"ऋग्वेदः सूक्तं १.११८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘आ वाम्' इत्येकादशर्चं तृतीयं सूक्तं कक्षीवत आर्षं त्रैष्टुभमाश्विनम् । तथा चानुक्रान्तम्- आ वामेकादश' इति । पूर्वसूक्ताभ्यां सह प्रातरनुवाकाश्विनशस्त्रयोः उक्तो विनियोगः ॥
 
 
आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
 
Line ४८ ⟶ ५१:
यः । मर्त्यस्य । मनसः । जवीयान् । त्रिऽवन्धुरः । वृषणा । वातऽरंहाः ॥
 
हे अश्विनौ "वां युवयोः स्वभूतः “रथः “अर्वाङ् अस्मदभिमुखम् “आ "यातु आगच्छतु । कीदृशो रथः । “श्येनपत्वा । श्येनाः' इत्यश्वनाम । शंसनीयगमनैरश्वैः पतन् गच्छन् । यद्वा । श्येनः पक्षी । स इव शीघ्रं पतन् । "सुमृळीकः शोभनसुखयुक्तः "स्ववान् धनवान् । हे वृषणौ कामानां वर्षितारावश्विनौ यः युष्मदीयो रथः “मर्त्यस्य मनुष्यस्य “मनसो “जवीयान् अतिशयेन वेगवान् । तद्यथा वेगेन कृत्स्नं जगत् व्याप्नोति ततोऽप्यतिशयेन क्षणमात्रादेव सर्वं जगत् पर्यटतीत्यर्थः । “त्रिवन्धुरः । वन्धुरं वेष्टितं सारथेः स्थानम् । त्रिप्रकारेण वन्धुरेण युक्तः “वातरंहाः वातस्य वायोः रंहो वेग इव वेगो यस्य स तथोक्तः । अनेन अप्रतिहतगतित्वमुच्यते । स रथ इति पूर्वत्रान्वयः ॥ श्येनपत्वा । ‘पत्लृ गतौ । ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । दासीभारादिः । यद्वा । दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् भावे वनिप् । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जवीयान् । जवोऽस्यास्तीति जववान् । अतिशयेन जववान् । आतिशायनिक ईयसुन् । विन्मतोर्लुक् । टेः ' इति टिलोपः ॥
 
 
Line ६२ ⟶ ६६:
पिन्वतम् । गाः । जिन्वतम् । अर्वतः । नः । वर्धयतम् । अश्विना । वीरम् । अस्मे इति ॥
 
“त्रिवन्धुरेण । वन्धुरं सारथिस्थानम् । त्रिप्रकारवन्धुरोपेतेन “त्रिवृता त्रिधा वर्तमानेन “त्रिचक्रेण चक्रत्रयोपेतेन “सुवृता शोभनं गच्छता “रथेन अर्वाक् अस्मदभिमुखम् “आ "यातम् आगच्छतम् । आगत्य च अस्मदीयाः "गाः “पिन्वतं पयसा पूरयतम् । “नः अस्माकम् “अर्वतः अश्वान् "जिन्वतं प्रीणयतम् । अपि च हे अश्विनौ “अस्मे अस्माकं वीरं पुत्रादिकं “वर्धयतं प्रवृद्धं कुरुतम् ॥ त्रिचक्रेण । त्रीणि चक्राणि यस्य स तथोक्तः । ‘त्रिचक्रादीनां छन्दस्युपसंख्यानम् । (पा. सू. ६. २. १९९. १ ) इत्युत्तरपदान्तोदात्तत्वम् ॥
 
