"ऋग्वेदः सूक्तं १०.१०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
अष्टमे पञ्चमाध्यायं व्याख्याय श्रुतिकोविदः ।
 
सायणार्यस्ततोऽध्यायं षष्ठं च व्याचिकीर्षति ।
 
तत्र ‘उभा उ नूनम्' इत्येकादशर्चमाद्यमनुवाकापेक्षया सप्तमं सूक्तं त्रैष्टुभमश्विदेवत्यम् । कश्यपपुत्रो भूतांशो नामर्षिः । तथा चानुक्रम्यते--' उभौ भूतांशः काश्यप आश्विनम्' इति । अप्तोर्यामेऽच्छावाकातिरिक्तोक्थ एतत्सूक्तम् । सूत्रितं च-' उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीया' (आश्व. श्रौ. ९. ११) इति ॥
 
 
उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व ।
 
Line ५० ⟶ ६३:
सध्रीचीना । यातवे । प्र । ईम् । अजीगरिति । सुदिनाऽइव । पृक्षः । आ । तंसयेथे इति ॥
 
हे अश्विनौ ”उभौ युवां ”नूनम् इदानीं .”तदित् अस्माभिर्दीयमानं हविः क्रियमाणं स्तोत्रमेव “अर्थयेथे प्रार्थयथः । ‘अर्थ याञ्चायाम्' । चौरादिकः । अनुदात्तेत् । उः पूरणः । संप्रार्थ्यं च ”धियः कर्माणि स्तुतीर्वा “वि ”तन्वाथे विस्तारयथः । तनु विस्तारे'। तानादिकः । तत्र दृष्टान्तः। “अपसेव अपसा अपस्विनौ कुविन्दौ यथा ”वस्त्रा वस्त्राणि विस्तारयतः ॥ अपःशब्दान्मत्वर्थीयो विनिः । तस्य ‘बहुलं छन्दसि' इति लुक् । प्रातिपदिकस्वरेणान्तोदात्तः । उभयत्र सुप आकारः ॥ "ईम् अयं यजमानः सध्रीचीना सध्रीचीनौ सहाञ्चनौ युवाम् ॥ सहपूर्वादञ्चतेः क्विनि ‘सहस्य सध्रिः । इति सध्र्यादेशः । ‘विभाषाञ्चेरदिक्स्त्रियाम् ' इति खः । सुप आजादेशः ॥ तौ “यातवे ॥ तुमर्थे तवेन्प्रत्ययः ॥ अभिमतप्राप्त्यर्थं “प्र “अजीगः प्रकर्षेण स्तौति । यद्वा युवां प्रति स्तुतीरुद्भिरति ॥ ‘गॄ शब्दे'। ‘गॄ निगरणे' वा । एताभ्यां लङि ‘बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । दीर्घश्छान्दसः । गुणे कृते हल्ङ्यादिना तिपो लोपः ॥ किंच ”सुदिनेव सुदिनेष्वन्नानि यथालंकुर्वन्ति । यद्वा । सुदिना सुदिनौ । अहोरात्रयोः प्रवर्तकत्वेन तद्वन्तौ सूर्याचन्द्रमसौ स्वरश्मिभिर्यथान्नान्यलंकुरुतः । तद्वद्युवां “पृक्षः । अन्ननामैतत् । भोक्तृभिः संपृच्यन्त इति पृक्षोऽन्नानि । “आ “तंसयेथे समन्तादलंकुरुथः ॥ ‘तसि भूष अलंकारे'। चौरादिकः ॥
 
 
Line ६४ ⟶ ७८:
दूताऽइव । हि । स्थः । यशसा । जनेषु । मा । अप । स्थातम् । महिषाऽइव । अवऽपानात् ॥
 
