"ऋग्वेदः सूक्तं ४.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
</span></poem>
{{सायणभाष्यम्|
‘तं वां रथम्' इति सप्तर्चं द्वादशं सूक्तम् । पुरुमीळहाजमीळ्हावेव ऋषी । त्रिष्टुप् छन्दः । अश्विनौ देवता ।' तं वाम् ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥
 
 
तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः ।
 
Line ३७ ⟶ ४०:
यः । सूर्याम् । वहति । वन्धुरऽयुः । गिर्वाहसम् । पुरुऽतमम् । वसुऽयुम् ॥
 
हे अश्विनौ “वां युवयोः “रथं “वयं स्तोतारः “अद्य सुत्याहनि “हुवेम आह्वयामः । कीदृशं तम्। “पृथुज्रयं प्रथितवेगं “गोः गवां “संगतिं संगमयितारम् । “यः रथः “सूर्यां “वहति धारयति । “वन्धुरयुः। रथे निवासाधारभूतः काष्ठो वन्धुरं तद्वान् । “तं “गिर्वाहसं गिरां स्तुतीनां वोढारं “पुरुतमं प्रभूततमं “वसूयुं वसुमन्तम् ॥
 
 
Line ५१ ⟶ ५५:
युवोः । वपुः । अभि । पृक्षः । सचन्ते । वहन्ति । यत् । ककुहासः । रथे । वाम् ॥
 
हे “दिवो "नपाता अदित्यस्य पुत्रस्थानीयौ द्युलोकस्य वा न पातयितारौ हे अश्विनौ "युवं युवां “देवता देवते ॥ विभक्तिव्यत्ययः ॥”तां प्रसिद्धां “श्रियं शचीभिः कर्मभिः शक्तिभिर्वा "वनथः संभजेथे । यद्वा । वनतिर्दानार्थः । “युवोः युवयोः “वपुः शरीरं "पृक्षः अन्नानि सोमलक्षणानि "अभि “सचन्ते प्राप्नुवन्ति “यत् यदा “रथे "वां “वहन्ति “ककुहासः महान्तोऽश्वाः । यद्वा । स्तुतयो वां युवां रथे वहन्ति ॥
 
 
Line ६५ ⟶ ७०:
ऋतस्य । वा । वनुषे । पूर्व्याय । नमः । येमानः । अश्विना । आ । ववर्तत् ॥
 
“कः यजमानः “अद्य “वां युवयोः “करते कुर्यात् स्तुतिम् । “अर्कैः मन्त्रैः “रातहव्यः दत्तसोमः “ऊतये “वा रक्षणाय वा “सुतपेयाय सोमपानाय “वा । “ऋतस्य उदकस्य यज्ञस्य “वा “पूर्व्याय पुराणाय “वनुषे संभजनाय हे “अश्विना अश्विनौ “नमो “येमानः नमस्कारं कुर्वाणः कः “आ “ववर्तत् आवर्तयेत् यज्ञं प्रति ॥
 
 
Line ७९ ⟶ ८५:
पिबाथः । इत् । मधुनः । सोम्यस्य । दधथः । रत्नम् । विधते । जनाय ॥
 
हे “पुरुभू बहु भवन्तौ नासत्यौ “इमं “यज्ञं “हिरण्ययेन “रथेन “उप "यातम् । “सोम्यस्य सोमसंबन्धिनः “मधुनः मधुररसस्य ॥ कर्मणि षष्ठ्यौ ॥ सोमरसं “पिबाथः पिबथः । “विधते परिचरते “जनाय मह्यं “रत्नं रमणीयं धनं “दधथः धारयथः । दधतेर्दानार्थस्य लेटि रूपम् ॥
 
 
Line ९३ ⟶ १००:
मा । वाम् । अन्ये । नि । यमन् । देवऽयन्तः । सम् । यत् । ददे । नाभिः । पूर्व्या । वाम् ॥
 
“नः अस्मान् "अच्छ अभि प्राप्तुं “दिवः द्युलोकात् “पृथिव्याः सकाशाद्वा “आ “यातम् । केन साधनेन । “हिरण्ययेन हितरमणीयेन' “सुवृता शोभनावर्तनेन “रथेन । “वां युवाम् “अन्ये “देवयन्तः देवौ युवामिच्छन्तो यजमानाः “मा “नि “यमन् नियमनं मा कुर्वन् । “यत् यस्मात “पूर्व्या पूर्वार्हा इतरयष्टृभ्यः पूर्वभाविनी “नाभिः बन्धिका स्तुतिः "सं “ददे संबध्नाति । तस्मादायातम् ॥
 
 
Line १०७ ⟶ ११५:
नरः । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सधऽस्तुतिम् । आजऽमीळ्हासः । अग्मन् ॥
 
“नु क्षिप्रं "नः अस्माकं “रयिं धनं “पुरुवीरं बहुपुत्रोपेतं "बृहन्तं महान्तं हे “दस्रा अश्विनौ “मिमाथां कुरुतम् । “उभयेषु पुरुमीळ्हाजमीळ्हेषु “अस्मे अस्मासु “यत् यदा “नरः नेतार ऋत्विजः पुरुमीळ्हसंबन्धिनः “वां युवयोः “स्तोमं स्तोत्रम् “आवन् अगमन् प्राप्ताः । तथा “सधस्तुतिं सहस्तुतिम् “आजमीळ्हासः अजमीळ्हसंबन्धिनोऽपि तैः सह “अग्मन् अगमन् ॥
 
 
Line १२१ ⟶ १३०:
उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥
 
‘इहेह' इति गतम् ॥ ॥ २० ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४४" इत्यस्माद् प्रतिप्राप्तम्