 
Line ७६ ⟶ ८१:
किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराऽजाः ॥
 
हे “दस्रौ दर्शनीयावश्विनौ “प्रवद्यामना प्रकृष्टगमनेन शीघ्रगामिना “सुवृता शोभनवर्तनेन “रथेन आगत्य “अद्रेः आदरं कुर्वतः स्तोतुः “इमं “श्लोकं स्तुतिलक्षणाम् इमां वाचं “शृणुतम् । “अङ्ग “अश्विना हे अश्विनौ “पुराजाः पूर्वजाताः चिरंतनाः “विप्रासः मेधाविनः “वां युवाम् “अवर्तिं स्तोतॄणां दारिद्र्यं प्रति तत्परिहर्तुं “गमिष्ठा गन्तृतमौ 'आहुः कथयन्ति । किंशब्दः प्रदर्शनफलप्रश्ने वर्तते । किं न कथयन्ति । कथयन्त्येव सर्वे । तथा सति आगन्तव्यमिति ॥ प्रवद्यामना । स्वोपसृष्टे धात्वर्थे वर्तमानात् प्रशब्दात् ' उपसर्गाच्छन्दसि धात्वर्थे ' ( पा. सू. ५. १. ११८) इति वतिः । ‘या प्रापणे '।' आतो मनिन् ' इति बहुलवचनात् भावे मनिन् । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अद्रेः । ‘दृङ् आदरे ' । आङ्पूर्वात् अस्मादौणादिकः किप्रत्ययः आङो ह्रस्वश्च । गमिष्ठा । गन्तृशब्दात् “ तुश्छन्दसि ' इति इष्ठन् । ‘तुरिष्ठेमेयःसु ' इति तृलोपः । ‘सुपां सुलुक् ।' इति विभक्तेः आकारः । आहुः । प्रत्ययस्वरः । पादादित्वात् निघाताभावः ॥
 
 
Line ९० ⟶ ९६:
ये । अप्ऽतुरः । दिव्यासः । न । गृध्राः । अभि । प्रयः । नासत्या । वहन्ति ॥
 
हे अश्विनौ “रथे "युक्तासः सारथिना वहनप्रदेशे योजिताः “आशवः व्याप्नुवन्तः “पतङ्गाः पतनसमर्थाः “श्येनासः शंसनीयगमनाः अश्वाः "वां युवाम् “आ ”वहन्तु अस्मत्समीपमानयन्तु । "ये अश्वाः “अप्तुरः आप इव त्वरोपेताः "दिव्यासो न “गृध्राः अन्तरिक्षे वर्तमानाः गृध्राख्याः पक्षिण इव शीघ्रं गच्छन्तो हे नासत्यौ युवां "प्रयः हविर्लक्षणमन्नम् अभिलक्ष्य “वहन्ति प्रापयन्ति । तादृशाः इति पूर्वत्र संबन्धः । अप्तुरः । ‘तुर त्वरणे' । अप्शब्दोपपदात् अस्मात् ‘क्विप् च ' इति क्विप् ॥
 
 
Line १०४ ⟶ १११:
परि । वाम् । अश्वाः । वपुषः । पतङ्गाः । वयः । वहन्तु । अरुषाः । अभीके ॥
 
हे “नरा नेतारावश्विनौ “युवतिः तरुणी “सूर्यस्य दुहिता “जुष्ट्वी प्रीता सती "वां युवयोः अत्र इमं “रथम् आ “तिष्ठत् आरूढवती । तया सहितौ “वां युवाम् “अश्वाः "अभीके गृहसमीपे तं रथं “परि “वहन्तु परिप्रापयन्तु । कीदृशा अश्वाः । “वपुषः । वपुरिति रूपस्य शरीरस्य वा नामधेयम् । तद्वन्तः । छान्दसो मत्वर्थीयस्य लोपः। “पतङ्गाः उत्पतनसमर्थाः “वयः गच्छन्तः "अरुषाः आरोचमाना हिंसकरहिता वा ॥ अत्र । ‘इतराभ्योऽपि दृश्यन्ते ' ( पा. सू. ५. ३. १४ ) इति दृशिग्रहणात् भवदाद्ययोगेऽपि इदंशब्दात् विभक्त्यर्थे त्रल्प्रत्ययः । जुष्ट्वी । ‘जुषी प्रीतिसेवनयोः । औणादिकः क्तुप्रत्ययः । “वोतो गुणवचनात् ' इति ङीष् ॥ ॥ १८ ॥
 
 
Line ११८ ⟶ १२६:
निः । तौग्र्यम् । पारयथः । समुद्रात् । पुनरिति । च्यवानम् । चक्रथुः । युवानम् ॥
 
हे अश्विनौ “वन्दनम् एतत्संज्ञमृर्षि “दंसनाभिः आत्मीयैः कर्मभिः कूपात् “उत् “ऐरतम् उदैरयतम् उदगमयतम् । हे “दस्रा दर्शनीयौ “वृषणा कामानां वर्षितारावश्विनौ “शचीभिः कर्मभिः रेभम् एतत्संज्ञम् ऋषिं दश रात्रीः नवाहानि च कूपे निवसन्तं तस्मात् उदैरयतम् उदतारयतम् । तथा “तौग्र्यं तुग्रस्य पुत्रं भुज्युं समुद्रे निमग्नम् आत्मीयाभिः नौभिः अश्वैश्च “समुद्रात् “निः “पारयथः तीरदेशं प्रापितवन्तौ । तथा “च्यवानं च्यवनमृषिं जीर्णं “पुनः “युवानं यौवनोपेतं “चक्रथुः कृतवन्तौ ॥ ऐरतम् । ‘ईर गतौ कम्पने च । ण्यन्तात् लङि ‘छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि ' इति णिलोपः ॥
 