"उष्टारेव । उष्टः कामयेते गन्तव्यं देशमित्युष्टारौ प्रासङ्गस्य वोढारावनड्वाहाविव ॥ ‘वश कान्तौ ' इत्यस्मात्तृचि छान्दसं संप्रसारणमिडभावश्च ॥ तौ यथा संपूर्णघासेषु संचरतः तद्वत् “फर्वरेषु स्तुतिभिर्हविर्भिश्च पूरयितृषु जनेषु “श्रयेथे । तत्स्वीकरणार्थमाश्रयथः ॥ फर्वतिः पूरणार्थः । अस्मादौणादिको रन्प्रत्ययः ॥ “प्रायोगेव प्रायोगौ प्रयोक्तव्यावनड्वाहाविव । प्रपूर्वाद्युजेः कर्मणि घञ्युपसर्गस्य दीर्घः । थाथादिस्वरेणान्तोदात्तः ॥ तौ यथा “श्वात्र्या श्वात्र्यौ । शु क्षिप्रमतनं श्वात्रम् । तत्र साधू भवतः तद्वत् । यद्वा । युद्धार्थं प्रयोक्तव्यावश्वाविव श्वाञ्यौ। श्वात्र्यमिति धननाम । तत्र भवौ । धनस्य साधकावित्यर्थः । तौ युवां “शासुः शंसितुः स्तोतुः स्तुतिं प्रति “एथः आगच्छथः । ‘इण् गतौ' । आदादिकः । दूतेव दूताविव यथा राज्ञः प्रियतमौ दूतौ जनपदेषु यशस्विनौ भवतः तद्वत् ”जनेषु स्तोतृषु ”यशसा यशस्विनौ “स्थः “हि भवथः खलु ॥ अस्तेर्लटि रूपम् । हियोगादनिघातः ॥ “महिषेव महिषाविव यथा श्रान्तौ महिषौ “अवपानात् । पीयतेऽस्मिन्निति पानं हृदादि । अधिकरणे ल्युट् । पानमेवावपानम्। संनिकृष्टात् पानान्नापगच्छतः तद्वद्युवामस्मदीयाद्धविषः स्तोत्राच्च ”माप “स्थातं मापक्रम्य तिष्ठतम् ॥ तिष्ठतेर्लुङि गातिस्था°' इति सिचो लुक् । ‘न माङ्योगे' इत्यडभावः ॥
 
 
Line ७८ ⟶ ९३:
अग्निःऽइव । देवऽयोः । दीदिऽवांसा । परिज्मानाऽइव । यजथः । पुरुऽत्रा ॥
 
“शकुनस्येव पक्षिण इव यथा पक्षिणः “पक्षा पक्षौ संहत्य वर्तमानौ तद्वत् “साकंयुजा साकंयुजौ सहावियुज्य वर्तमानौ भवथः ॥ युजेः ‘सत्सूद्विष° ' इत्यादिना क्विप् ॥ “पश्वेव पशू इव ॥ सुप आकारः ॥ तौ यथा चायनीयौ तद्वत् “चित्रा चित्रौ चायनीयौ युवां “यजुः यजनावस्मदीयौ “आ “गमिष्टम् आगच्छतम् ॥ यजेरौणादिको भाव उसिन्प्रत्ययः । गमिष्टम् । गमेर्लेटि • सिब्बहुलं लेटि' इति सिप् । सिप आर्धधातुकत्वात् ‘गमेरिट् परस्मैपदेषु' (पा. सू. ७. २. ५८) इतीडागमः ॥ “देवयोः देवानिच्छतो यजमानस्य यज्ञे “अग्निरिव अग्निर्यथा हविर्भिः स्तुतिभिश्च दीप्यते तद्वत् "दीदिवांसा दीदिवांसौ स्तुतिभिर्दीप्तौ भवथः ॥ दीव्यतेः क्वसौ ‘वस्वेकाजात्' इति नियमादिडभावः । वलि लोपे तुजादित्वादभ्यासदीर्घः ॥ “परिज्मानेव परिज्मानाविव परितो अजतो गच्छतः। कर्मकरणार्थमिति परिज्मानावध्वर्यू इव स्थितौ युवां “पुरुत्रा बहुषु देशेषु “यजथः देवान् पूजयथः ।। ‘अश्विनौ हि देवानामध्वर्यू' (ऐ. ब्रा. १. १८) इत्याम्नानात् । यद्वा । परिज्मानेव परितो गन्तारौ । पुरो वा पश्चाद्वा तौ यथा बहुषु देशेषु यजथः संगच्छमानौ भवथः ॥ ‘यज देवपूजासंगतिकरणदानेषु' । पुरुत्रा। देवमनुष्य इत्यादिना त्राप्रत्ययः ॥
 
