"ऋग्वेदः सूक्तं १.११२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६२:
</span></poem>
{{सायणभाष्यम्|
‘ईळे ' इति पञ्चविंशत्यृचं सप्तमं सूक्तम् । आङ्गिरसस्य कुत्सस्यार्षम् । चतुर्विंशीपञ्चविंश्यौ त्रिष्टुभौ शिष्टास्त्रयोविंशतिर्जगत्यः । आद्यः पादो द्यावापृथिव्यः । द्वितीय आग्नेयः । शिष्टं सूक्तमाश्विनम् । तथा चानुक्रान्तम्-‘ईळे पञ्चाधिकाश्विनमाद्यौ पादौ लिङ्गोक्तदेवतावन्त्ये त्रिष्टुभौ ' इति । प्रवर्ग्ये अभिष्टवेऽप्येतत्सूक्तम् ॥ सूत्रितं च--’ग्रावाणेवेळे द्यावापृथिवी इति' (आश्व. श्रौ. ४. ६ ) इति । प्रातरनुवाके चाश्विने क्रतौ जागते छन्दस्येतत्सूक्तम् । सूत्रितं च -’अगन्म महातारिष्मेळे द्यावापृथिवी इति जागतम् ' ( आश्व. श्रौ. ४. १५ ) इति । आश्विनशस्त्रेऽप्येतत् ‘ प्रातरनुवाकन्यायेन ' ( आश्व. श्रौ. ६. ५) इति अतिदेशात् । तथा अप्तोर्यामे सन्ति चत्वार्यतिरिक्तोक्थानि। तत्राच्छावाकातिरिक्तोक्थे एतत्सूक्तम् ।' यस्य पशवः' इति खण्डे सूत्रितम्-‘ईळे द्यावापृथिवी उभा उ नूनम् ' (आश्व. श्रौ. ९. ११ ) इति ।।
 
 
ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ ।
 
Line ७३ ⟶ ७६:
 
याभिः । भरे । कारम् । अंशाय । जिन्वथः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
अहं “द्यावापृथिवी द्यावापृथिव्यौ “ईळे स्तौमि । किमर्थम् । “पूर्वचित्तये पूर्वमेवाश्विनोः प्रज्ञापनाय । ते ह्यश्विनोः प्रत्यासन्ने । यद्वा । द्यावापृथिवी अश्विनौ स्तौमि पूर्वचित्तये अन्यदीयात्स्तोत्रात्पूर्वमेवास्मदीयस्य स्तोत्रस्य प्रबोधनाय । तथा चोक्तं - ’तत्कावश्विनौ द्यावापृथिव्यावित्येके' ( निरु. १२. १) इति । अपि च “यामन् यामनि अश्विनोरागमने सति “इष्टये तदीययागार्थमाहवनीयरूपेण स्थापितम् “अग्निं स्तौमीति शेषः । कीदृशमग्निम् । “घर्मं प्रवृञ्जनेन दीप्तं “सुरुचम् अत एव शोभनकान्तियुक्तम् । हे अश्विनौ “भरे । संग्रामनामैतत् । संग्रामे “अंशाय युष्मदीयभागाय जयप्राप्त्यर्थं “याभिः ऊतिभिः पालनैः सहागत्य “कारम् । कारशब्दः शङ्खवाचीत्यभियुक्ताः संगिरन्ते । कारं शब्दकारिणं शङ्खं “जिन्वथः मुखेनापूरयथः “ताभिः तादृशैः “ऊतिभिः पालनैः सह। “उ इति समुच्चये । अस्मानपि सुष्ठु “आ “गतम् आगच्छतम् ॥ ईळे । ‘ईड स्तुतौ ' । उत्तमैकवचनम् इट् । अदादित्वात् शपो लुक् । अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । द्यावापृथिवी । द्यौश्च पृथिवी च । ‘दिवो द्यावा' इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दो ङीपन्तः अन्तोदात्तः । ‘देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । ‘°अपृथिवी ' इति पर्युदासात् ‘नोत्तरपदेऽनुदात्तादौ ' इति निषेधाभावः। ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । पूर्वचित्तये । ‘चिती संज्ञाने' । अस्मात् अन्तर्भावितण्यर्थात् भावे क्तिन् । मरुवृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सुरुचम् । ‘रुच दीप्तावभिप्रीत्यां च' संपदादिलक्षणो भावे क्विप् । शोभना रुग्यस्य । ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यामन् । ' या प्रापणे ' । आतो मनिन् ' इति ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् भावे मनिन् । कारम् । क्रियतेऽनेनेति कारः । करणे घञ् । 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । जिन्वथः । ‘जिवि प्रीणनार्थः । अत्र प्रीणनहेतुभूतमापूरणं लक्ष्यते । धनेनापूरितो हि पुरुषः प्रीतो भवति । इदित्त्वात् नुम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङः अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते ।' यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । तत्र हि व्यवहितेऽपि कार्यमिष्यते (का. ८. १. ६६ ) इत्युक्तम् । ऊ षु ।“ इकः सुञि' इति दीर्घत्वम् । सुञः' इति पत्वम् । ईषाअक्षादित्वात् सुञ उकारस्य प्रकृतिभावः । ऊतिभिः । अवतेर्भावे क्तिन् । ज्वरत्वर' इत्यादिना वकारस्य उपधायाश्च ऊठ् ।ऊतियूति' इत्यादिना निपातनात् क्तिन उदात्तत्वम् । गतम् । गमेर्लोटि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः ॥
 
 
Line ८६ ⟶ ९१:
 
