"ऋग्वेदः सूक्तं १.११८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
{{ऋग्वेदः मण्डल १}}
<div class="verse">
<pre>
आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् ।
यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥१॥
 
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥२॥
 
प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥३॥
 
आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः ।
ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥४॥
 
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।
परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके ॥५॥
 
उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः ।
निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥६॥
 
युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् ।
युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥७॥
 
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।
अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥८॥
 
युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् ।
जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥९॥
 
ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः ।
आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥१०॥
 
आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥११॥
 
</prespan></poem>
== ==
</div>
{{सायणभाष्यम्|
आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
 
यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यांत्रिवंधु॒रो वृ॑षणा॒ वात॑रंहाः ॥१
 
आ । वा॒म् । रथः॑ । अ॒श्वि॒ना॒ । श्ये॒नऽप॑त्वा । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् ।
 
यः । मर्त्य॑स्य । मन॑सः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । वात॑ऽरंहाः ॥
 
आ । वाम् । रथः । अश्विना । श्येनऽपत्वा । सुऽमृळीकः । स्वऽवान् । यातु । अर्वाङ् ।
 
यः । मर्त्यस्य । मनसः । जवीयान् । त्रिऽवन्धुरः । वृषणा । वातऽरंहाः ॥
 
 
 
त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् ।
 
पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥२
 
त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । रथे॑न । त्रि॒ऽच॒क्रेण॑ । सु॒ऽवृता॑ । आ । या॒त॒म् । अ॒र्वाक् ।
 
पिन्व॑तम् । गाः । जिन्व॑तम् । अर्व॑तः । नः॒ । व॒र्धय॑तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति॑ ॥
 
त्रिऽवन्धुरेण । त्रिऽवृता । रथेन । त्रिऽचक्रेण । सुऽवृता । आ । यातम् । अर्वाक् ।
 
पिन्वतम् । गाः । जिन्वतम् । अर्वतः । नः । वर्धयतम् । अश्विना । वीरम् । अस्मे इति ॥
 
 
 
प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ ।
 
किमं॒ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥३
 
प्र॒वत्ऽया॑मना । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ ।
 
किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥
 
प्रवत्ऽयामना । सुऽवृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः ।
 
किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराऽजाः ॥
 
 
 
आ वां॑ श्ये॒नासो॑ अश्विना वहंतु॒ रथे॑ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः ।
 
ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वहं॑ति ॥४
 
आ । वा॒म् । श्ये॒नासः॑ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे॑ । यु॒क्तासः॑ । आ॒शवः॑ । प॒त॒ङ्गाः ।
 
ये । अ॒प्ऽतुरः॑ । दि॒व्यासः॑ । न । गृध्राः॑ । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । वह॑न्ति ॥
 
आ । वाम् । श्येनासः । अश्विना । वहन्तु । रथे । युक्तासः । आशवः । पतङ्गाः ।
 
ये । अप्ऽतुरः । दिव्यासः । न । गृध्राः । अभि । प्रयः । नासत्या । वहन्ति ॥
 
 
 
आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य ।
 
परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहंत्वरु॒षा अ॒भीके॑ ॥५
 
आ । वा॒म् । रथ॑म् । यु॒व॒तिः । ति॒ष्ठ॒त् । अत्र॑ । जु॒ष्ट्वी । न॒रा॒ । दु॒हि॒ता । सूर्य॑स्य ।
 
परि॑ । वा॒म् । अश्वाः॑ । वपु॑षः । प॒त॒ङ्गाः । वयः॑ । व॒ह॒न्तु॒ । अ॒रु॒षाः । अ॒भीके॑ ॥
 
आ । वाम् । रथम् । युवतिः । तिष्ठत् । अत्र । जुष्ट्वी । नरा । दुहिता । सूर्यस्य ।
 
परि । वाम् । अश्वाः । वपुषः । पतङ्गाः । वयः । वहन्तु । अरुषाः । अभीके ॥
 
 
 
उद्वंद॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः ।
 
निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नं ॥६
 
उत् । वन्द॑नम् । ऐ॒र॒त॒म् । दं॒सना॑भिः । उत् । रे॒भम् । द॒स्रा॒ । वृ॒ष॒णा॒ । शची॑भिः ।
 
निः । तौ॒ग्र्यम् । पा॒र॒य॒थः॒ । स॒मु॒द्रात् । पुन॒रिति॑ । च्यवा॑नम् । च॒क्र॒थुः॒ । युवा॑नम् ॥
 
उत् । वन्दनम् । ऐरतम् । दंसनाभिः । उत् । रेभम् । दस्रा । वृषणा । शचीभिः ।
 
निः । तौग्र्यम् । पारयथः । समुद्रात् । पुनरिति । च्यवानम् । चक्रथुः । युवानम् ॥
 
 
 
यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तं ।
 
यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षुः॒ प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ॥७
 
यु॒वम् । अत्र॑ये । अव॑ऽनीताय । त॒प्तम् । ऊर्ज॑म् । ओ॒मान॑म् । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् ।
 
यु॒वम् । कण्वा॑य । अपि॑ऽरिप्ताय । चक्षुः॑ । प्रति॑ । अ॒ध॒त्त॒म् । सु॒ऽस्तु॒तिम् । जु॒जु॒षा॒णा ॥
 
युवम् । अत्रये । अवऽनीताय । तप्तम् । ऊर्जम् । ओमानम् । अश्विनौ । अधत्तम् ।
 
युवम् । कण्वाय । अपिऽरिप्ताय । चक्षुः । प्रति । अधत्तम् । सुऽस्तुतिम् । जुजुषाणा ॥
 
 
 
यु॒वं धे॒नुं श॒यवे॑ नाधि॒तायापि॑न्वतमश्विना पू॒र्व्याय॑ ।
 
अमुं॑चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जंघां॑ वि॒श्पला॑या अधत्तं ॥८
 
यु॒वम् । धे॒नुम् । श॒यवे॑ । ना॒धि॒ताय॑ । अपि॑न्वतम् । अ॒श्वि॒ना॒ । पू॒र्व्याय॑ ।
 
अमु॑ञ्चतम् । वर्ति॑काम् । अंह॑सः । निः । प्रति॑ । जङ्घा॑म् । वि॒श्पला॑याः । अ॒ध॒त्त॒म् ॥
 
युवम् । धेनुम् । शयवे । नाधिताय । अपिन्वतम् । अश्विना । पूर्व्याय ।
 
अमुञ्चतम् । वर्तिकाम् । अंहसः । निः । प्रति । जङ्घाम् । विश्पलायाः । अधत्तम् ॥
 
 
 
यु॒वं श्वे॒तं पे॒दव॒ इंद्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्वं॑ ।
 
जो॒हूत्र॑म॒र्यो अ॒भिभू॑तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्वं॑गं ॥९
 
यु॒वम् । श्वे॒तम् । पे॒दवे॑ । इन्द्र॑ऽजूतम् । अ॒हि॒ऽहन॑म् । अ॒श्वि॒ना॒ । अ॒द॒त्त॒म् । अश्व॑म् ।
 
जो॒हूत्र॑म् । अ॒र्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् । स॒ह॒स्र॒ऽसाम् । वृष॑णम् । वी॒ळुऽअ॑ङ्गम् ॥
 
युवम् । श्वेतम् । पेदवे । इन्द्रऽजूतम् । अहिऽहनम् । अश्विना । अदत्तम् । अश्वम् ।
 
जोहूत्रम् । अर्यः । अभिऽभूतिम् । उग्रम् । सहस्रऽसाम् । वृषणम् । वीळुऽअङ्गम् ॥
 
 
 
ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः ।
 
आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातं ॥१०
 
ता । वा॒म् । न॒रा॒ । सु । अव॑से । सु॒ऽजा॒ता । हवा॑महे । अ॒श्वि॒ना॒ । नाध॑मानाः ।
 
आ । नः॒ । उप॑ । वसु॑ऽमता । रथे॑न । गिरः॑ । जु॒षा॒णा । सु॒वि॒ताय॑ । या॒त॒म् ॥
 
ता । वाम् । नरा । सु । अवसे । सुऽजाता । हवामहे । अश्विना । नाधमानाः ।
 
आ । नः । उप । वसुऽमता । रथेन । गिरः । जुषाणा । सुविताय । यातम् ॥
 
 
 
आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषाः॑ ।
 
हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥११
 
आ । श्ये॒नस्य॑ । जव॑सा । नूत॑नेन । अ॒स्मे इति॑ । या॒त॒म् । ना॒स॒त्या॒ । स॒ऽजोषाः॑ ।
 
हवे॑ । हि । वा॒म् । अ॒श्वि॒ना॒ । रा॒तऽह॑व्यः । श॒श्व॒त्ऽत॒मायाः॑ । उ॒षसः॑ । विऽउ॑ष्टौ ॥
 
आ । श्येनस्य । जवसा । नूतनेन । अस्मे इति । यातम् । नासत्या । सऽजोषाः ।
 
हवे । हि । वाम् । अश्विना । रातऽहव्यः । शश्वत्ऽतमायाः । उषसः । विऽउष्टौ ॥
 
 
 
}}
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११८" इत्यस्माद् प्रतिप्राप्तम्