 
Line ९२ ⟶ १०८:
इर्याऽइव । पुष्ट्यै । किरणाऽइव । भुज्यै । श्रुष्टीवानाऽइव । हवम् । आ । गमिष्टम् ॥
 
“अस्मे अस्माकं “वः युवाम् । पूजायां बहुवचनम्। “आपी प्राप्तौ बन्धुभूतौ भवथः । “पितरेव पितराविव यथात्र पितरौ प्रति “पुत्रा पुत्रौ बन्धुभूतौ भवतः तद्वत् । यद्वा । पुत्रा। षष्ठ्या आकारः । पुत्राणां पितरौ बन्धू। तथा “उग्रेव उग्राविव यथोग्रौ स्वतेजसोद्गूर्णावग्न्यादित्यौ यथा रोचमानौ भवतः तद्वत् “रुचा दीप्त्या युक्तौ। रोचतेर्भावे क्विप् । 'सावेकाचः' इति विभक्तेः उदात्तत्वम् । यद्वा । रुचा आरोचमानौ भवथः । रोचतेरिगुपधलक्षणः कः । सुप आकारः ॥ “नृपतीव यथा नॄणां पालयितारौ राजानौ संभ्रमयुक्तायै सेनायै रक्षकत्वेन भवतः तद्वत् “तुर्यै कर्मार्थं त्वरमाणायै संभ्रमवत्यै जनतायै युवामभीष्टदातृत्वेन भवथः ॥ ‘तुर त्वरणे'। 'इगुपधात्कित्' (उ. सू. ४. ११९) इतीन्प्रत्ययः । ‘कृदिकारादक्तिनः' (पा. सू. ४. १. ४५ ग.) इति ङीष् । ‘उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥ “इर्येव इर्याविव । इरान्नम् । तत्र भवौ। भवार्थे थत् । अन्नवन्तावाढ्यौ स्वजनपरितोषणाय भवतः । तद्वद्युवां “पुष्ट्यै धनादिदानेनास्माकं परितोषणाय भवथः। “किरणेव किरणाविव यथाग्न्यादित्यकिरणौ सर्वेषां प्रकाशनादिद्वारेण भोगाय भवतः तद्वत् "भुज्यै स्तोतॄणां परिभोगाय भवथः। “श्रुष्टीवानेव श्रुष्टिवन्ताविव । श्रुष्टीति क्षिप्रनाम । मत्वर्थीयो वनिप् । तद्वन्तावश्वौ यथा लक्ष्यं देशं प्रति शीघ्रं गच्छतः तद्वत् । यद्वा । श्रुष्टीवानेव । श्रुष्टीति सुखनाम । तद्वन्तौ पुरुषौ यथा क्रीडार्थमागच्छतः तद्वद्युवां “हवम् अस्मदीयमाह्वानं प्रति “आ “गमिष्टम् आगच्छतम् ॥ हवम् । ‘भावेऽनुपसर्गस्य' इति ह्वयतेरप् संप्रसारणं च ॥
 
 
Line १०६ ⟶ १२३:
वाजाऽइव । उच्चा । वयसा । घर्म्येऽस्था । मेषाऽइव । इषा । सपर्या । पुरीषा ॥
 
