"ऋग्वेदः सूक्तं १.१२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘का राधत्' इति द्वादशर्चं पञ्चमं सूक्तम् । अत्रानुक्रम्यते - ’का राधद्द्वादशान्त्या दुःस्वप्ननाशन्याद्या गायत्री द्वितीया ककुप् तृतीयाचतुर्थ्यौ काविराण्नष्टरूप्यौ पञ्चमी तनुशिरा षष्ट्यक्षरै: उष्णिग्विष्टारबृहती कृतिर्विराट् तिस्रो गायत्र्यः' इति । अस्यायमर्थः । अनुवृत्तेः औशिजो दैर्घतमसः कक्षीवान् ऋषिः आद्या गायत्री। ‘विद्वांसौ' इत्येषा ककुप् मध्यमपादस्य द्वादशाक्षरत्वात् । ‘मध्यमश्चेत्ककुप् ' (अनु. ५. ३) इति हि तल्लक्षणम् । तृतीया ‘ता विद्वांसा' इत्येषा काविराट् । ‘नवकयोर्मध्ये जागतः काविराट् ' ( अनु. ६. ५) इत्युक्तलक्षणोपेतत्वात्। चतुर्थी ‘वि पृच्छामि इत्येषा नष्टरूपी । ‘नववैराजत्रयोदशैर्नष्टरूपी ' (अनु. ६.६) इत्युक्तलक्षणोपेतत्वात् । ‘प्र या घोषे ' इत्येषा पञ्चमी तनुशिरा । ' एकादशिनोः परः षट्कस्तनुशिरा ' ( अनु. ५. ५) इत्युक्तलक्षणोपेतत्वात् । श्रुतं गायत्रम् ' इत्येषा षष्ठी यद्यपि पदसंख्यया उष्णिक् न भवति तथापि अक्षरसंख्यया उष्णिक् ।' युवं हि ' इति सप्तमी विष्टारबृहती । “अष्टिनोर्मध्ये दशकौ विष्टारबृहती' (अनु. ७.५) इति तल्लक्षणोपेतत्वात् ।' मा कस्मै ' इति अष्टमी कृतिः । ‘जागतावष्टकश्च कृतिः' (अनु. ६. ३ ) इत्युक्तलक्षणसद्भावात् । दुहीयन्' इति नवमी विराट् । दशम्याद्याः तिस्रो गायत्र्यः । ‘आश्विनं वै' इति वैशब्दप्रयोगात् तुह्यादिपरिभाषया इदमपि सूक्तम् आश्विनम् ।' अध स्वप्नस्य' इति अन्त्यया दुःस्वप्ननाशनं प्रतिपाद्यते । अतो ' या तेनोच्यते सा देवता ' ( अनु. २. ५) इति न्यायेन तदेव देवता ॥ सूक्तविनियोगो लैङ्गिकः । घर्माभिष्टवे आदितो नवर्चो विनियुक्ताः । सूत्र्यते हि - ’का राधद्धोत्राश्विना वामिति नवा भात्यग्निः' ( आश्व. श्रौ. ४. ६ ) इति । ‘का राधद्धोत्राश्विना वामिति नव विच्छन्दसः' (ऐ. ब्रा. १. २१) इत्यादिकं ब्राह्मणमनुसंधेयम् ॥
का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ ।
 
क॒था वि॑धा॒त्यप्र॑चेताः ॥
 
का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ ।
 
क॒था वि॑धा॒त्यप्र॑चेताः ॥१
 
का । रा॒ध॒त् । होत्रा॑ । अ॒श्वि॒ना॒ । वा॒म् । कः । वा॒म् । जोषे॑ । उ॒भयोः॑ ।
 
क॒था । वि॒धा॒ति॒ । अप्र॑ऽचेताः ॥१
 
का । राधत् । होत्रा । अश्विना । वाम् । कः । वाम् । जोषे । उभयोः ।
Line ५२ ⟶ ५३:
कथा । विधाति । अप्रऽचेताः ॥
 
