर्म॑ । य॒च्छ॒त॒म् ।
 
अ॒वि॒द्रि॒याभिः॑ । ऊ॒तिऽभिः॑ ॥
 
उभा । पिबतम् । अश्विना । उभा । नः । शर्म । यच्छतम् ।
 
अविद्रियाभिः । ऊतिऽभिः ॥
 
हे "अश्विना “उभा युवामुभौ “पिबतं सोमपानं कुरुतम् । तत ऊर्ध्वम् "उभा युवामुभौ “अविद्रियाभिः प्रशस्ताभिः “ऊतिभिः रक्षाभिः “नः अस्मभ्यं “शर्म सुखं य“च्छतम् ॥ पिबतम् । ‘पा पाने '। लोटि शपि ‘पाघ्रा' इत्यादिना पिबादेशः । ‘अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य (पा. म. ७. ३.७८.२; परिभा.९२) इति वचनात् लघूपधगुणाभावः । यद्वा । आद्युदात्तोऽदन्तः पिबादेशः । ‘तिङ्ङतिङः ' इति निघातः । यच्छतम् । दाण् दाने '। लोटि शपि ‘पाघ्रा ' इत्यादिना यच्छादेशः । अविद्रियाभिः । ‘द्रा कुत्सायां गतौ । विपूर्वादस्माद्भावे औणादिकः किः। आतो लोप इटि च ' इति आकारलोपः । विद्रिर्निन्दा । तद्विरोधिनी अविद्रिः स्तुतिः । तां यान्तीत्यविद्रियाः । ‘अन्येभ्योऽपि दृश्यन्ते' इति विच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । ऊतिभिः । अवतेः क्तिनि ' ज्वरत्वर' इत्यादिना ऊठ्। ऊतियूति' इत्यादिना क्तिन उदात्तत्वम् ॥ ॥ ३५ ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणामात्येन विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये
प्रथमाष्टके तृतीयोऽध्यायः समाप्तः ॥
 
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४६" इत्यस्माद् प्रतिप्राप्तम्