याभिः । धियः । अवथः । कर्मन् । इष्टये । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
“सुभराः शोभनस्तोत्रभरणाः “असश्चतः अन्यत्रानासक्ताः स्तोतारो हे अश्विनौ “युवोः युवयोः “रथम् “आ “तस्थुः आतिष्ठन्ति प्राप्नुवन्ति । किमर्थम् । “दानाय युष्मत्कर्तृकदानार्थम् । धनलाभायेत्यर्थः । तत्र दृष्टान्तः । “वचसं “न यथा न्यायोपेतेन वचसा वाक्येन युक्तं विपश्चितं “मन्तवे बुभुत्सितार्थप्रतिपत्तये स्तोतारः प्राप्नुवन्ति तद्वत् । अपि च “कर्मन् कर्मणि “इष्टये यागार्थं प्रवृत्तान् “धियः ध्यातॄन विशिष्टज्ञानोपेतान् "याभिः “ऊतिभिः पालनैः “अवथः युवां रक्षथः । ताभिरित्यादि पूर्ववत् ॥ वचसम् । अर्शआदित्वात् मत्वर्थीयः अच् । मन्तवे । ‘मन ज्ञाने'। ‘कमिमनिजनि” ' इत्यादिना तुप्रत्ययः । धियः । ध्यायन्तीति धियः स्तोतारः । ‘ध्यै चिन्तायाम् । ‘क्विप् च ' इति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात् संप्रसारणम् । कर्मन् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । 'न ङिसंबुद्ध्योः' इति नलोपप्रतिषेधः ॥
 
 
Line ९९ ⟶ १०६:
 
याभिः । धेनुम् । अस्वम् । पिन्वथः । नरा । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे “नरा नेतारावश्विनौ “दिव्यस्य दिवि भवस्य स्वर्गसमुत्पन्नस्य “अमृतस्य सोमस्य पानेनोत्पन्नेन “मज्मना बलेन युक्तौ “युवं युवां “तासां यास्त्रिषु लोकेषु वर्तन्ते तासां सर्वासां “विशां प्रजानां प्रशासने प्रकृष्टानुशासने शिक्षणे “क्षयथः । ऐश्वर्यकर्मायम् । ईशाथे समर्थौ भवथः । यद्वा । मज्मना अन्येषामसाधारणेन बलेन विशां प्रजानां दिविभवस्यामृतस्य वृष्ट्युदकस्य “प्रशासने प्रदाने क्षयथः ईश्वरौ भवथः । अपि च “याभिः “ऊतिभिः रक्षाभिः "अस्वं प्रसवासमर्थां “धेनुं गां शयुनाम्ने ऋषये “पिन्वथः सिञ्चथः पयसा पूरितवन्तावित्यर्थः । ताभिरूतिभिरित्यादि पूर्ववत् ॥ अस्वम् ।' पूङ् प्राणिगर्भविमोचने '। सवनं सूः । संपदादिलक्षणो भावे क्विप् । नास्ति सूः यस्याम् इति असूः । ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । अमि ‘ओः सुपि ' इति यणादेशः । उदात्तस्वरितयोर्यण: ' इति परस्यानुदात्तस्य स्वरितत्वम् । पिन्वथः । पिवि सेचने '। इदित्त्वात् नुम् । भौवादिकः ॥
 
 
Line ११२ ⟶ १२१:
 
याभिः । त्रिऽमन्तुः । अभवत् । विऽचक्षणः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
“परिज्मा परितो गन्ता वायुः “तनयस्य आत्मीयस्य पुत्रस्याग्नेः । अग्निर्हि व्यानवृत्त्यात्मना वर्तमानेन वायुना मथ्यमानः सन् जायते । तथा च श्रूयते-' अथ यः प्राणापानयोः संधिः स व्यानः। अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ' ( छा. उ. १. ३. ३; ५) इति । यद्वा । सृष्ट्यादौ वायुसकाशादुत्पन्नत्वादग्नेः पुत्रत्वम् । आम्नायते च-’वायोरग्निः' ( तै. आ. ८. १ ) इति । एवं स्वपुत्रस्याग्नेः “मज्मना बलेन युक्तः सन् “द्विमाता द्वयोर्लोकयोः निर्माता । अग्निः पृथिवीस्थानो वायुरन्तरिक्षस्थानः । उभयर्मिलितयोः उभयनिर्मातृत्वमुपपन्नम् । यद्वा । द्विमातेति तनयस्य विशेषणम् । ‘सुपां सुलुक् । इति षष्ठ्याः सुः । द्विमातृकस्य द्वाभ्यामरणिभ्यां जातस्य। एवंभूतो वायुर्हे अश्विनौ “याभिः ऊतिभिः हेतुभूतैः पालनैः “तूर्षु तरीतृषु धावत्सु मध्ये “तरणिः अतिशयेन तरीता शीघ्रगामी 'विभूषति विभवति व्याप्तो भवति । यद्वा । विशेषेण सर्वमलंकरोति । अपि च ”त्रिमन्तुः त्रयाणां मन्ता त्रिविधेषु पाकयज्ञहविर्यज्ञसोमयज्ञेष्वासादितज्ञानः कक्षीवान् “याभिः युष्मदीयाभिरूतिभिः “विचक्षणः विशिष्टज्ञानयुक्तः “अभवत् । “ताभिः सर्वाभिः “ऊतिभिः अस्मानागच्छतम् ॥ परिज्मा । परिपूर्वात् अज गतिक्षेपणयोः' इत्यस्मात् ‘श्वन्नुक्षन् ' इत्यादौ निपात्यते । तूर्षु । ‘तॄ प्लवनतरणयोः । ‘बहुलं छन्दसि ' इति उत्वम् । हलि च ' इति दीर्घः । यद्वा । त्वरतेः क्विप् । ज्वरत्वर' इत्यादिना वकारोपधयोः ऊठ् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । विभूषति । भवतेर्लेटि अडागमः । ‘सिब्बहुलं लेटि' इति सिप् । यद्वा । ‘भूष अलंकारे'। भौवादिकः । विचक्षणः । ‘अनुदात्तेतश्च हलादेः' इति युच् ॥
 
 
Line १२५ ⟶ १३६:
 