“अश्विना हे अश्विनौ “वां युवां “का “होत्रा । वाङ्नामैतत् । कीदृशी स्तुतिलक्षणा वाक् “राधत् आराधयति प्रीतौ करोति । युवयोर्माहात्म्यानुरूपा स्तुतिर्नास्तीत्यर्थः । किंच “वां युवयोः "उभयोः “जोषे जोषणे सेवने प्रीणने वा समर्थः “कः स्तोता विद्यते । युष्मद्गुणाभिज्ञः कश्चिदपि नास्तीत्यर्थः । "अप्रचेताः युवयोर्माहात्म्यमजानंश्च “कथा केन प्रकारेण “विधाति युवां परिचरति । युष्मद्विषयं परिचरणमपि न कर्तुं शक्यमित्यर्थः ।। राधत् । ‘राध साध संसिद्धौ'। लेटि अडागमः । जोषे । “जुषी प्रीतिसेवनयोः '। भावे घञ् । ञित्वादाद्युदात्तत्वम् । कथा । ‘था हेतौ च च्छन्दसि ' इति किंशब्दात् प्रकारवचने थाप्रत्ययः । किमः कः' इति कादेशः । विधाति । ‘विध विधाने' । तौदादिकः । लेटि आडागमः । अप्रचेताः । प्रकृष्टं चेतो यस्यासौ प्रचेताः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः ।
 
नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥
 
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः ।
 
नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥२
 
वि॒द्वांसौ॑ । इत् । दुरः॑ । पृ॒च्छे॒त् । अवि॑द्वान् । इ॒त्था । अप॑रः । अ॒चे॒ताः ।
Line ६६ ⟶ ६८:
नु । चित् । नु । मर्ते । अक्रौ ॥
 
“इत्था इत्थम् अनेन पूर्वोक्तप्रकारेण "अविद्वान् अज्ञः स्तोता “विद्वांसौ “इत् सर्वज्ञौ अश्विनौ एव “दुरः द्वाराणि स्तुतिपरिचरणयोः उपायभूतान् मार्गान् “पृच्छेत् प्रष्टुमर्हति । “अपरः अश्विभ्यामन्यः सर्वः अपि “अचेताः । चेतसा ज्ञानेन रहितः । तस्मात् अश्विनावेव पृच्छेदित्यर्थः। तौ च “अक्रौ शत्रुभिः अनाक्रान्तौ अश्विनौ "नू “चित् क्षिप्रमेव “मर्ते मनुष्ये स्तोतरि भक्तानुग्राहकतया सनिं धत्तः इति वाक्यशेषः ॥ इत्था । ‘था हेतौ च च्छन्दसि ' इति थाप्रत्ययः । ‘इदम इश्'। ‘एतेतौ रथोः ' ( पा. सू. ५. ३. ४ ) इति इद्भावः । यदि ‘ था हेतौ च ' इत्यत्र इदंशब्दस्य नानुवृत्तिः तदानीम् ‘इदमस्थमुः । एतदन्तात् परस्या विभक्तेर्व्यत्ययेन ‘सुपां सुलुक्' इति विभक्तेर्डादेशः । अक्रौ । ‘क्रमु पादविक्षेपे ' । अस्मात् नञ्युपपदे ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्मण्यपि ‘जनसनखनक्रमगमो विट्' इति विट् ।' विड्वनोरनुनासिकस्यात्' इति आत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य ।
 
प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥
 
ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य ।
 
प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥३
 
ता । वि॒द्वांसा॑ । ह॒वा॒म॒हे॒ । वा॒म् । ता । नः॒ । वि॒द्वांसा॑ । मन्म॑ । वो॒चे॒त॒म् । अ॒द्य ।
Line ८० ⟶ ८३:
प्र । आर्चत् । दयमानः । युवाकुः ॥
 
हे अश्विनौ “विद्वांसा सर्वज्ञौ “ता "वां तौ युवां “हवामहे आह्वयामहे। तौ आहूतौ “विद्वांसा अभिज्ञौ युवां “नः अस्मभ्यं “मन्म मननीयं ज्ञातव्यं स्तोत्रम् "अद्य अस्मिन् काले "वोचेतं ब्रुवाणौ भूयास्तम् । स चाहं “युवाकुः युवां कामयमानः स्तुत्या संयोजयन् वा “दयमानः युवाभ्यां हविः प्रयच्छन् "प्रार्चत् प्रार्चं प्रकर्षण स्तौमि ॥ ता । ‘सुपां सुलुक्' इति विभक्तेराकारः । वोचेतम् । “ ब्रूञ् व्यक्तायां वाचि' । ‘ब्रुवो वचिः'। ‘लिङयाशिष्यङ्' । ‘वच उम्' इति उमागमः। आर्चत् ।' अर्च पूजायाम् ' । भौवादिकः । ‘तिङां तिङो भवन्ति' इति मिपः तिबादेशः । दयमानः । दय दानगतिरक्षणहिंसादानेषु' । शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । युवाकुः । युवां कामयते इति युवाकुः । ‘मितद्र्वादिभ्य उपसंख्यानम् ' (पा. सू. ३. २. १८०. १) इति डुप्रत्ययः । अविभक्तावपि व्यत्ययेन ‘युवावौ द्विवचने' इति युवादेशः आत्वं च । यद्वा । ‘यु मिश्रणे'। औणादिकः काकुप्रत्ययः ॥
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।
 
पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥
 
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।
 
पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥४
 
वि । पृ॒च्छा॒मि॒ । पा॒क्या॑ । न । दे॒वान् । वष॑ट्ऽकृतस्य । अ॒द्भु॒तस्य॑ । द॒स्रा॒ ।
Line ९४ ⟶ ९८:
पातम् । च । सह्यसः । युवम् । च । रभ्यसः । नः ॥
 
हे अश्विनौ युवां “वि “पृच्छामि विशेषेण प्रष्टुमिच्छामि । “पाक्या न पक्तव्यप्रज्ञान् स्वपरिपक्वमतीन अन्यान् “देवान् “न पृच्छामि। किंतु युवामेव सर्वज्ञौ पृच्छामीत्यर्थः। हे “दस्रा दर्शनीयौ तौ युवां “वषट्कृतस्य वषट्कारेणाग्नौ हुतस्य “अद्भुतस्य आश्चर्यभूतस्य महतः "सह्यसः अतिशयेन बलवतो बलोत्पादकस्य सोमस्य स्वांशलक्षणमेकदेशं “पातं “च । “नः अस्मान् “च “रभ्यसः अतिशयेन रभस्विनः प्रौढोद्यमान् कुरुतम् । पाक्या । पचेः ‘ऋहलोर्ण्यत्' ।' चजोः कु घिण्ण्यतोः' इति कुत्वम् । तित्स्वरः । ‘सुपां सुलुक्' इति विभक्तेर्ङादेशः । वषट्कृतस्य । वषट्शब्दस्य ऊर्यादित्वेन गतित्वात् ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पातम् । ‘पा पाने '। 'बहुलं छन्दसि ' इति शपो लुक् । सह्यसः। सहते अभिभवत्यनेनेति सहो बलम् । असुन् । तदस्यास्तीति सहस्वी । मत्वर्थीयो विनिः । तत आतिशायनिक ईयसुन् । ‘विन्मतोर्लुक्'। छान्दस ईकोरलोपः । रभ्यसः । ‘रभ राभस्ये'। राभस्यं कार्योपक्रमः । पूर्ववत्प्रक्रिया उन्नेया ॥
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वां॑ ।
 
प्रैष॒युर्न वि॒द्वान् ॥
 
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वां॑ ।
 
प्रैष॒युर्न वि॒द्वान् ॥५
 
प्र । या । घोषे॑ । भृग॑वाणे । न । शोभे॑ । यया॑ । वा॒चा । यज॑ति । प॒ज्रि॒यः । वा॒म् ।
Line १०८ ⟶ ११३:
प्र । इषऽयुः । न । विद्वान् ॥
 
हे अश्विनौ “प्र भवति समर्था भवति सा वाक् “या वाक् युष्मत्स्तुतिरूपा “घोषे घोषाख्यायाः पुत्रे सुहस्त्याख्ये ऋषौ “भृगवाणे “न भृगौ च “शोभे शोभते । “यया च स्तुतिलक्षणया “वाचा “पज्रियः । पज्रा अङ्गिरसः । तेषां कुलोत्पन्नः कक्षीवान् "वां युवां “यजति पूजयति स्तौति । सापि शोभते इत्यर्थः । “इषयुर्न इषमन्नम् आत्मनः कामयमानश्च “विद्वान् स्तुत्यभिज्ञः कक्षीवानृषिः “प्र भवतु युष्मदनुग्रहात् संपूर्णकामो भवत्विस्यर्थः ॥ घोषे । घोषा नाम काचिद्ब्रह्मवादिनी कक्षीवतः पुत्री । अत्रोपचारात्तद्वाचकं प्रातिपदिकं पुत्रे वर्तते । भृगवाणे । चिरंतनो भृगुरिवाचरति । सर्वप्रातिपदिकेभ्यः' इति क्विप् । धातुसंज्ञायां व्यत्ययेन लटः शानच् । शबादि । आगमानुशासनस्यानित्यत्वात् मुगभावः । वृषादिः । शोभे । ‘शुभ दीप्तौ । लोपस्त आत्मनेपदेषु' इति तलोपः । इषयुः । ‘इष गतौ ' । इष्यति गच्छतीति इषमन्नम् । इगुपधलक्षणः कः । यद्वा । इषु इच्छायाम् । इष्यते सर्वैः प्राणिभिरिति इषमन्नम् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । प्रशब्देन संहितायां • प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या' (पा. सू. ६. १. ८९. ४ ) इति वृद्धिः ॥ ॥ २२ ॥
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वां ।
 
