"ऋग्वेदः सूक्तं १.११९" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
{{ऋग्वेदः मण्डल १}}
<div class="verse">
<pre>
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥१॥
 
ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः ।
स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥२॥
 
सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।
युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥३॥
 
युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ ।
यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥४॥
 
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम् ।
आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥५॥
 
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये ।
युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥६॥
 
युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः ।
क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥७॥
 
अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् ।
स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥८॥
 
उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ।
युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥९॥
 
युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः ।
शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥१०॥
 
 
</prespan></poem>
== ==
</div>
{{सायणभाष्यम्|
आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे ।
 
स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रयः॑ ॥१
 
आ । वा॒म् । रथ॑म् । पु॒रु॒ऽमा॒यम् । म॒नः॒ऽजुव॑म् । जी॒रऽअ॑श्वम् । य॒ज्ञिय॑म् । जी॒वसे॑ । हु॒वे॒ ।
 
स॒हस्र॑ऽकेतुम् । व॒निन॑म् । श॒तत्ऽव॑सुम् । श्रु॒ष्टी॒ऽवान॑म् । व॒रि॒वः॒ऽधाम् । अ॒भि । प्रयः॑ ॥
 
आ । वाम् । रथम् । पुरुऽमायम् । मनःऽजुवम् । जीरऽअश्वम् । यज्ञियम् । जीवसे । हुवे ।
 
सहस्रऽकेतुम् । वनिनम् । शतत्ऽवसुम् । श्रुष्टीऽवानम् । वरिवःऽधाम् । अभि । प्रयः ॥
 
 
 
ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यंत॒ आ दिशः॑ ।
 
स्वदा॑मि घ॒र्मं प्रति॑ यंत्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥२
 
ऊ॒र्ध्वा । धी॒तिः । प्रति॑ । अ॒स्य॒ । प्रऽया॑मनि । अधा॑यि । शस्म॑न् । सम् । अ॒य॒न्ते॒ । आ । दिशः॑ ।
 
स्वदा॑मि । घ॒र्मम् । प्रति॑ । य॒न्ति॒ । ऊ॒तयः॑ । आ । वा॒म् । ऊ॒र्जानी॑ । रथ॑म् । अ॒श्वि॒ना॒ । अ॒रु॒ह॒त् ॥
 
ऊर्ध्वा । धीतिः । प्रति । अस्य । प्रऽयामनि । अधायि । शस्मन् । सम् । अयन्ते । आ । दिशः ।
 
स्वदामि । घर्मम् । प्रति । यन्ति । ऊतयः । आ । वाम् । ऊर्जानी । रथम् । अश्विना । अरुहत् ॥
 
 
 
सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ ।
 
यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वरं॑ ॥३
 
सम् । यत् । मि॒थः । प॒स्पृ॒धा॒नासः॑ । अग्म॑त । शु॒भे । म॒खाः । अमि॑ताः । जा॒यवः॑ । रणे॑ ।
 
यु॒वोः । अह॑ । प्र॒व॒णे । चे॒कि॒ते॒ । रथः॑ । यत् । अ॒श्वि॒ना॒ । वह॑थः । सू॒रिम् । आ । वर॑म् ॥
 
सम् । यत् । मिथः । पस्पृधानासः । अग्मत । शुभे । मखाः । अमिताः । जायवः । रणे ।
 
युवोः । अह । प्रवणे । चेकिते । रथः । यत् । अश्विना । वहथः । सूरिम् । आ । वरम् ॥
 
 
 
यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वहं॑ता पि॒तृभ्य॒ आ ।
 
या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥४
 
यु॒वम् । भु॒ज्युम् । भु॒रमा॑णम् । विऽभिः॑ । ग॒तम् । स्वयु॑क्तिऽभिः । नि॒ऽवह॑न्ता । पि॒तृऽभ्यः॑ । आ ।
 
या॒सि॒ष्टम् । व॒र्तिः । वृ॒ष॒णा॒ । वि॒ऽजे॒न्य॑म् । दिवः॑ऽदासाय । महि॑ । चे॒ति॒ । वा॒म् । अवः॑ ॥
 
युवम् । भुज्युम् । भुरमाणम् । विऽभिः । गतम् । स्वयुक्तिऽभिः । निऽवहन्ता । पितृऽभ्यः । आ ।
 
यासिष्टम् । वर्तिः । वृषणा । विऽजेन्यम् । दिवःऽदासाय । महि । चेति । वाम् । अवः ॥
 
 
 
यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्यं॑ ।
 
आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥५
 
यु॒वोः । अ॒श्वि॒ना॒ । वपु॑षे । यु॒वा॒ऽयुज॑म् । रथ॑म् । वाणी॒ इति॑ । ये॒म॒तुः॒ । अ॒स्य॒ । शर्ध्य॑म् ।
 
आ । वा॒म् । प॒ति॒ऽत्वम् । स॒ख्याय॑ । ज॒ग्मुषी॑ । योषा॑ । अ॒वृ॒णी॒त॒ । जेन्या॑ । यु॒वाम् । पती॒ इति॑ ॥
 