याभिः । कण्वम् । प्र । सिसासन्तम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ "याभिः “ऊतिभिः "रेभम् एतत्संज्ञम् ऋषिं “निवृतम् असुरैः कूपे अप्सु निवारितं "सितं तदीयैः पाशैर्बद्धमेवंभूतमृषिम् “अद्भ्यः सकाशात् "उत् "ऐरयतम् उदगमयतम् । तथा “वन्दनम् एतत्संज्ञमृषिं च तथाभूतमुदैरयतम् । किमर्थम् । “स्वः आदित्यं “दृशे द्रष्टुम् । अपि च "कण्वम् असुरैः अन्धकारे प्रक्षिप्तं “सिषासन्तम् आलोकं संभक्तुमिच्छन्तं “याभिः ऊतिभिः “प्र “आवतं प्रकर्षेण अरक्षतम् । ताभिरित्यादि समानम् ॥ रेभम् । ‘रेभृ शब्दे'। रेभते स्तौतीति रेभः । पचाद्यच् । निवृतम् । वृञ् वरणे'। अस्मात् अन्तर्भावितण्यर्थात् कर्मणि निष्ठा । ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सितम् । ‘षिञ् बन्धने '। अद्भ्यः । ‘ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । वन्दनम् ।' वदि अभिवादनस्तुत्योः'। वन्दते स्तौतीति वन्दनः । नन्द्यादिलक्षणो ल्युः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरित्येतद्दिवश्चादित्यस्य च साधारणनामधेयम् । तदुक्तं यास्केन -- ’स्वरादित्यो भवति सु अरणः सु ईरणः' (निरु. २. १४) इति । स्वरादिनिपातम् ' ( पा. सू. १. १. ३७ ) इति अव्ययत्वात् सुपो लुक् । दृशे । 'दृशे विख्ये च' इति दृशेः तुमर्थे केप्रत्ययान्तो निपात्यते । सिषासन्तम् । ‘वन षण संभक्तौ ' । सनि सनीवन्तर्ध' इत्यादिना विकल्पनात् इडभावः । ‘जनसनखनां सञ्झलोः' इति आत्वम् । द्विर्भावे अभ्यासस्य ह्रस्वत्वम् ।' सन्यतः । इति इत्वम् ॥ ॥ ३३ ॥
 
 
Line १३८ ⟶ १५१:
 
याभिः । कर्कन्धुम् । वय्यम् । च । जिन्वथः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
आरणम् अगाधं कूपादि । तत्रासुरैः प्रक्षिप्तं “जसमानं तैर्हिंस्यमानम् “अन्तकं शत्रूणामन्तकरम् एतत्संज्ञं राजर्षिं हे अश्विनौ 'याभिः “ऊतिभिः अवथः रक्षथः । तथा “भुज्युं सर्वस्य पालकमेतत्संज्ञं समुद्रमध्ये निमग्नं तुग्र्यं तुग्रस्य पुत्रं राजर्षिं “याभिः ऊतिभिः रक्षणहेतुभूताभिः “अव्यथिभिः व्यथारहिताभिर्नौभिः "जिजिन्वथुः युवामतर्पयतम् । एतच्च मन्त्रान्तरे' ‘तुग्रो ह भुज्युमश्विनोदमेघे' (ऋ. सं. १. ११६. ३ ) इत्यादिके विस्पष्टयिष्यते । अपि च "कर्कन्धुं "वय्यं "च एतत्संज्ञकौ चासुरैः पीड्यमानौ "याभिः ऊतिभिः "जिन्वथः प्रीणयथः । गतमन्यत् ॥ जसमानम् । जसु हिंसायाम् । यकि प्राप्ते व्यत्ययेन शप् । आरणे । आङ्पूर्वात् अर्तेः ल्युट्। जिजिन्वथुः । जिविः प्रीणनार्थः । लिटि अथुसि रूपम् ॥
 
 
Line १५१ ⟶ १६६:
 
याभिः । पृश्निऽगुम् । पुरुऽकुत्सम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ “धनसां धनस्य संभक्तारं "शुचन्तिम् एतन्नामानं "सुषंसदम् । संसीदन्त्यस्मिन्निति संसत् गृहम् । शोभनसंसदं "याभिः ऊतिभिरकुरुतम् । तथा “अत्रये याभिश्चोतिभिः “तप्तं प्रवृञ्जनेन संतप्तं “घर्मं महावीरम् “ओम्यावन्तं सुखयुक्तं सुखेन स्प्रष्टुं शक्यमकुरुतम् । यद्वा । शतद्वारे यन्त्रगृहे असुरैः पीड्यमानाय घर्मं दीप्तं पीडासाधनमग्निं तप्तं तापकारिणम् ओम्यावन्तं सुखवन्तम् अकुरुतम्। यथा अस्मै सुखं भवति तथा हिमेनोदकेन तमग्निमवारयेथाम् । यास्कपक्षे तु अत्रये हविषामत्त्रेऽग्नये हविरुत्पत्त्यर्थं सूर्यकिरणसंतप्तं घर्मं नैदाघम् अहः ओम्यावन्तं तृप्तिहेतुवृष्ट्युदकोपेतं कृतवन्तौ इति योज्यम् । अपि च "याभिः ऊतिभिः "पृश्निगुं "पुरुकुत्सं च "अवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः अस्मानागच्छतम् ॥ शुचन्तिम् । शुच दीप्तौ । औणादिको झिच् । धनसाम् ।' जनसनखनक्रमगमो विट्'। ‘विड्वनोरनुनासिकस्यात् ' इति आत्वम् । सुषंसदम् । शोभना संसद्यस्य । नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । ओम्यावन्तम् । अवतेः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ज्वरत्वर । इत्यादिना वकारस्य उपधायाश्च ऊठ् । गुणः । छन्दसि च ' इत्यर्हार्थे यप्रत्ययः । ‘नस्तद्धिते' इति टिलोपः । ये चाभावकर्मणोः' इति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । पृश्निगुम् । पृश्नयो नानावर्णा गावो यस्य स तथोक्तः । ‘गोस्त्रियोरुपसर्जनस्य ' (पा. सू. १. २. ४८) इति गोशब्दस्य ह्रस्वत्वम् ।।
 