आक्षी शु॑भस्पती॒ दन् ॥
 
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वां ।
 
आक्षी शु॑भस्पती॒ दन् ॥६
 
श्रु॒तम् । गा॒य॒त्रम् । तक॑वानस्य । अ॒हम् । चि॒त् । हि । रि॒रेभ॑ । अ॒श्वि॒ना॒ । वा॒म् ।
Line १२२ ⟶ १२८:
आ । अक्षी इति । शुभः । पती इति । दन् ॥
 
हे अश्विना अश्विनौ “गायत्रं गातव्यं गायत्रीयुक्तं गायत्रसाम्ना निष्पाद्यं वा स्तोत्रं “तकवानस्य स्खलद्गतेः अन्धस्य ऋज्राश्वस्य संबन्धि “श्रुतम् अशृणुतम्। “अहं “चित् अहमिव “वां युवां सः “हि “रिरेभ स्तुतवान् । किं कुर्वन् । हे “शुभस्पती शोभनस्य कर्मणः पालयितारौ जलस्य वा स्वामिनौ “अक्षी युवाभ्यां दत्ते चक्षुषी “आ "दन् आददानः । तस्मै इव मह्यमप्यभिमतफलं प्रयच्छतमिति भावः ॥ श्रुतम् । ‘श्रु श्रवणे'। लङि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । तकवानस्य । ‘तक गतौ'। अत्र गतिसामान्यवाचिना तद्विशेषो मन्दगतिर्लक्ष्यते । औणादिक उप्रत्ययः । भृगवाणे इतिवत् प्रक्रियोन्नेया । रिरेभ । 'रेभृ शब्दे'। अक्षी । ई च द्विवचने ' इत्यक्षिशब्दस्य ईकारान्तादेशः । स चोदात्तः । शुभस्पती । ‘सुबामन्त्रिते पराङ्गवत्स्वरे' इति षष्ठ्यन्तस्य पराङ्गवद्भावात् पदद्वयसमुदायस्य आष्टमिकामन्त्रितानुदात्तत्वम् । दन् । आङ्पूर्वात् ददातेः ‘आङो दोऽनास्यविहरणे' (पा. सू. १. ३. २०) इत्यात्मनेपदम् । व्यत्ययेन शतृ । जुहोत्यादित्वात् श्लुः । “द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' इति वचनात् द्विर्वचनाभावः। छन्दस्युभयथा' इत्युभयथाश्रयणात् शतुः सार्वधातुकत्वेन ङित्वम् । आर्धधातुकत्वात् ‘आतो लोप इटि च' इत्याकार लोपः ॥
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतं ।
 
ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥
 
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतं ।
 
ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥७
 
यु॒वम् । हि । आस्त॑म् । म॒हः । रन् । यु॒वम् । वा॒ । यत् । निः॒ऽअत॑तंसतम् ।
Line १३६ ⟶ १४३:
ता । नः । वसू इति । सुऽगोपा । स्यातम् । पातम् । नः । वृकात् । अघऽयोः ॥
 
हे अश्विनौ “महः महतो धनस्य “रन् रातारौ दातारौ “युवं युवां कंचन "आस्तम् । - - - “निरततंसतं धनानि निरगमयतम् । रक्षकौ विनाशकावपि युवामेवेत्यर्थः । हे “वसू वासयितारावश्विनौ “ता तादृशौ युवां “नः अस्माकं “सुगोपा सुष्ठु गोपायितारौ रक्षितारौ “स्यातं भवतम् । अपि च “नः अस्मान् “अघायोः अघं पापफलमस्माकमिच्छतः “वृकात् स्तेनात् “पातं रक्षतम् ॥ महः । महतः । छान्दसः अच्छब्दलोपः । रन् । दन्नितिवत् प्रक्रियोन्नेया । व्यत्ययेनैकवचनम् । निरततंसतम् । तसि अलंकारे' । अस्मात् ण्यन्तात् लुङि ‘णिश्रिद्रुस्रुभ्यः' इति च्लेः चङ् द्विर्वचनादि च । गुरुसंज्ञया लघुसंज्ञाया बाधितत्वात् सन्वद्भावाभावः । सुगोपा । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । अघायोः । अघं परेषामिच्छति । 'छन्दसि परेच्छायाम्' इति क्यच् । 'अश्वाघस्यात्' इति आत्वम् । ‘क्याच्छन्दसि' इति उप्रत्ययः ॥
 