युवोः । अश्विना । वपुषे । युवाऽयुजम् । रथम् । वाणी इति । येमतुः । अस्य । शर्ध्यम् ।
 
आ । वाम् । पतिऽत्वम् । सख्याय । जग्मुषी । योषा । अवृणीत । जेन्या । युवाम् । पती इति ॥
 
 
 
यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये ।
 
यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वंद॑नस्ता॒र्यायु॑षा ॥६
 
यु॒वम् । रे॒भम् । परि॑ऽसूतेः । उ॒रु॒ष्य॒थः॒ । हि॒मेन॑ । घ॒र्मम् । परि॑ऽतप्तम् । अत्र॑ये ।
 
यु॒वम् । श॒योः । अ॒व॒सम् । पि॒प्य॒थुः॒ । गवि॑ । प्र । दी॒र्घेण॑ । वन्द॑नः । ता॒रि॒ । आयु॑षा ॥
 
युवम् । रेभम् । परिऽसूतेः । उरुष्यथः । हिमेन । घर्मम् । परिऽतप्तम् । अत्रये ।
 
युवम् । शयोः । अवसम् । पिप्यथुः । गवि । प्र । दीर्घेण । वन्दनः । तारि । आयुषा ॥
 
 
 
यु॒वं वंद॑नं॒ निर्ऋ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः ।
 
क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥७
 
यु॒वम् । वन्द॑नम् । निःऽऋ॑तम् । ज॒र॒ण्यया॑ । रथ॑म् । न । द॒स्रा॒ । क॒र॒णा । सम् । इ॒न्व॒थः॒ ।
 
क्षेत्रा॑त् । आ । विप्र॑म् । ज॒न॒थः॒ । वि॒प॒न्यया॑ । प्र । वा॒म् । अत्र॑ । वि॒ध॒ते । दं॒सना॑ । भु॒व॒त् ॥
 
युवम् । वन्दनम् । निःऽऋतम् । जरण्यया । रथम् । न । दस्रा । करणा । सम् । इन्वथः ।
 
क्षेत्रात् । आ । विप्रम् । जनथः । विपन्यया । प्र । वाम् । अत्र । विधते । दंसना । भुवत् ॥
 
 
 
अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितं ।
 
स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥८
 
अग॑च्छतम् । कृप॑माणम् । प॒रा॒ऽवति॑ । पि॒तुः । स्वस्य॑ । त्यज॑सा । निऽबा॑धितम् ।
 
स्वः॑ऽवतीः । इ॒तः । ऊ॒तीः । यु॒वोः । अह॑ । चि॒त्राः । अ॒भीके॑ । अ॒भ॒व॒न् । अ॒भिष्ट॑यः ॥
 
अगच्छतम् । कृपमाणम् । पराऽवति । पितुः । स्वस्य । त्यजसा । निऽबाधितम् ।
 
स्वःऽवतीः । इतः । ऊतीः । युवोः । अह । चित्राः । अभीके । अभवन् । अभिष्टयः ॥
 
 
 
उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति ।
 
यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥९
 
उ॒त । स्या । वा॒म् । मधु॑ऽमत् । मक्षि॑का । अ॒र॒प॒त् । मदे॑ । सोम॑स्य । औ॒शि॒जः । हु॒व॒न्य॒ति॒ ।
 
यु॒वम् । द॒धी॒चः । मनः॑ । आ । वि॒वा॒स॒थः॒ । अथ॑ । शिरः॑ । प्रति॑ । वा॒म् । अश्व्य॑म् । व॒द॒त् ॥
 
उत । स्या । वाम् । मधुऽमत् । मक्षिका । अरपत् । मदे । सोमस्य । औशिजः । हुवन्यति ।
 
युवम् । दधीचः । मनः । आ । विवासथः । अथ । शिरः । प्रति । वाम् । अश्व्यम् । वदत् ॥
 
 
 
यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।
 
शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिंद्र॑मिव चर्षणी॒सहं॑ ॥१०
 
यु॒वम् । पे॒दवे॑ । पु॒रु॒ऽवार॑म् । अ॒श्वि॒ना॒ । स्पृ॒धाम् । श्वे॒तम् । त॒रु॒तार॑म् । दु॒व॒स्य॒थः॒ ।
 
शर्यैः॑ । अ॒भिऽद्यु॑म् । पृत॑नासु । दु॒स्तर॑म् । च॒र्कृत्य॑म् । इन्द्र॑म्ऽइव । च॒र्ष॒णि॒ऽसह॑म् ॥
 
युवम् । पेदवे । पुरुऽवारम् । अश्विना । स्पृधाम् । श्वेतम् । तरुतारम् । दुवस्यथः ।
 
शर्यैः । अभिऽद्युम् । पृतनासु । दुस्तरम् । चर्कृत्यम् । इन्द्रम्ऽइव । चर्षणिऽसहम् ॥
 
 
 
}}
 
{{ऋग्वेदः मण्डल १}}
३३,१८८

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/162232" इत्यस्माद् प्रतिप्राप्तम्