 
Line १६४ ⟶ १८१:
 
याभिः । वर्तिकाम् । ग्रसिताम् । अमुञ्चतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे "वृषणा कामानां वर्षितारावश्विनौ “याभिः "शचीभिः कर्मभिः प्रज्ञाभिर्वा “परावृजम् एतन्नामकमृषिं पङ्गुं सन्तमपङ्गुमकुरुतम् । तथा "अन्धं दृष्टिरहितं सन्तमृज्राश्वमृषिं "चक्षसे प्रकाशाय सम्यक् चक्षुषा दर्शनाय याभिरूतिभिः “प्र “कृथः प्रकर्षेण कुरुथः । याभिश्च “श्रोणं विगुणजानुकमेव सन्तमृषिम् “एतवे गन्तुं प्र कृथः प्रकर्षेण कृतवन्तौ । अपि च "याभिः ऊतिभिः "वर्तिकां चटकसदृशस्य पक्षिणः स्त्रियं “ग्रसितां वृकेण ग्रस्ताम् "अमुञ्चतं वृकास्यान्निर्मुक्तामकुरुतम् । यास्कपक्षे तु वृकेण विवृतज्योतिष्केण सूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमावर्तमानामुषसं तस्मादमोचयतम् इति योज्यम् । “ताभिः सर्वाभिः “ऊतिभिः अस्मानप्यागच्छतम् ॥ वृषणा । वृष सेचने '।' कनिन्युवृषि' ' इत्यादिना कनिन् । परावृजम् । ' वृजी वर्जने ' । परावृणक्ति तपसा पापं विनाशयतीति परावृक् । ‘क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एतवे । “तुमर्थे सेसेन्' इत्येतेः तवेन्प्रत्ययः । कृथः । डुकृञ् करणे'।' बहुलं छन्दसि ' इति विकरणस्य लुक् ।।
याभिः सिन्धु मधुमन्तुमसञ्चतं वसिष्ठं याभिरजरोवर्जिन्वतम् । ।
 
 
Line १७७ ⟶ १९७:
 
याभिः । कुत्सम् । श्रुतर्यम् । नर्यम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ "सिन्धुं स्यन्दनशीलां नदीं "मधुमन्तं मधुसदृशेनोदकेन पूर्णां "याभिः ऊतिभिः “असश्चतम् अगमयतं प्रावाहयतमित्यर्थः । हे "अजरौ जरारहितावश्विनौ "वसिष्ठम् ऋषिं "याभिः ऊतिभिः "अजिन्वतम् अप्रीणयतम् । “याभिः च कुत्सादीन् त्रीन् ऋषीन् "आवतम् अरक्षतम् । "ताभिः सर्वाभिः “ऊतिभिः अस्मानपि सुष्ठ्वागच्छतम् ॥ मधुमन्तम् । मधुशब्दात् भूम्नि मतुप् । लिङ्गव्यत्ययः । असश्चतम् । सश्चतिर्गतिकर्मा । अस्मात् अन्तर्भावितण्यर्थात् लुङ् ॥
 
 
Line १९० ⟶ २१२:
 
याभिः । वशम् । अश्व्यम् । प्रेणिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ “धनसां धनं संभजमानाम् "अथर्व्यम् अगच्छन्तीं छिन्नजङ्घात्वेन गन्तुमसमर्थाम् । थर्वतिर्गतिकर्मा । "विश्पलाम् एतत्संज्ञामगस्त्यपुरोहितस्य खेलस्य संबन्धिनीं "सहस्रमीळ्हे । मीळ्हमिति धननाम । बहुधनोपेते "आजौ संग्रामे "याभिः ऊतिभिः "अजिन्वतं गन्तुं समर्थामकुरुतम् । एतच्च ' चरित्रं हि वेरिवाच्छेदि पर्णम् ' ( ऋ. सं. १. ११६. १५ ) इत्यत्र विस्पष्टयिष्यते । "याभिः च "अश्व्यम् अश्वाख्यस्य पुत्रं "प्रेणिं स्तुतेः प्रेरयितारं "वशम् एतत्संज्ञम् ऋषिम् "आवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ प्रेणिम् । 'प्रेणृ गतिप्रेरणश्लेषणेषु' । औणादिक इप्रत्ययः ॥ ॥ ३४ ॥
 
 
Line २०३ ⟶ २२७:
 
कक्षीवन्तम् । स्तोतारम् । याभिः । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
उशिक्संज्ञा दीर्घतमसः पत्नी तस्याः पुत्रो दीर्घश्रवा नाम कश्चिदृषिरनावृष्टयां जीवनार्थमकरोत् `वाणिज्यम् । स च वर्षणार्थमश्विनौ तुष्टाव । तौ च अश्विनौ मेघं प्रेरितवन्तौ। अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे सुदानू शोभनदानावश्विनौ "औशिजाय उशिक्पुत्राय "वणिजे वाणिज्यं कुर्वते दीर्घश्रवसे एतत्संज्ञाय ऋषये “याभिः युष्मदीयाभिः ऊतिभिः हेतुभूताभिः "कोशः मेघः "मधु माधुर्योपेतं वृष्टिजलम् "अक्षरत् असिञ्चत् युष्मत्प्रसादादपेक्षिता वृष्टिर्जातेत्यर्थः । अपि च उशिजः पुत्रं "स्तोतारं कक्षीवन्तम् एतत्संज्ञमृर्षि "याभिः ऊतिभिः "आवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ कक्षीवन्तम् । कक्ष्या रज्जुरश्वस्य । तया युक्तः कक्षीवान् । ‘आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत्' इति निपातनात् मतुपो वत्वम् । संप्रसारणम् ॥
 