 
Line १३२ ⟶ १४१:
युवम् । कण्वाय । अपिऽरिप्ताय । चक्षुः । प्रति । अधत्तम् । सुऽस्तुतिम् । जुजुषाणा ॥
 
हे अश्विनौ “युवं युवाम् “अवनीताय शतद्वारे पीडायन्त्रगृहे अवस्तान्नीताय “अत्रये “तप्तं पीडार्थं प्रक्षिप्तं तुषाग्निं शीतेनोदकेन अवारयेथाम् । अपि च अस्मै अत्रये “ओमानं सुखकरम् “ऊर्जं रसवदन्नम् “अधत्तं प्रायच्छतम् । तथा “सुष्टुतिं शोभनां स्तुतिं “जुजुषाणा सेवमानौ युवाम् “अपिरिप्ताय असुरैः ब्राह्मण्यपरीक्षार्थम् इहासीनः सन् व्युष्टामुषसं जानीहि इति अन्धकारवति गृहे प्रवेशिताय “कण्वाय ऋषये “चक्षुः व्युष्टायाः उषसः प्रकाशकं वीणाशब्दं “प्रत्यधत्तं कृतवन्तौ । यद्वा । अपिरिप्ताय अपिलिप्ताय पटलेन पिहितदृष्ट्ये एवंविधाय कण्वाय चक्षुरिन्द्रियं प्रत्यधत्तं प्रत्यस्थापयतम् ॥ ओमानम्। अवतेरौणादिको मनिः । ‘ज्वरत्वर' ' इत्यादिना वकारस्य उपधायाश्च ऊठ् । गुणः । अपिरिप्ताय । ‘लिप उपदेहे ' । अस्मात् कर्मणि निष्ठा । कपिलकादित्वात् लत्वविकल्पः । ‘गतिरतन्तरः' इति गतेः प्रकृतिस्वरत्वम् । जुजुषाणा । जुषी प्रीतिसेवनयोः '। छान्दसो लिट् ।' लिटः कानज्वा । ‘सुपा सुलुक्° ' इति विभक्तेः आकारः ॥
 
 
Line १४६ ⟶ १५६:
अमुञ्चतम् । वर्तिकाम् । अंहसः । निः । प्रति । जङ्घाम् । विश्पलायाः । अधत्तम् ॥
 
“अश्विना हे अश्विनौ “युवं युवां “पूर्व्याय पुरातनाय "नाधिताय याचमानाय "शयवे एतत्संज्ञाय ऋषये “धेनुं निवृत्तप्रसवाम् अदोग्ध्रीम् “अपिन्वतं पयसा असिञ्चतम् । सर्वदा पयस्विनीमकुरुतमित्यर्थः । अपि च वर्तिकां वृकेण ग्रस्तां चटकसदृशीं शकुनिम् “अंहसः वृकास्यलक्षणात् पापात् “निः “अमुञ्चतं निरमोचयतम् । यद्वा । पुनःपुनर्वर्तते इति वर्तिका उषाः । तामादित्येनाभिग्रस्तां युवाममोचयतम् । तथा विश्पलायै संग्रामे छिन्नजङ्घायै अगस्त्यपुरोहितस्य खेलस्य संबन्धिन्यै एतत्संज्ञायै स्त्रियै आयसीं “जङ्घां “प्रति “अधत्तं प्रत्यस्थापयतं समयोजयतमित्यर्थः ॥
 
 
Line १६० ⟶ १७१:
जोहूत्रम् । अर्यः । अभिऽभूतिम् । उग्रम् । सहस्रऽसाम् । वृषणम् । वीळुऽअङ्गम् ॥
 