“वंसगेव वंसगाविव वननीयगमनौ वृषभाविव तौ यथा “पूषर्या पूषर्यौ पूषणे भवौ। पुष्टावयवावित्यर्थः । तद्वद्युवां स्फीताङ्गावयवौ ।' पुष पुष्टौ' । अस्मादौणादिको भावेऽरन्प्रत्ययः । तदन्तात् ‘भवे छन्दसि' इति यत् । तित्स्वरितम् । तथा “शिम्बाता शिम्बातौ । सुखनामैतत् शिम्बेन दुःखानां तनूकरणेन हेतुना आतं व्याप्तमिति । ‘शिञ् निशाने'। अस्माच्छिम्बमिति बाहुलकाद्धप्रत्ययो मुक्च निपात्यते । अततेः कर्मणि घञ्। सुप आलादेशः । सुखकरौ भवथः । “मित्रेव मित्राविव । मित्रशब्देन वरुणोऽप्युपलक्ष्यते सहावस्थानात् । मित्रावरुणाविव “ऋता ऋतौ सत्यभूतौ तद्वद्यथार्थदर्शिनौ भवथः । तथा “शतरा शतं शतसंख्याकानि बहूनि रायो धनानि ययोः सन्ति तौ तथोक्तौ । सुपो डादेशः । यद्वा । शतमनेकमिन्द्रियप्रसादादि राति ददातीति शतरा सुखम् । तेन तद्वन्तौ । “शातपन्ता शातपन्तौ तीक्ष्णस्तुतिकौ । शातं तीक्ष्णम् । पन्तम् । पनतेर्बाहुलकात्तन् ( उ. सू. ३. ८६ )। यद्वा शातपन्ता । शातेन दुःखानां तनूकरणेन पन्यते स्तूयत इति शातपन्तं सुखम् । शो तनूकरणे'। निष्ठा । पनतेस्तन् । तेन युवां सुखवन्तौ भवथः । यद्यपि शिम्बाता शतरा शातपन्ता इति त्रीण्यपि सुखनामानि तथापि कालत्रयेऽप्यश्विनोः सुखकरत्वस्य विवक्षितत्वेन विषयभेदादपौनरुक्त्यम् । "वाजेव वाजाविव यथाश्वौ घासादिनोन्नतौ संपूर्णावयवौ तद्वत् “वयसा हवीरूपेणान्नेन हेतुना “उच्चा उचैर्वर्तमानौ । पुष्टावित्यर्थः ॥ उच्चा। उच्चैःशब्दात्सुपो डादेशः। डित्त्वाट्टि लोपः ॥ “घर्म्येष्ठा घर्मस्थौ । घर्मं दीप्तमन्तरिक्षम् । तत्संबन्धिनि देशे सूर्याचन्द्रमसो रूपेणावस्थितौ भवथः । ‘सूर्याचन्द्रमसौ ' (निरु. १२. १) इति यास्कः। यद्वा । घर्म्ये प्रवर्ग्ये भवं घर्म्यं हविः । तत्र देवतात्वेनावस्थितौ भवथः ॥ तिष्ठतेः ' अन्येभ्योऽपि दृश्यन्ते इति विच् । 'तत्पुरुषे कृति बहुलम्' इति पूर्वपदस्य सप्तम्या अलुक् ॥ "मेषेव मेषाविव । तौ यथान्नेन परिचरणीयौ तद्वद्युवाम् “इषा हवीरूपेणान्नेन “सपर्या सपर्यौ परिचरणीयौ भवथः । सपरशब्दः कण्ड्वादिः । सपर्यतिः परिचरणकर्मा । “पुरीषा पुरीषौ धनादिदानेन स्तोतॄणां पोषयितारौ यद्वा हविर्भिः पोषणीयौ भवथः । ‘पुरीषं पुष्णातेः पोषयतेर्वा' (निरु. २. २२) इति यास्कः ॥ ॥ १ ॥
 
 
सृ॒ण्ये॑व ज॒र्भरी॑ तु॒र्फरी॑तू नैतो॒शेव॑ तु॒र्फरी॑ पर्फ॒रीका॑ ।
 
उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे॑ ज॒राय्व॒जरं॑ म॒रायु॑ ॥७॥६
 
सृ॒ण्या॑ऽइव । ज॒र्भरी॒ इति॑ । तु॒र्फरी॑तू॒ इति॑ । नै॒तो॒शाऽइ॑व । तु॒र्फरी॒ इति॑ । प॒र्फ॒रीका॑ ।
Line १२० ⟶ १३८:
उदन्यजाऽइव । जेमना । मदेरू इति । ता । मे । जरायु । अजरम् । मरायु ॥
 