 
Line १५० ⟶ १५८:
स्तनऽभुजः । अशिश्वीः ॥
 
हे अश्विनौ “अमित्रिणे । अमित्रं मित्रराहित्यम् । तद्वते “कस्मै चिदपि शत्रवे “नः अस्मान् “मा “अभि “धातम् आभिमुख्येन मा स्थापयतम् । अपि च “नः अस्माकं "गृहेभ्यः सकाशात् “स्तनाभुजः स्तनैः वत्सान् मनुष्यांश्च पालयन्त्यः “धेनवः गावः “अशिश्वीः शिशुना वत्सेन विरहिता अस्मदीये गृहेऽशयाना वा सत्यः “अकुत्र चित् अस्माभिरगम्ये प्रदेशे “मा 'गुः मा गच्छन्तु ॥ धातम् । धाञो माङि लुङि ‘गातिस्था' इति सिचो लुक् । न माङ्योगे' इति अडभावः । अकुत्र । ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम्। गुः। ‘इण् गतौ'। ‘इणो गा लुङि' इति गादेशः । ‘गातिस्था' इति सिचो लुक् । आतः' इति झेर्जुस् । स्तनाभुजः । भुज पालनाभ्यवहारयोः' । स्तनैर्भुञ्जन्ति पालयन्तीति स्तनाभुजः । क्विप् । अन्येषामपि दृश्यते' इति सांहितिको दीर्घः । अशिश्वीः । ‘सख्यशिश्वीति भाषायाम् ' (पा. सू. ४. १. ६२) इति छन्दस्यपि व्यत्ययेन निपातनं द्रष्टव्यम् । यद्वा । शिशुरस्यास्तीति शिश्वी ।' छन्दसीवनिपौः' इति मत्वर्थीय ईकारः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घः । अथवा ।' शीङ् स्वप्ने '। ‘उत्सर्गश्छन्दसि' इति किप्रत्ययः । द्विर्वचनह्रस्वत्वे । “एरनेकाचः' इति यण् । छान्दसो वकारः । पूर्ववत्समासस्वरौ ॥
 
 
Line १६४ ⟶ १७३:
इषे । च । नः । मिमीतम् । धेनुऽमत्यै ॥
 
हे अश्विनौ "युवाकु युवां कामयमानाः स्तुतिभिर्यावयितारः संयोजयितारो वा स्तोतारः “मित्रधितये मित्राणां बन्धुजनानां धारणार्थ “दुहीयन् युष्मत्सकाशाद्धनानि दुहन्ति प्राप्नुवन्ति । अतः “नः अस्मानपि “वाजवत्यै वाजयुक्ताय “च “राये धनाय “मिमीतं कुरुतम् । तथा “धेनुमत्यै धेनुभिर्युक्ताय “इषे अन्नाय “च “नः अस्मान् “मिमीतं कुरुतम् । अस्मभ्यं स्तोतृभ्यो बलयुक्तं धनं गोयुक्तमन्नं च प्रयच्छतमित्यर्थः ॥ दुहीयन् । दुह प्रपूरणे'। दुहिर्दोहः। ‘इगुपधात्कित्' (उ. सू. ४.५५९) इति भावे इप्रत्ययः । दुहिमात्मन इच्छति दुहीयति । ‘सुप आत्मनः क्यच् । दुहीयतेर्लेटि अडागमः । इतश्च लोपः' इति इकारलोपः । यद्वा । दुहेर्लिङि ‘झस्य रन्' (पा. सू. ३. ४. १०५) इति व्यत्ययेन रनादेशाभावे रूपमेतत् । छान्दसोऽन्त्यलोपः। यद्वा । रनादेशे कृते छान्दसो रेफस्य यकारः । अत एव व्युत्पत्यनवधारणात् नावगृह्णन्ति । युवाकु । ‘सुपां सुलुक्' इति जसो लुक् । मिमीतम् । माङ् माने शब्दे च'। जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । भृञामित्' इति अभ्यासस्य इत्वम्। ‘चवायोगे प्रथमा' इति निघातप्रतिषेधः ।।
 