 
Line २१६ ⟶ २४२:
 
याभिः । त्रिऽशोकः । उस्रियाः । उत्ऽआजत । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
‘रसा नदी भवति रसतेः शब्दकर्मणः ' ( निरु. ११. २५) इति यास्कः । हे अश्विनौ "याभिः ऊतिभिः हेतुभूताभिः "रसां नदीमनावृष्ट्या जलरहितां "क्षोदसा कूलानि संपिंषता "उद्नः उदकेन “पिपिन्वथुः युवां पूरितवन्तौ । तथा "अनश्वम् अश्वैर्वियुक्तमात्मीयं रथं "जिषे जेतुं "याभिः ऊतिभिः "अवतम् अगम्यतम् । अपि च “याभिः ऊतिभिः कण्वपुत्रः "त्रिशोकः ऋषिः "उस्रियाः अपहृता: गा: “उदाजत उदगमयत् असुरसकाशात् लेभे । '“ताभिः सर्वाभिः "ऊतिभिः सह अस्मानप्यागच्छतम् ।। क्षोदसा । 'क्षुदिर् संपेषणे'। औणादिकः असुन् । उद्नः । तृतीयैकवचनस्य ‘सुपां सुपो भवन्ति ' इति शसादेशः । ‘पद्दन' इत्यादिना उदकशब्दस्य उदन्भावः । भसंज्ञायाम् अल्लोपोऽनः' इति अकारलोपः । पिपिन्वथुः । ‘पिवि सेचने'। इदित्त्वात् नुम् । जिषे । 'जि जये। ‘तुमर्थे सेसेन् इति क्से प्रत्ययः । उदाजत । अज गतिक्षेपणयोः ॥
 
 
Line २२९ ⟶ २५७:
 
याभिः । विप्रम् । प्र । भरत्ऽवाजम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ "परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं "याभिः ऊतिभिः "परियाथः युवां परितो गच्छथः । तथा “मन्धातारम् ऋषि "क्षैत्रपत्येषु । क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः । तत्संबन्धिषु कर्मसु "आवतम् अरक्षतम् । अपि च "याभिः ऊतिभिः “विप्रं मेधाविनं “भरद्वाजम् ऋषिमन्नप्रदानेन “प्र “आवतं प्रकर्षेणारक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सह रक्षणार्थमस्मानप्यागच्छतम् । क्षैत्रपत्येषु । ब्राह्मणादेराकृतिगणत्वात् कर्मण्यर्थे प्यञ् ॥
 
 
Line २४२ ⟶ २७२:
 
याभिः । पूःऽभिद्ये । त्रसदस्युम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ “महां महान्तम् “अतिथिग्वम् अतिथिभिर्गन्तव्यं "कशोजुवम् असुरभीत्या उदकं प्रवेष्टु गन्तारम् एवंभूतं “दिवोदासम् एतत्संज्ञकं राजर्षिं “शम्बरहत्ये । शम्ब आयुधम् । तद्युक्तः शम्बरोऽसुरः। तस्य हनने विषयभूते सति 'याभिः ऊतिभिः "अवतम् अरक्षतम्। अपि च "याभिः ऊतिभिः “पूर्भिद्ये पुराणि नगराणि भिद्यन्तेऽस्मिन्निति पूर्भिद्यः संग्रामः । तस्मिन् “त्रसदस्युम् एतत्संज्ञकम् ऋषिं पुरुकुत्सपुत्रम् "आवतम् अरक्षतम् । ताभिरित्यादि पूर्ववत् ॥ महाम् । महान्तमित्यस्य छान्दसो वर्णलोपः । कशोजुवम् । कशः इत्युदकनाम । ‘कश गतिशासनयोः'। असुन्। कशांस्युदकानि जवतीति कशोजूः ।। जु इति सौत्रो धातुर्गत्यर्थः । ‘क्विब्वचि° ' ( उ. सू. २. २१५) इत्यादिना क्विब्दीर्घौ। दिवोदासम् । ‘दिवश्व दासे षष्ठ्या अलुग्वक्तव्यः ' ( का. ६. ३. २१. ५) इति अलुक् । ‘दिवोदासादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. ९१. १) इति पूर्वपदाद्युदात्तत्वम् । शम्बरहत्ये । ‘हनस्त च ' इति हन्तेर्भावे क्यप् ; तसंनियोगेन तकारान्तादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
 
Line २५५ ⟶ २८८:
 
याभिः । विऽअश्वम् । उत । पृथिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ “वम्रं विखनसः पुत्रमेतत्संज्ञमृषिं “विपिपानं विशेषेण पार्थिवं रसं पिबन्तं "याभिः ऊतिभिः अरक्षतम् । कीदृशम् । “उपस्तुतं समीपस्थैः सम्यक् स्तुतमिति स्तूयमानम् । तथा “वित्तजानिं लब्धभार्यं “कलिम् एतत्संज्ञमृषिं “याभिः ऊतिभिः “दुवस्यथः रक्षथः । "उत अपि च “व्यश्वं विगताश्वं “पृथिम् एतत्संज्ञं वैनं राजर्षिं 'याभिः ऊतिभिः “आवतम् अरक्षतम् । अन्यत् पूर्ववत् ॥ विपिपानम् । ‘पा पाने'। ताच्छीलिकः चानश् । बहुलं छन्दसि ' इति शपः श्लुः । 'बहुलं छन्दसि । इति अभ्यासस्य इत्वम्। उपस्तुतम्। स्तौतेः कर्मणि निष्ठा । प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् (पा. सू. ६. २. १४७ )। वित्तजानिम् । वित्ता लब्धा जाया येन स तथोक्तः । ‘जायाया निङ्' (पा.सू
. ५. ४. १३४ ) इति समासान्तो निङादेशः । लोपो ब्योर्वलि ' इति वलिः लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यश्वम् । विगतोऽश्वो यस्मात्स तथोक्तः । बहुव्रीहिस्वरेण पूर्वपदस्योदात्तत्वे ‘उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् ॥ ॥ ३५ ॥
 
