"ऋग्वेदः सूक्तं ५.७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
<div class="verse">
<pre>
अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
हंसाविव पततमा सुताँ उप ॥१॥
अश्विना हरिणाविव गौराविवानु यवसम् ।
Line ३० ⟶ २८:
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥९॥
 
</prespan></poem>
{{सायणभाष्यम्|
</div>
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतं ।
 
हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥१
 
अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।
 
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥
 
अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् ।
 
हंसौऽइव । पततम् । आ । सुतान् । उप ॥
 
 
 
अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सं ।
 
हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥२
 
अश्वि॑ना । ह॒रि॒णौऽइ॑व । गौ॒रौऽइ॑व । अनु॑ । यव॑सम् ।
 
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥
 
अश्विना । हरिणौऽइव । गौरौऽइव । अनु । यवसम् ।
 
हंसौऽइव । पततम् । आ । सुतान् । उप ॥
 
 
 
अश्वि॑ना वाजिनीवसू जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ ।
 
हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥३
 
अश्वि॑ना । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ ।
 
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥
 
अश्विना । वाजिनीवसू इति वाजिनीऽवसू । जुषेथाम् । यज्ञम् । इष्टये ।
 
हंसौऽइव । पततम् । आ । सुतान् । उप ॥
 
 
 
अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑ ।
 
श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥४
 
अत्रिः॑ । यत् । वा॒म् । अ॒व॒ऽरोह॑न् । ऋ॒बीस॑म् । अजो॑हवीत् । नाध॑मानाऽइव । योषा॑ ।
 
श्ये॒नस्य॑ । चि॒त् । जव॑सा । नूत॑नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्ऽत॑मेन ॥
 
अत्रिः । यत् । वाम् । अवऽरोहन् । ऋबीसम् । अजोहवीत् । नाधमानाऽइव । योषा ।
 
श्येनस्य । चित् । जवसा । नूतनेन । आ । अगच्छतम् । अश्विना । शम्ऽतमेन ॥
 
 
 
वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्यं॑त्या इव ।
 
श्रु॒तं मे॑ अश्विना॒ हवं॑ स॒प्तव॑ध्रिं च मुंचतं ॥५
 
वि । जि॒ही॒ष्व॒ । व॒न॒स्प॒ते॒ । योनिः॑ । सूष्य॑न्त्याःऽइव ।
 
श्रु॒तम् । मे॒ । अ॒श्वि॒ना॒ । हव॑म् । स॒प्तऽव॑ध्रिम् । च॒ । मु॒ञ्च॒त॒म् ॥
 
वि । जिहीष्व । वनस्पते । योनिः । सूष्यन्त्याःऽइव ।
 
श्रुतम् । मे । अश्विना । हवम् । सप्तऽवध्रिम् । च । मुञ्चतम् ॥
 
 
 
भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये ।
 
मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥६
 
भी॒ताय॑ । नाध॑मानाय । ऋष॑ये । स॒प्तऽव॑ध्रये ।
 
मा॒याभिः॑ । अ॒श्वि॒ना॒ । यु॒वम् । वृ॒क्षम् । सम् । च॒ । वि । च॒ । अ॒च॒थः॒ ॥
 
भीताय । नाधमानाय । ऋषये । सप्तऽवध्रये ।
 
मायाभिः । अश्विना । युवम् । वृक्षम् । सम् । च । वि । च । अचथः ॥
 
 
 
यथा॒ वातः॑ पुष्क॒रिणीं॑ समिं॒गय॑ति स॒र्वतः॑ ।
 
ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥७
 
यथा॑ । वातः॑ । पु॒ष्क॒रिणी॑म् । स॒म्ऽइ॒ङ्गय॑ति । स॒र्वतः॑ ।
 
ए॒व । ते॒ । गर्भः॑ । ए॒ज॒तु॒ । निः॒ऽऐतु॑ । दश॑ऽमास्यः ॥
 
यथा । वातः । पुष्करिणीम् । सम्ऽइङ्गयति । सर्वतः ।
 
एव । ते । गर्भः । एजतु । निःऽऐतु । दशऽमास्यः ॥
 
 
 
यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति ।
 
ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥८
 
यथा॑ । वातः॑ । यथा॑ । वन॑म् । यथा॑ । स॒मु॒द्रः । एज॑ति ।
 
ए॒व । त्वम् । द॒श॒ऽमा॒स्य॒ । स॒ह । अव॑ । इ॒हि॒ । ज॒रायु॑णा ॥
 
यथा । वातः । यथा । वनम् । यथा । समुद्रः । एजति ।
 
एव । त्वम् । दशऽमास्य । सह । अव । इहि । जरायुणा ॥
 
 
 
दश॒ मासां॑छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ ।
 
नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीवं॑त्या॒ अधि॑ ॥९
 
दश॑ । मासा॑न् । श॒श॒या॒नः । कु॒मा॒रः । अधि॑ । मा॒तरि॑ ।
 
निः॒ऽऐतु॑ । जी॒वः । अक्ष॑तः । जी॒वः । जीव॑न्त्याः । अधि॑ ॥
 
दश । मासान् । शशयानः । कुमारः । अधि । मातरि ।
 
निःऽऐतु । जीवः । अक्षतः । जीवः । जीवन्त्याः । अधि ॥
 
 
 
}}
{{ऋग्वेदः मण्डल ५}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७८" इत्यस्माद् प्रतिप्राप्तम्