"ऋग्वेदः सूक्तं ५.७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
</span></poem>
{{सायणभाष्यम्|
‘प्रातर्यावाणा' इति पञ्चर्चं पञ्चमं सूक्तमात्रेयं त्रैष्टुभमाश्विनम् । ' प्रातर्यावाणा' इति ह्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः । अप्तोर्यामे मैत्रावरुणातिरिक्तोक्थ्ये इदमेव शस्यम् । तथा च सूत्रितं -- प्रातर्यावाणा क्षेत्रस्य पते मधुमन्तमूर्मिम् ' ( आश्व. श्रौ. ९. ११ ) इति ॥
 
 
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः ।
Line ३५ ⟶ ३७:
प्रातः । हि । यज्ञम् । अश्विना । दधाते इति । प्र । शंसन्ति । कवयः । पूर्वऽभाजः ॥
 
हे मदीया ऋत्विजः प्रातर्यावाणा प्रातरेव यज्ञं गन्तारौ “प्रथमा अत एवेतरेभ्यो देवेभ्यः पूर्वभाविनौ प्रकृष्टतमौ वा अश्विनौ “यजध्वम् । किमर्थं प्रथमयागनियोगः । उच्यते । “गृध्रात् अभिकाङ्क्षतः "अररुषः अदातू रक्षःप्रभृतेः “पुरा पूर्वं “पिबातः पिबताम् । अनागतौ कथं यष्टुं शक्यावित्यत आह । “अश्विना अश्विनौ “प्रातर्हि "यज्ञं “दधाते धारयतः संभजतः । “पूर्वभाज: पूर्वकालीनाः “कवयः अनूचाना ऋषयः प्रातरेवैतौ “प्र “शंसन्ति । ये वा अनूचानास्ते कवयः (ऐ. ब्रा. २. ३८) इति हि निगमः ॥
 
 
Line ४९ ⟶ ५२:
उत । अन्यः । अस्मत् । यजते । वि । च । आवः । पूर्वःऽपूर्वः । यजमानः । वनीयान् ॥
 
हे मदीयाः पुरुषाः “अश्विना अश्विनौ “प्रातः प्रातरेव “यजध्वं पूजयध्वं स्तुध्वम् । “हिनोत प्रहिणुत हवींषि । “सायं सायंकाले हविः “देवयाः देवगामि “न “अस्ति न विद्यते । देवा न स्वीकुर्वन्तीत्यर्थः । “अजुष्टम् असेव्यं तद्भवति । पूर्वाह्णो वै देवानाम् ' इति हि श्रुतिः । “उत “अस्मत् अस्मत्तः “अन्यः कोऽपि “यजते यजेत सोमेन “वि “चावः वितर्पयेच्च हविषा । अतोऽस्मास्वन्येषु च मध्ये “पूर्वः पूर्वो “यजमानः यः पूर्वः पूर्वो यष्टा भवति सः “वनीयान् देवानां संभजनीयः संभाव्यो भवति ॥
 
 
‘हिरण्यत्वक् ' इत्येषाश्विने पशौ हविषो याज्या । ' हिरण्यत्वङ्मधुवर्णो घृतस्नुरभि क्रत्वेन्द्र भूरध ज्मन् ' ( आश्व. श्रौ. ३. ८) इति हि सूत्रितम् ॥
 
हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो॑ वर्तते वां ।
Line ६३ ⟶ ६९:
मनःऽजवाः । अश्विना । वातऽरंहाः । येन । अतिऽयाथः । दुःऽइतानि । विश्वा ॥
 
"वां युवयोः “रथः “पृक्षः अन्नममृतं “वहन् “आ “वर्तते अस्मदभिमुखमागच्छति । कीदृशो रथः। “हिरण्यत्वक् हिरण्याच्छादितरूपः हिरण्यावृतः “मधुवर्णः मनोहरवर्णः “घृतस्नुः उदकस्य प्रस्नवनः “मनोजवाः मनोवेगः “वातरंहाः वातसदृशवेगः । हे “अश्विना “येन रथेन “विश्वा सर्वाणि "दुरितानि दुर्गमनान् मार्गान् "अतियाथः अतिक्रम्य गच्छथः ॥
 
 
Line ७७ ⟶ ८४:
सः । तोकम् । अस्य । पीपरत् । शमीभिः । अनूर्ध्वऽभासः । सदम् । इत् । तुतुर्यात् ॥
 
“यः यजमानः "विभागे हविर्विभागवति' यागे “नासत्याभ्याम् अश्विभ्यां "भूयिष्ठं “चनिष्ठम् । ‘चन इत्यन्ननाम ' (निरु. ६. १६ )। बह्वन्नं कर्म “विवेष करोति । “पित्वः ॥ कर्मणि षष्ठी ॥ अन्नं च “ररते ददाति “सः यजमानः “अस्य आत्मन एव “तोकं पुत्रं “पीपरत् पालयेत् “शमीभिः कर्मभिः । “अनूर्ध्वभासः अनुन्नततेजस्कान् । यद्वा । ऊर्ध्वभासोऽग्नयः । अग्निरहितानयष्टॄन “सदमित् सदैव "तुतुर्यात् हिंस्यात्
 
 
Line ९० ⟶ ९८:
 
आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥
 
'समश्विनोः' इति पञ्चमी गता’॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७७" इत्यस्माद् प्रतिप्राप्तम्