 
Line २६८ ⟶ ३०४:
 
याभिः । शारीः । आजतम् । स्यूमऽरश्मये । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे “नरा नेतारावश्विनौ "पुरा पूर्वस्मिन्काले "शयवे एतत्संज्ञकाय ऋषये "गातुं दुःखान्निर्गमनलक्षणं मार्गं “याभिः ऊतिभिः “ईषथुः युवां वाञ्छितवन्तौ कृतवन्तावित्यर्थः । किं तत् । सामर्थ्यात् ‘शयवे चिन्नासत्या शचीभिः ' ( ऋ. सं. १. ११६. २२ ) इत्यस्यामृचि प्रतिपादितम् । तथा “अत्रये ऋषये शतद्वारे यन्त्रगृहेऽसुरैः पीड्यमानाय संतापकारिणः अग्नेः शीतेनोदकेन शीतकरणलक्षणं गातुं दुःखनिर्गमनहेतुभूतं मार्गं "याभिः ऊतिभिर्युवामिष्टवन्तौ । एतच्च हिमेनाग्निं घ्रंसमवारयेथाम्' (ऋ. सं. १. ११६. ८) इत्यादौ प्रसिद्धम् । तथा “मनवे एतन्नाम्ने राजर्षये "याभिः ऊतिभिः यवादिधान्यवापनादिरूपं गातुं दारिद्र्यनिर्गमनहेतुं मार्गं युवां कृतवन्तौ । तथा च मन्त्रान्तरं- यवं वृकेणाश्विना वपन्ता ' ( ऋ. सं. १. ११७. २१ ) इति । अपि च स्यूमरश्मये स्यूतः संबद्धः रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये "याभिः ऊतिभिः “शारीः । शरो नाम वेणुविशेषः । तद्विकारभूता इषूः "आजतं शत्रून्प्रति प्रैरयतम् । ताभिरूतिभिरित्यादि पूर्ववत् ॥ नरा। ‘नृ नये'। ‘ऋदोरप्'। ‘सुपां सुलुक् ' इति विभक्तेः आकारः । शयवे ।' शीङ् स्वप्ने । भृमृशीतॄचरि° ' ( उ. सू. १. ७. ) इत्यादिना उप्रत्ययः । ईषथुः । ‘इषु इच्छायाम्'। लिटि अथुसि ‘°असवर्णे' ( पा. सू. ६. ४. ७८) इति पर्युदासात् अभ्यासस्य इयङादेशाभावे सवर्णदीर्घः । शारीः । विकारार्थे शरशब्दात् “ अनुदात्तादेश्च' इति अञ् । ' टिड्ढाणञ्” ' इति ङीप् । स्यूमरश्मये । ‘षिबु तन्तुसंताने' । सिवेः औणादिको मन्प्रत्ययः ।' च्छ्वोः शूठ्' इति ऊठ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line २८१ ⟶ ३१९:
 
याभिः । शर्यातम् । अवथः । महाऽधने । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ “जठरस्य । ‘ जठरमुदरं भवति जग्धमस्मिन्ध्रियते ' ( निरु. ४, ७ ) इति यास्कः । जठरोपलक्षितस्य शरीरस्य "मज्मना बलेन युक्तः सन् "पठर्वा एतत्संज्ञो राजर्षिः “अज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे युष्मदीयाभिः “याभिः ऊतिभिः “आ समन्तात् “अदीदेत् अदीप्यत । तत्र दृष्टान्तः । “चितः काष्ठैरभिचितः “इद्धः यज्ञगृहे ऋत्विग्भिः प्रज्वालितः अग्निर्न । यथा अग्निः प्रकाशते तद्वदित्यर्थः । अपि च “शर्यातं मानवमिन्द्रेण सह स्पर्धमानं “महाधने । संग्रामनामैतत् । महता धनेनोपेते संग्रामे “याभिः ऊतिभिः "अवथः रक्षथः । ताभिरित्यादि गतम् ॥ अदीदेत् । दीदेतिश्छान्दसो दीप्तिकर्मा । अज्मन् ।' अज गतिक्षेपणयोः' । अजन्ति क्षिपन्त्यस्मिन्बाणानिति अधिकरणे औणादिको मनिन् । ‘वलादावार्धधातुके विकल्प इष्यते' (का. २. ४. ५६. २) इति वचनात् वीभावाभावः । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । महाधने ।' आन्महतः' इति आत्वम् ॥
 
 
Line २९४ ⟶ ३३४:
 
याभिः । मनुम् । शूरम् । इषा । सम्ऽआवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
अङ्गिरः इत्येतदामन्त्रितं वाक्यात् बहिर्भूतम् । तेन चात्मानं संबोध्य स्तुतावृषिं प्रेरयति। हे “अङ्गिरः अङ्गिरसां गोत्रज त्वमश्विनौ स्तुहि। हे अश्विनौ मनसा मननीयेन स्तोत्रेण प्रीतौ सन्तौ युवां “याभिः ऊतिभिः "निरण्यथः स्तोतॄन् नितरां रमयथः । यद्वा ! मनसैव करणभूतेन रमयथः । तथा “गोअर्णसः गोरूपस्यारणीयस्य धनस्य पणिभिर्गुहायां निहितस्य “विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिः ऊतिभिः सह युवाम् “अग्रं सर्वेभ्यो देवेभ्यः पुरस्तात् “गच्छथः । अपि च “शूरं वीर्यवन्तं “मनुम् “इषा पृथिव्यामुप्तेन यवादिधान्यरूपेणान्नेन “याभिः ऊतिभिः “समावतं सम्यगरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ निरण्यथः। निरमयथ इत्यस्य वर्णव्यापत्त्या एतद्रूपम् । विवरे । ' ग्रहवृद्दनिश्चिगमश्च ' इति भावे अप् । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
 