 
Line १७८ ⟶ १८८:
तेन । अहम् । भूरि । चाकन ॥
 
“वाजिनीवतोः । वाजः अन्नं बलं वा । तद्वत्क्रियावतोः “अश्विनोः “अनश्वम् अश्वरहितम् अश्वराहित्येऽपि सामर्थ्यातिशयेन गच्छन्तं “रथम् “असनम् “अहम् स्तोता समभजम् । “तेन च रथेन “भूरि प्रभूतं श्रेयः “चाकन कामये ।। असनम् । वन षण संभक्तौ' । लङ् । चाकन। 'कन दीप्तिकान्तिगतिषु'। छान्दसो लिट् । “ णलुत्तमो वा' (पा. सू. ७. १. ९१ ) इति णित्त्वस्य विकल्पनात् वृद्ध्यभावः। तुजादित्वात् अभ्यासदीर्घत्वम् ॥
 
 
Line १९२ ⟶ २०३:
सोमऽपेयम् । सुऽखः । रथः ॥
 
हे “समह धनेन सहित हे रथ "अयं पुरोवर्ती त्वं “मा मां “तनु विस्तारय । पुत्रपौत्रधनादिभिः समृद्धं कुरु । यद्वा । अयम् अयमानं त्वां प्राप्नुवन्तं माम् इति योज्यम् । स च “सुखः शोभनावकाशः सुखहेतुर्वा “रथः “जनान् “अनु स्तोतृजनेषु “सोमपेयं सोमपानं प्रति “ऊह्याते उह्यते अश्विभ्यां नीयते अतः अश्विभ्यां यद्दीयते तत्सर्वं रथ एव ददातीति रथं संबोध्य प्रार्थना ॥ अयम् । इदोऽय् पुंसि' ( पा. सू. ७. २. १११)। यद्वा । 'अय पय गतौ । पचाद्यच् । समह । मघमिति धननाम । मघेन सह वर्तते इति समघः । छान्दसो वर्णविकारः । यद्वा । ‘मह पूजायाम्'। महयति पूजयतीति महो धनम् । पचाद्यच् । ऊह्याते। वह प्रापणे' । कर्मणि लेटि आडागमः । यजादित्वात् संप्रसारणम् । तस्य छान्दसो दीर्घः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । सोमपेयम् । 'पा पाने । ‘अचो यत्' इति भावे यत् । ‘ईद्यति' (पा. सू. ६. ४. ६५)' इति ईकारादेशः। यतोऽनावः' इस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
Line २०६ ⟶ २१८:
उभा । ता । बस्रि । नश्यतः ॥
 
“अध इदानीं प्रभातसमये “स्वप्नस्य स्वप्नं प्रति “निर्विदे निर्विण्णोऽस्मि । तथा “अभुञ्जतः परान् अरक्षतः "रेवतः धनवतः “च पुरुषस्य एवंभूतं पुरुषं प्रत्यपि निर्विण्णोऽस्मि । यतः तौ उभौ “बस्रि क्षिप्रं "नश्यतः नाशं प्राप्नुतः । स्वप्नदृष्टः पदार्थः प्रातर्नोपलभ्यते कदर्यस्येव धनमभुक्तमदत्तं सत् क्षिप्रमेव नश्यति । तदुभयविषयो निर्वेदो मां बाधते इत्यर्थः । अत्र स्वप्नमात्रस्य असत्वप्रतिपादनेन दुःस्वप्नस्याप्यसद्भावः प्रतिपादितः । अत एषा दुःस्वप्ननाशनीति युज्यते ॥ स्वप्नस्य । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । विदे।' विद्लृ लाभे '। आगमानुशासनस्य अनित्यत्वात् नुमभावः। रेवतः। रयिशब्दात् मतुप्। ‘रयेर्मतौ बहुलम्' इति संप्रसारणम् । 'छन्दसीरः' इति मतुपो वत्वम् । रेशब्दाच्च मतुप उदात्तत्वम्' इति तस्योदात्तत्वम् । उभा ता । उभयत्र ‘सुपां सुलुक् ' इति आकारः ॥ २३ ॥ ॥ १७ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२०" इत्यस्माद् प्रतिप्राप्तम्