“सृण्येव सृण्याविव । सृणिरङ्कुशः । तत्र साधुः' इति यत् । अङ्कुशार्हौ मत्तगजाविव “जर्भरी गात्रविनामं कुर्वन्तौ ॥ जभ जृभि गात्रविनामे'। अस्मादौणादिको रिप्रत्ययः ॥ यद्वा । सृण्येव । सृणिर्द्विविधा । मत्तगजस्यैकत्रावस्थापयित्र्येका। अपरा बाधयित्री ॥ ‘सर्तेः किच्च' ( उ. सू. ४. ४९; १०४ ) इत्यौणादिको निप्रत्ययः । कित्त्वादगुणः । ‘कृदिकारादक्तिनः' इति ङीष् । सुप आकारः। ‘उदात्तस्वरितयोर्यणः' इति स्वरितः ॥ तादृश्यौ सृण्याविव जर्भरी भर्तारावेकत्रैवावस्थापकौ । तथा “तुर्फरीत् तर्फितारी शत्रूणां हन्तारौ। जर्भरी। भरतेर्यङ्लुगन्तादौणादिक इप्रत्ययः । अभ्यासस्य जकारश्छान्दसः । तृफ तृम्फ हिंसायाम् । अस्मात्तृजन्तस्य तुर्फरीतारावित्यस्य पृषोदरादित्वाद्वर्णविकारः । यद्वा । अस्माद्बाहुलकादौणादिकोऽरीतुप्रत्यय उत्वं च । अत्र निरुक्तं--- ‘द्विविधा सृणिर्भवति भर्ता च हन्ता च तथाश्विनौ चापि भर्तारौ जर्भरी भर्तारावित्यर्थस्तुर्फरीतू हन्तारौ' (निरु. १३.५) इत्यादि । “नैतोशेव । नितोशतिर्वधकर्मा। नितोशयतीति नितोशः । तस्यापत्यं नैतोशः । ताविव “तुर्फरी शत्रूणां हन्तारौ ॥ तृफतिर्हिंसार्थः । अस्मादौणादिको रिप्रत्यय उत्वं च ॥ “पर्फरीका पर्फरीकौ शत्रूणां विदारयितारौ ॥ ‘ञिफला विशरणे'। अस्मात् ‘पर्फरीकादयश्च । ( उ. सू. ४. २० ) इतीकप्रत्ययान्तो निपात्यते ॥ यद्वा । स्तोतृजनानां धनादिदानेन पूरयितारौ ॥ ‘पॄ पालनपूरणयोः । अस्मादीकनि पूर्ववत्सर्वं निपात्यते । फर्वतेः पूरणार्थाद्वा ॥ “उदन्यजेव उदन्यजे इव । उदके भवमुदन्यम् ॥ ‘पदन्नोमास्°' (पा. सू. ६. १. ६३ ) इत्यादिनाशस्त्रभृतिष्वप्युदन्नादेशः ॥ तत्र जाते रत्ने इव निर्मलौ । कान्तियुक्तावित्यर्थः। “जेमना जेमनौ जयशीलौ ॥ जयतेः ‘अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । दीर्घाभावश्छन्दसः ॥ "मदेरू बलातिशयेन मत्तौ स्तुत्यौ वा । “ता तौ पूर्वोक्तगुणावश्विनौ युवां “मे मदीयं “जरायुः जरायुजम् अत एव “मरायु मरणशीलं शरीरम् "अजरं जरारहितं मरणधर्मरहितं कुरुतम् ॥ ‘नञो जरमरमित्रमृताः' इति नञ उत्तरस्य जरशब्दस्याद्युदात्तत्वम् ॥
 
 
प॒ज्रेव॒ चर्च॑रं॒ जारं॑ म॒रायु॒ क्षद्मे॒वार्थे॑षु तर्तरीथ उग्रा ।
 
ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु॑र्वा॒युर्न प॑र्फरत्क्षयद्रयी॒णां ॥८॥७
 
प॒ज्राऽइ॑व । चर्च॑रम् । जार॑म् । म॒रायु॑ । क्षद्म॑ऽइव । अर्थे॑षु । त॒र्त॒री॒थः॒ । उ॒ग्रा॒ ।
Line १३४ ⟶ १५३:
ऋभू इति । न । आपत् । खरमज्रा । खरऽज्रुः । वायुः । न । पर्फरत् । क्षयत् । रयीणाम् ॥
 