 
Line ३०७ ⟶ ३४९:
 
याभिः । सुऽदासे । ऊहथुः । सुऽदेव्यम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ “विमदाय एतन्नाम्ने ऋषये “याभिः युष्मदीयाभिः ऊतिभिः “पत्नीः भार्याः पुरुमित्रस्य दुहितरं “न्यूहथुः नितरां युवां प्रापितवन्तौ । “ध इति पादपूरणः । तथा “याभिः ऊतिभिः “अरूणीः अरुणवर्णाः आरोचमाना गाः “आ आभिमुख्येन अशिक्षतम् अदत्तम् । तथा पिजवनपुत्राय “सुदासे कल्याणदानाय राज्ञे “सुदेव्यं प्रशस्तं धनं “याभिः ऊतिभिः “ऊहथुः प्रापितवन्तौ । ताभिरित्यादि गतम् ॥ पत्नीः । अमो व्यत्ययेन शसादेशः । न्यूहथुः । वह प्रापणे'। अथुसि यजादित्वात् संप्रसारणम् । द्विर्वचनादि । सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदेव्यम् । दिगादित्वाद्यत् (पा. सू. ४. ३. ५४ )। तित्स्वरितम् ' इति स्वरितत्त्वम् ॥
 
 
Line ३२० ⟶ ३६४:
 
ओम्याऽवतीम् । सुऽभराम् । ऋतऽस्तुभम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ “ददाशुषे हवींषि दत्तवते यजमानाय "याभिः ऊतिभिः “शंताती सुखस्य कर्तारौ “भवथः । “याभिः च ऊतिभिः “भुज्युं तुग्रस्य पुत्रम् “अवथः । “याभिः च “अध्रिगुम् । अधिगुर्देवानां शमिता । ' अध्रिगुश्चापापश्च उभौ देवानां शमितारौ ' (तै. ब्रा. ३. ६. ६. ४ ) इति श्रुतेः । अपि च “ऋतस्तुभम्। ऋतं सत्यं स्तोभत्युच्चारयतीति ऋतस्तुप् । एतत्संज्ञमृषिम् “ओम्यावतीम् । ओम्या इति सुखनाम । तद्युक्तां “सुभरां सुखेन भरणीयाम् इषं याभिः ऊतिभिः प्रापयथः। “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ शंताती। ‘शिवशमरिष्टस्य करे' (पा. सू. ४. ४. १४३ ) इति तातिल्प्रत्ययः । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । ददाशुषे । “दा दाने '। लिटः क्वसुः । ‘वसोः संप्रसारणम्' इति संप्रसारणम् । “शासिवसिघसीनां च ' इति षत्वम् ॥ ॥ ३६ ॥
 
 
Line ३३३ ⟶ ३७९:
 
मधु । प्रियम् । भरथः । यत् । सरट्ऽभ्यः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
स्वानादिषु सोमपालेषु' मध्ये कृशानुरेकः सोमपालः । तथा च तैत्तिरीयकं- हस्त सुहस्त कृशानवेते वः सोमक्रयणः: ' (तै. सं. १. २.७) इति । तं “कृशानुम् “असने। इषवोऽस्यन्तेऽस्मिन्नित्यसनः संग्रामः । तस्मिन् संग्रामे हे अश्विनौ “याभिः ऊतिभिः दुवस्यथः रक्षथः । तथा “याभिः च “जवे वेगे प्रवृत्तं “यूनः तरुणस्य पुरुकुत्सस्य “अर्वन्तम् अश्वम् “आवतम् अरक्षतम् । अपि च “यत् “मधु क्षौद्रं “प्रियं सर्वेषामनुकूलवेद्यं तत् “सरड्भ्यः मधुमक्षिकाभ्यः याभिः च ऊतिभिः "भरथः संपादयथः । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ असने । ‘असु क्षेपणे ' । ' करणाधिकरणयोश्च ' इति अधिकरणे ल्युट् । सरड्भ्यः । ‘सृ गतौ । सर्तेरटिः ।।
 
 
Line ३४६ ⟶ ३९४:
 
याभिः । रथान् । अवथः । याभिः । अर्वतः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे अश्विनौ “गोषुयुधं गोविषयं युद्धं कुर्वन्तं “नरं यज्ञस्य नेतारं यजमानं “याभिः ऊतिभिः “नृषाह्ये नृभिः सोढव्ये संग्रामे “जिन्वथः प्रीणयथः रक्षथः इत्यर्थः । तथा “क्षेत्रस्य गृहादिरूपस्य । तनयशब्दो धनवाची । “तनयस्य धनस्य च “साता सातये संभजनार्थं "याभिः ऊतिभिः यजमानं रक्षथः,। 'याभिः च यजमानानां “रथान् रक्षथः । तदीयान् “अर्वतः अश्वांश्च याभिः “अवथः । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ गोषयुधम् । 'युध संप्रहारे ' । गोषु युध्यते इति गोषुयुत् । तत्पुरुषे कृति बहुलम्' इति अलुक् । नृषाह्ये । ' षह मर्षणे '। ‘शकिसहोश्च' इति यत् । अन्येषामपि दृश्यते' इति सांहितिको दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । साता । ' वन षण संभक्तौ । भावे क्तिन् । ‘जनसनखनां सञ्झलोः ' इति आत्वम् । ‘ऊतियूति' इत्यादिना क्तिन उदात्तत्वं निपातितम् ।' सुपां सुलुक् ' इति चतुर्थ्यां डादेशः । जिन्वथः । जिविः प्रीणनार्थः । भौवादिकः । इदित्त्वात् नुम् । रथान् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । ‘आतोऽटि नित्यम्' इति सानुनासिक आकारः ।।
 
 
Line ३५९ ⟶ ४०९:
 
याभिः । ध्वसन्तिम् । पुरुऽसन्तिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
 