अश्विना हे अश्विनौ “पेदवे पेदुनाम्ने राज्ञे युवं युवां श्वेतवर्ण कंचित् अश्वम् अदत्तं प्रयच्छतम् । कीदृशम् । “इन्द्रजूतम् इन्द्रेण युवाभ्यां गमितं दत्तमित्यर्थः । “अहिहनम् शत्रूणां हन्तारं 'जोहूत्रम् अतिशयेन संग्रामेष्वाह्वातारम् “अर्यः अरेः शत्रोः "अभिभूतिम् अभिभावुकम् “उग्रम् उद्गूर्णम् वीर्यवन्तमित्यर्थः। “सहस्रसां सहस्रसंख्याकस्य धनस्य संभक्तारं दातारं वा “वृषणं सेक्तारं युवानमित्यर्थः। “वीडङ्गं दृढाङ्गम् ॥ इन्द्रजूतम् । जु इति सौत्रो धातुर्गत्यर्थः । अस्मादन्तर्भावितण्यर्थात् कर्मणि निष्ठा । ‘तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । जोहूत्रम् । ह्वयतेर्यङ्लुगन्तात् औणादिकः त्रप्प्रत्ययः। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । अर्यः । अरिशब्दात् षष्ठ्येकवचने ‘ जसादिषु च्छन्दसि वावचनम् ' इति ‘घेर्ङिति' इति गुणस्य विकल्पितत्वादभावे यणादेशः । ‘उदात्तयण:०' इति विभक्तेरुदात्तस्वम् । अभिभूतिम् । अभिभूयतेऽनेनेत्यभिभूतिः । करणे क्तिन् । ‘तादौ च ' इति गतेः प्रकृतिस्वरत्वम् । सहस्रसाम् । सनोतेः सनतेर्वा जनसनखन ' इति विट् । विड्वनोरनुनासिकस्यात्' इति आत्वम् ॥
 
 
Line १७४ ⟶ १८६:
आ । नः । उप । वसुऽमता । रथेन । गिरः । जुषाणा । सुविताय । यातम् ॥
 
“नरा नेतारौ हे अश्विनौ “सुजाता शोभनजन्मानौ “ता “वां तौ युवां “नाधमानाः धनं याचमानाः वयं स्तोतारः “अवसे रक्षणार्थं “सु “हवामहे शोभनमाहृयामहे । “गिरः स्तुतीः "जुषाणा सेवमानौ युवां “वसुमता धनयुक्तेन “रथेन “नः अस्मान् “उप “आ “यातम् उपागच्छतम् । किमर्थम् । “सुविताय सुष्ठु प्राप्तव्याय धनाय सुखाय वा ॥ सुजाता । शोभनं जातं जन्म ययोस्तौ सुजातौ । ‘सुपां सुलुक् ' इति विभक्तेराकारः । ऩञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । नाधमानाः । नाधृ याञ्चायाम् । जुषाणा । जुषी प्रीतिसेवनयोः '। ताच्छीलिकः चानश् । तुदादित्वात् शः । पूर्ववद्विभक्तेराकारः । सुविताय । सुपूर्वात् एतेः कर्मणि निष्ठा । तन्वादित्वात् उवङ्। ‘सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् ॥
 
 
Line १८८ ⟶ २०१:
हवे । हि । वाम् । अश्विना । रातऽहव्यः । शश्वत्ऽतमायाः । उषसः । विऽउष्टौ ॥
 
हे नासत्यावश्विनौ “सजोषाः सजोषसौ समानप्रीतियुक्तौ “श्येनस्य शंसनीयं गच्छतः अश्वस्य “नूतनेन नवतरेण प्रत्यग्रेण “जवसा वेगेन सहितौ युवाम् “अस्मे अस्मान् “आ “यातम् आगच्छतम्। “अश्विना हे अश्विनौ “रातहव्यः “वां युवाभ्यां दातव्येन हविषा युक्तः सन् “शश्वत्तमायाः कालात्मकतया नित्यायाः “उषसो व्युष्टौ विवासनसमये वां युवां “हवे आह्वयामि । हिः हेतौ । “हि यस्मादेवं तस्मात् आयातमित्यर्थः ॥ अस्मे । ‘सुपां सुलुक् ' इति शसः शेआदेशः । सजोषाः ।। तेनैव द्विवचनस्य सुआदेशः। हवे । ह्वेञो लडुत्तमैकवचने ‘बहुलं छन्दसि' इति संप्रसारणम् । शब्गुणावादेशाः । शश्वत्तमायाः। ‘उत्तमशश्वत्तमौ सर्वत्र' (पा. सू. ६. १. १६०. ग. ) इति उञ्छादिषु पाठात् अन्तोदात्तत्वम् ॥ ॥ १९ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११८" इत्यस्माद् प्रतिप्राप्तम्