हे “उग्रा उग्रावुद्गूर्णतेजस्कावश्विनौ “पज्रेव पञ्जाविव प्रार्जितबलौ वीराविव स्थितौ । यद्वा । पज्रेव। जि ज्रि अभिभावे' । पादाभ्यामभिभवन्तौ समर्थाविव स्थितौ । युवां “चर्चरं चरणशीलं “जारं जरायुक्तम् अत एव “मरायु मरणशीलं मदीयं शरीरम् “अर्थेषु गन्तव्येषु तरीतव्येष्वापदादिषु “क्षद्मेव । उदकनामैतत् । उदकमिव “तर्तरीथः अत्यन्तं तारयथः ॥ ‘तॄ प्लवनतरणयोः'। यङ्लुगन्ताल्लटि ‘छन्दस्युभयथा' इति थस आर्धधातुकत्वेनेडागमः । ‘वॄतो वा' (पा. सू. ७. २. ३८) इति दीर्घः ॥ “ऋभू “न ऋभू इव । दार्ष्टान्तिकसाम्यादत्र द्विवचनम् । ऋभू यथा स्वनिर्मितो रथ "आपत् तद्वत् “खरमज्रा खरं तीक्ष्णं मज्जयितारौ शोधयितारौ । अत्यन्तं शुद्धबलावित्यर्थः ॥ ‘टुमस्जो शुद्धौ । अस्मादौणादिको रप्रत्ययः ॥ तादृशौ युवां “खरज्रुः तीक्ष्णगतिरतिशयेन वेगवान् ऋभुभिर्दत्तो रथो युवाम् “आपत् आप्नोत् ॥ ‘आप्लृ व्याप्तौ'। लुङि लृदित्त्वात् च्लेरङ् ॥ स रथः "वायुर्न वायुरिव “पर्फरत् सर्वत्रापूरयत्। सर्वत्र व्याप्तवानित्यर्थः ॥ ‘फर्व पूरणे'। अस्माल्लेटि ‘बहुलं छन्दसि ।। इति शपः श्लुः । अभ्यासस्य रुगागमो वलोपश्च । 'लेटोऽडाटौ ' इत्यडागमः ॥ ततः स रथः “रयीणां धनानां धनानि “क्षयत् शत्रुभ्य आगमयत् ॥ ‘क्षि निवासगत्योः । अस्मादन्तर्णीतण्यर्थाल्लेट्यागमः ॥ यद्वा । क्षयतिरैश्वर्यकर्मा । धनानामीष्टे ॥ छान्दसमनुदात्तत्वम् ॥
 
 
घ॒र्मेव॒ मधु॑ ज॒ठरे॑ स॒नेरू॒ भगे॑विता तु॒र्फरी॒ फारि॒वारं॑ ।
 
प॒त॒रेव॑ चच॒रा चं॒द्रनि॑र्णि॒ङ्मन॑ऋंगा मन॒न्या॒३॒॑ न जग्मी॑ ॥९॥८
 
घ॒र्माऽइ॑व । मधु॑ । ज॒ठरे॑ । स॒नेरू॒ इति॑ । भगे॑ऽअविता । तु॒र्फरी॒ इति॑ । फारि॑वा । अर॑म् ।
Line १४८ ⟶ १६८:
पतराऽइव । चचरा । चन्द्रऽनिर्निक् । मनःऽऋङ्गा । मनन्या । न । जग्मी इति ॥
 
“घर्मेव घर्माविव महावीराविव “जठरे स्वोदरे “मधु मधुनः । षष्याभव लुक् । घृतस्य “सनेरू संभक्तारौ ॥ ‘वन षण संभक्तौ । अस्मादौणादिक एरुप्रत्ययः ॥ “भगेविता । भगो धनम् । तद्विषयरक्षणयुक्तौ ॥ अवतेर्भावे क्तः । तत्पुरुषे कृति बहुलम्' इति बहुलवचनात् बहुव्रीहावप्यलुक् ।। यद्वा । अवतेस्तृजन्तस्य सुपो डादेशः । स्वरस्तु छान्दसः ॥ “अरम् अलं “तुर्फरी शत्रूणां हिंसितारौ । अत एव “फारिवा। फारिरायुधम् । तद्वन्तौ भवतः । स्फुरतिर्वधकर्मा । अस्माण्णिचि ‘चिस्फुरोर्णौ ' (पा. सू. ६. १. ५४ ) इत्यात्वम् । तदन्तादिप्रत्ययः । सकारलोपश्छान्दसः । 'छन्दसीवानिपौ । इति मत्वर्थीयो वनिप् । सुपो डादेशः ॥ “पतरेव पतराविव पतनशीलौ पक्षिणाविव “चचरा संचरन्तौ “चन्द्रनिर्णिक् । निर्णिगिति रूपनाम । सुपो लुक् । चन्द्रनिर्णिजौ चन्द्रसदृशरूपयुक्तौ । यद्वा । चन्द्रमाह्लादकं रूपं ययोस्तौ वर्तेते । “मनऋङ्गा मनसा प्रसाधनं ययोस्तौ । ऋञ्जतिः प्रसाधनकर्मा । अस्माद्भावे घञ् । बहुव्रीहिस्वरः । “मनन्या “न मनन्यौ यथा । मनने साधू । स्तुत्यावित्यर्थः ॥ मननशब्दात् तत्र साधुः' इति यत् । तित्स्वरितम् ॥ तादृशाविव “जग्मी यज्ञं प्रत्यागमनशीलौ । भवतः ॥ गमेः ‘आदृगमहन' इति किन्प्रत्ययः ।।
 
