"ऋग्वेदः सूक्तं ५.७५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेन । प्रति । भूषति । माध्वी इति । मम । श्रुतम् । हवम् ॥
 
हे “अश्विनौ । एकः प्रतिशब्दोऽनुवादः । “वां युवयोः “प्रियतमं “रथं “स्तोता “ऋषिः अवस्युः “स्तोमेन “प्रति “भूषति अलंकरोति । कीदृशं रथम् । “वृषणं वर्षितारं फलानां “वसुवाहनं धनानां वाहकम् । ईदृशं रथमागमनाय स्तौतीत्यर्थः । तस्मात् हे “माध्वी मधुविद्यावेदितारौ “मस “हवम् आह्वानं “श्रुतं शृणुतम् ॥
 
 
Line ६१ ⟶ ६२:
दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । सुऽसुम्ना । सिन्धुऽवाहसा । माध्वी इति । मम । श्रुतम् । हवम् ॥
 
हे “अश्विना “अत्यायातम् । सर्वान् यजमानान् अतिक्रम्यागच्छतम् । यथा “अहम् ऋषिः “विश्वाः सर्वा अस्मद्विरोधिप्रजाः “सना सदा तिरस्करोमि । अथवाहं तिरः । ‘तिरः सत इति प्राप्तस्य ' ( निरु. ३. २० ) इति निरुक्तम् । प्राप्ता विश्वाः सर्वाः क्रिया युष्मदीयाः अनुतिष्ठेयमित्यर्थः । सना सनातनौ “दस्रा शत्रूणामुपक्षपयितारौ “हिरण्यवर्तनी हिरण्यरथौ “सुषुम्ना सुधनौ “सिन्धुवाहसा नदीनां प्रवाहयितारौ वृष्टिप्रेरणेन । तादृशौ युवामत्यायातम् ॥
 
 
Line ७५ ⟶ ७७:
रुद्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । जुषाणा । वाजिनीवसू इति वाजिनीऽवसू । माध्वी इति । मम । श्रुतम् । हवम् ॥
 
हे “अश्विना "नः अस्मभ्यं “रत्नानि रमणीयानि धनानि “बिभ्रतौ धारयन्तौ “युवं युवां नोऽस्मान् वा “आ “गच्छतम् । हे “रुद्रा रुद्रपुत्रौ स्तुत्यौ वा हे “वाजिनीवसू वाजिनधनौ युवां “हिरण्यवर्तनी हिरण्यरथौ “जुषाणा यज्ञं सेवमानौ सन्तौ आ गच्छतमिति । माध्वी इत्यादि गतम् ॥
 
 
Line ८९ ⟶ ९२:
उत । वाम् । ककुहः । मृगः । पृक्षः । कृणोति । वापुषः । माध्वी इति । मम । श्रुतम् । हवम् ॥
 
हे “वृषण्वसू वर्षधनौ वर्षितारौ वा वसूनां हे अश्विनौ "सुष्टुभः सुस्तोतुर्मम “वाणीची वाग्रूपा स्तुतिः "वां युवयोः “रथे "आहिता स्थापिता । अस्माभिः कृतेत्यर्थः । “उत अपि च “वां युवाभ्यां “ककुहः महान् “मृगः मृगयिता “वापुषः वपुष्मान् यजमानः “पृक्षः अन्नं हविः “कृणोति करोति । तस्मात् “मम “हवं “श्रुतम् इति ॥
 
 
Line १०३ ⟶ १०७:
विऽभिः । च्यवानम् । अश्विना । नि । याथः । अद्वयाविनम् । माध्वी इति । मम । श्रुतम् । हवम् ॥
 
हे “अश्विना "बोधिन्मनसा बुध्यमानमनस्कौ “रथ्या रथस्वामिनौ "इषिरा शीघ्रगन्तारौ सर्वैर्गन्तव्यौ वा “हवनश्रुता हवनस्य स्तुतेः श्रोतारौ युवां “विभिः अश्वैः “च्यवानम् ऋषिम् “अद्वयाविनं मायारहितं “नि “याथः । यथा तमृषिं प्राप्तवन्तौ तद्वत् मां प्रति पथि नि याथः नितरामागच्छतम् ।' प्र च्यवानाज्जुजुरुषो वव्रिम् ' ( ऋ. सं. ५. ७४. ५ ) इति ह्युक्तम् ॥ ॥ १५ ॥
 
 
Line ११७ ⟶ १२२:
वयः । वहन्तु । पीतये । सह । सुम्नेभिः । अश्विना । माध्वी इति । मम । श्रुतम् । हवम् ॥
 
हे नरा कर्मणां नेतारौ हे "अश्विना अश्विनौ “वां युवां “मनोयुजः मनोमात्रेण युज्यमानाः । सुशिक्षिता इत्यर्थः । “प्रुषितप्सवः विचित्ररूपाः “वयः शीघ्रगन्तारः “अश्वासः अश्वाः "आ “वहन्तु “पीतये सोमपानाय । “सुम्नेभिः “सह अस्मभ्यं देयैः सुखैस्तत्साधनैर्धनादिभिर्वा सह वहन्तु ॥
 
 
Line १३१ ⟶ १३७:
तिरः । चित् । अर्यऽया । परि । वर्तिः । यातम् । अदाभ्या । माध्वी इति । मम । श्रुतम् । हवम् ॥
 
हे "अश्विनौ "इह अस्मिन् यज्ञे “आ “गच्छतम् । हे "नासस्था “मा “वि “वेनतं विगतकामौ मा भवतम् । “ वेनतिः कान्तिकर्मा ' ( नि, १०. ३८)। हे “अदाभ्या अहिंस्यौ पूज्यौ “अर्यया अर्यौ स्वामिनौ युवाम् ॥ ‘सुपां सुलुक्' इत्यादिना सुपो याजादेशः ॥ “तिरश्चित् अन्तर्हितात् दूरदेशादपि युवां “वर्तिः अस्मद्यज्ञगृहं “परि “यातम् आगच्छतम् ॥
 
 
Line १४५ ⟶ १५२:
अवस्युम् । अश्विना । युवम् । गृणन्तम् । उप । भूषथः । माध्वी इति । मम । श्रुतम् । हवम् ॥
 
हे “अदाभ्या अहिंस्यौ हे “शुभस्पती उदकस्य स्वामिनौ “अश्विना अश्विनौ “युवं युवाम् “अस्मिन् “यज्ञे “जरितारं स्तोतारम् “अवस्युं “गृणन्तं स्तुवन्तं माम् "उप "भूषथः उपप्राप्नुतम् ॥
 
 
Line १६० ⟶ १६८:
 
 
“उषाः व्युष्टिः “अभूत् । अग्निः च “रुशत्पशुः दीप्तपशुमान् । प्रकाशितहविरित्यर्थः । अथवा पशवः किरणाः । रुशद्रश्मिः सन् “अधायि वेद्यामधीयत अग्निः अहवनीयः “ऋत्वियः ऋतौ काले भवः । हे “वृषण्वसू प्रदत्तधनौ हे “दस्रौ “वां युवयोः "अमर्त्यः अमरणधर्मा ध्रुवः “रथः “अयोजि । अश्वैर्युक्तो भवत्वित्यर्थः ॥ ‘छन्दसि लुङ्लङ्लिटः' इत्यनेकेष्वर्थेषु लुङ् भवति । इह प्रार्थनायाम् । माध्वी इत्यादि गतम् ॥ ॥ १६ ॥
 
}}
{{ऋग्वेदः मण्डल ५}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७५" इत्यस्माद् प्रतिप्राप्तम्