हे “शतक्रतू बहुविधकर्माणावश्विनौ "आर्जुनेयम् । अर्जुन इतीन्द्रस्य नाम । तथा च वाजसनेयकम् - ’एतद्वा इन्द्रस्य गुह्यं नाम यदर्जुनः' इति । तस्य पुत्रं “कुत्सं "याभिः ऊतिभिः “प्र “आवतं प्रकर्षेणारक्षतम् । तथा “तुर्वीतिं “दभीतिं “च याभिः ऊतिभिः “प्र आवतम् । अपि च “याभिः “ध्वसन्तिम् एतत्संज्ञ “पुरुषन्तिम् एतन्नामानं च ऋषिम् “आवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानपि सुष्ठ्वागच्छतम् ॥ आर्जुनेयम् ।' शुभ्रादिभ्यश्च ' ( पा. सू. ४. १. १२३ ) इति चशब्दोऽनुक्तसमुच्चयार्थं इत्युक्तत्वात् ढक् । तुर्वीतिम् । ' तुर्वी हिंसार्थः । शत्रूंस्तुर्वतीति तुर्वीतिः । औणादिक ईतिप्रत्ययः । दभीतिम् । ‘दम्भु दम्भे'। औणादिकः कीतिप्रत्ययः । ध्वसन्तिम् । ‘ध्वंसु गतौ च ' । औणादिको झिङ्प्रत्ययः। ‘अनिदिताम्' इति नलोपः । ‘झोऽन्तः' । पुरुषन्तिम् । पुरु सनोति ददातीति पुरुषन्तिः । ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् ।' न क्तिचि दीर्घश्च' इति अनुनासिकलोपोपधादीर्घयोर्निषेधः ॥
 
 
Line ३७२ ⟶ ४२४:
 
अद्यूत्ये । अवसे । नि । ह्वये । वाम् । वृधे । च । नः । भवतम् । वाजऽसातौ ॥
 
हे अश्विनौ “अस्मे अस्माकं “वाचम् “अप्नस्वतीम् । अप्न इति कर्मनाम । विहितैः कर्मभिः संयुक्तां “कृतं कुरुतम् । तथा “नः अस्माकं “मनीषां बुद्धिं हे “वृषणा कामानां वर्षकौ “दस्रा शत्रूणामुपक्षपयितारावश्विनौ वेदार्थज्ञानसमर्थां कुरुतम् । अपि च यस्मात् युवामेवंगुणविशिष्टौ तस्मात् “वां युवाम् “अवसे रक्षणाय “नि “ह्वये नितरामाह्वये । कदा । “अद्यूत्ये द्योतनरहिते प्रकाशनरहिते रात्रेः पश्चिमे यामे । तस्मिन् काले हि प्रातरनुवाकाश्विनशस्त्रयोरिदं सूक्तं पठ्यते । आहूतौ “च युवां “वाजसातौ वाजस्यान्नस्य संभजने । यद्वा । संग्रामनामैतत् । संग्रामे “नः अस्माकं "वृधे वर्धनाय “भवतम् ॥ अप्नस्वतीम् । ‘आपः कर्माख्यायां ह्रस्वो नुट् च वा' इति असुन् नुडागमश्च । तदस्यास्ति' इति मतुप् । ‘मादुपधायाः' इति मतुपो वत्वम् । तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः । अस्मे । 'सुपां सुलुक् ' इति षष्ठ्याः शेआदेशः । कृतम् । करोतेर्लोटि ‘बहुलं छन्दसि । इति विकरणस्य लुक् । अद्यूत्ये । ‘द्युत दीप्तौ' ।' ऋहलोर्ण्यत्' इति भावे ण्यत् । वर्णव्यापत्त्या ऊकारः । द्यूत्यं प्रकाशनमस्मिन्नास्तीति बहुव्रीहौ व्यत्ययेनान्तस्वरितत्वम् । नि ह्वये । निसमुपविभ्यो ह्वः' इति आत्मनेपदम् । वृधे । “वृधु वृद्धौ'। संपदादिलक्षणो भावे क्विप् । 'सावेकाच:० इति विभक्तेरुदात्तत्वम् ॥
 
 
Line ३८५ ⟶ ४३९:
 
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥
 
हे अश्विनौ “द्युभिः दिवसैः "अक्तुभिः रात्रिभिश्च "अस्मान् स्तोतॄन् “परि “पातं परितो रक्षतं सर्वदास्मान् रक्षतमित्यर्थः । तथा “अरिष्टेभिः अहिंसितैः “सौभगेभिः सुभगत्वैः सुभगत्वापादकैर्धनैः अस्मान् रक्षतम् । यस्माभिः प्रार्थितं “नः अस्मदीयं “तत् मित्रादयः षड्देवताः “ममहन्तां पूजयन्तु । उतशब्दः समुच्चये ॥ द्युभिः । ‘दिव उत्' इति उत्वम् । “ दिवो झल्' ( पा. सू. ६. १. १८३ ) इति ‘सावेकाचः° ' इति प्राप्तस्य विभक्त्युदात्तत्वस्य प्रतिषेधः । अरिष्टेभिः । ‘रिष हिंसायाम् । निष्ठा ' इति क्तः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। 'बहुलं छन्दसि इति भिसः ऐसभावः । अश्विना । ‘सुपां सुलुक्' इति विभक्तेः आकारः । ‘आमन्त्रितस्य च ' इति सर्वानुदात्तत्वम् । सौभगेभिः। शोभनो भगः श्रीर्यस्यासौ सुभगः । तस्य भावः सौभगम् । ‘सुभगान्मन्त्रे' इत्युद्गात्रादिषु पाठात् अञ्प्रत्ययः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इति उभयपदवृद्धिर्न भवति, तस्याः ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति विकल्पितत्वात् । पूर्ववत् ऐसभावः । ‘ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् ॥ ॥ ३७ ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके सप्तमोऽध्यायः समाप्तः ।
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११२" इत्यस्माद् प्रतिप्राप्तम्