 
बृ॒हंते॑व गं॒भरे॑षु प्रति॒ष्ठां पादे॑व गा॒धं तर॑ते विदाथः ।
 
कर्णे॑व॒ शासु॒रनु॒ हि स्मरा॒थोऽंशे॑व नो भजतं चि॒त्रमप्नः॑ ॥१०॥९
 
बृ॒हन्ता॑ऽइव । ग॒म्भरे॑षु । प्र॒ति॒ऽस्थाम् । पादा॑ऽइव । गा॒धम् । तर॑ते । वि॒दा॒थः॒ ।
Line १६१ ⟶ १८२:
 
कर्णाऽइव । शासुः । अनु । हि । स्मराथः । अंशाऽइव । नः । भजतम् । चित्रम् । अप्नः ॥
 
“बृहन्तेव बृहन्ताविव प्रांशू पुरुषौ यथा “गम्भरेषु गहनेषु जलेषु प्रतिष्ठां विन्दतः तद्वत् गह्वरेषु गम्भीरेषु दुष्प्रवेशेषु स्थानेषु “प्रतिष्ठाम् अवस्थितिमासदं युवां “विदाथः जानीथः । “पादेव पादाविव यथा “तरते । षष्ठ्यर्थे चतुर्थी । तरतः पुरुषस्य पादौ यथा “गाधं जलं वित्तः तद्वद्युवां तार्येषु जलेषु गाधं विदाथः जानीथः । ‘विद ज्ञाने'। लेट्याडागमः । “कर्णेव यथा कर्णावुक्तं शब्दं विदतुः तद्वद्युवां “शासुः शासितारं स्तुतिं कुर्वाणं जनम् “अनु “हि स्मराथः अनुकूलं जानीथः खलु। स्मरतेर्लेट्याडागमः । हियोगादनिघातः । ‘अधीगर्थदयेशां कर्मणि' (पा. सू. २. ३. ५२ ) इति शासुरित्यस्य षष्ठी । “अंशेव अंशाविव यथावयवौ तद्वन्तं यज्ञं भजेते तद्वद्युवां “नः अस्मदीयं “चित्रं चायनीयम् “अप्नः कर्म “भजतम् आश्रयतम् ॥ अप्नः।' आप्लृ व्याप्तौ । अस्मादापः कर्माख्यायां ‘ह्रस्वो नुट् च वा' ( उ. सू. ४. २०७ ) इत्यसुन तत्संनियोगेन ह्रस्वो नुडागमश्च । नित्स्वरेणाद्युदात्तः ॥
 
 
Line १६६ ⟶ १८९:
आ॒रं॒ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे ।
 
की॒नारे॑व॒ स्वेद॑मासिष्विदा॒ना क्षामे॑वो॒र्जा सू॑यव॒सात्स॑चेथे ॥११॥१०
 
आ॒र॒ङ्ग॒राऽइ॑व । मधु॑ । आ । ई॒र॒ये॒थे॒ इति॑ । सा॒र॒घाऽइ॑व । गवि॑ । नी॒चीन॑ऽबारे ।
Line १७६ ⟶ १९९:
कीनाराऽइव । स्वेदम् । आऽसिस्विदाना । क्षामऽइव । ऊर्जा । सुयवसऽअत् । सचेथे इति ॥
 
“आरङ्गरेव। 'गॄ शब्दे'। अस्माद्भावे ऋदोरप् । अरमलं पर्याप्तं गरः शब्दनम्। तस्य संबन्धिनौ ॥ तस्येदम्' इत्यण् ॥ शब्दवन्तौ मेघाविव यथा “मधु जलं प्रेरयतः तद्वद्युवाम् “एरयेथे प्रेरयथः ॥ ‘ईर प्रेरणे'। चौरादिकः ॥ “सारघेव सारघाविव । सरघा मधुमक्षिका । सरघैव सारघा । प्रज्ञादित्वादण् (पा. सू. ५. ४. ३८)। ते यथा “नीचीनबारे नीचीनद्वारे मधुपुष्पे मधु प्रेरयतः तद्वद्युवां नीचीनबारे न्यग्भूतद्वारे “गवि गोरूधसि क्षीरं प्रक्षिपथः । “कीनारेव कीनाराविव कुत्सितमनुष्यौ यथा स्विद्यमानौ भवतः तद्वत् “स्वेदं स्विद्यमानं जलम् “आसिस्विदाना आ समन्तात् स्वेदयन्तौ प्रक्षारयन्ती भवथः ॥ ‘ञिष्विदा गात्रप्रक्षरणे'। अनुदात्तेत् । तस्माच्छान्दसे लिटि कानजादेशः ॥ “क्षामेव । ‘क्षै जै षै क्षये'। अस्मादातो मनिन् । ह्रस्वश्छान्दसः । क्षामा क्षीणा गौः “सुयवसात् । अदेः क्विप् । शोभनं यवसं घासादिकं भक्षयन्ती क्षीररूपेणान्नेन समवेता थथा। भवति तद्वद्युवाम् “ऊर्जा हवीरूपेणान्नेन “सचेथे संगच्छेथे ॥ ‘षच समवाये॥
 
 
ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मंत्रं॑ स॒रथे॒होप॑ यातं ।
 
यशो॒ न प॒क्वं मधु॒ गोष्वं॒तरा भू॒तांशो॑ अ॒श्विनोः॒ काम॑मप्राः ॥१२॥११
 
ऋ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ । मन्त्र॑म् । स॒ऽरथा॑ । इ॒ह । उप॑ । या॒त॒म् ।
Line १८९ ⟶ २१२:
 
यशः । न । पक्वम् । मधु । गोषु । अन्तः । आ । भूतऽअंशः । अश्विनोः । कामम् । अप्राः ॥
 
हे अश्विनौ वयं “स्तोमं त्रिवृत्पञ्चदशादिकम् “ऋध्याम ऋध्यास्म वर्धयेम ॥ • ऋधु वृद्धौ'। अस्मादाशीर्लिङि • किदाशिषि' इति यासुटः कित्त्वम्॥ “वाजं हविर्लक्षणमन्नं युवाभ्यां “सनुयाम प्रयच्छेम ॥ ‘षणु दाने'। तानादिकः । विधिलिङ्ग । वाक्यभेदादनिघातः ॥ तस्माद्युवां “सरथा सरथौ समानरथावेकमेव रथमारूढौ सन्तौ “इह अस्मिन् कर्मणि "नः अस्मदीयं “मन्त्रं मननीयं स्तोत्रम् “उप “यातम् उपागच्छतम् । “गोष्वन्तः । गोरूधस्यवस्थितं “पक्वं परिणतम् अत एव “मधु मधुरं “यशो न । यश इत्यन्ननाम । नश्चार्थे । क्षीराज्यादिलक्षणं महावीरेऽवनीयमानमन्नं चापेक्ष्यागच्छतमिति संबन्धः । एवमुक्तप्रकारेण “भूतांशः एतन्नामर्षिः “अश्विनोः कामम् अभिलाषमात्मीयाभिः स्तुतिभिः “आ “अप्राः आपूरयत्। संपूर्णमकार्षीदित्यर्थः ॥ ‘प्रा पूरणे ) आदादिकः । व्यत्ययेन मध्यमः ॥ अत्राश्विने सूक्ते सर्वाण्यपि पदानि दुर्व्युत्पादान्यस्माभिर्दिङ्मात्रं प्रदर्शितानि । एवं निरुक्तव्याकरणादिभिरर्थविशेषे बुद्धिमद्भिरुन्नेयानि ॥ ॥ २ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०६" इत्यस्माद् प्रतिप्राप्तम्